________________
रक्ताशोकतरोरधश्छायायामुपविष्टम्, उग्रतपोभिर्भुवनमिव सागरैः, कनकगिरिमिव कुलपर्वतैः, ऋतुमिव वैतानिकवह्निभिः, कल्पान्तदिवसमिव रविभिः, कालमिव कल्पैः समन्तान्महर्षिभिः परिवृतम्, उग्रशपिकम्पितदेहया प्रणयिन्येव विहितकेशग्रहया क्रुद्धयेव कृतभ्रूभङ्गया मत्तयेवाकुलितगमनया प्रसाधितयेव प्रकटिततिलकया जरया गृहीतव्रतयेव भस्मधवलया धवलीकृतविग्रहम्, आयामिनीभिः पलितपाण्डुराभिस्तपसा विजित्य मुनिजनमखिलं धर्मपताकाभिरिवोच्छ्रिताभिरमरलोकमारोढुं पुण्यरज्जुभिरिवोपसंगृहीताभिरतिदूरप्रवृद्धस्य पुण्य -
***********
विविक्तं पूतं तलमधोभागो यस्य स तथा तस्य । तदिति । तत्क्षणे तदात्वे कृतो विहितो यः कुसुमोपहारः पुष्पढौकनं तेन रमणीयस्य मनोहरस्य । नातिमहतो नातिदीर्घस्य परिमण्डलं समन्तात्परिमाणं तस्य भावस्तत्ता तयात एव दीर्घस्य तालादेन(?) । तथा परिमण्डल विस्तीर्णोऽवकाशोऽभ्यन्तरप्रदेशो यस्य स तथा तस्य । उग्रेति । उग्रतपोभिस्तीक्ष्णतपोभिर्महर्षिभिः समन्तात्परिवृतं परिवेष्टितम् । किमिव । भुवनमिव विष्टपमिव सागरैः समुद्रैः । कनकगिरिमिव सुवर्णाद्रिमिव कुलपर्वतैः कुलाचलैः । क्रतुमिव यज्ञमिव वैतानिकवह्नयो दक्षिणाग्निगार्हपत्याहवनीयास्तैः । कल्पान्तदिवसमिव युगान्तवासरमिव रविभिः सूर्यैः । कालमिव समयमिव कल्पैः कालावयवैः । धवलीकृतेति । जरया विससया धवलीकृतः शुभ्रीकृतो विग्रहः शरीरं यस्य स तम् । अथ च जराया विशेषणानि - उग्रेति । उग्रः कठिनो यः शापस्तेन कम्पितश्चालितो देहो यया सा तया । प्रणयिन्येवेति । प्रणयिन्येव मनस्विन्येव विहितः केशग्रहो यया सा तया । वल्लभापि रतिकलहे केशग्रहं करोति । इयमपि केशे लग्नेत्यर्थः । क्रुद्धयेवेति । क्रुद्धयेव कोपाविष्टयेव कृतो भ्रूभङ्गो यया सा तया । क्रुद्धापि भ्रूभङ्गं करोति तथेयं कृतवतीत्यर्थः । मत्तयेवेति । मत्तयेव शौण्डयेव आकुलितं गमनं गतिर्यस्याः सा तया । मत्तापि स्खलद्गतिर्भवति तथेयमपि । प्रसाथितयेव भूषितयेव प्रकटितमाविष्कृतं तिलकं यया सा तया । भूषितापि स्त्री सतिलका भवति । अस्या अपि देहे तिलकाः प्रजायन्त इति प्रसिद्धिः । गृहीतेति । गृहीतं स्वीकृतं व्रतं यया सा तयेवात एव भस्मधवलया भस्म भूतिस्तद्वद्धवलया शुभ्रया । पुनः किंविशिष्टम् । जटाभिः सटाभिरुपशोभितमलंकृतम् । अथ जटा विशिनष्टि-आयामिनीभिर्विस्तारवतीभिः । पलितेति । पलितं पाण्डुरः कचस्तद्वत्पाण्डुराभिः श्वेताभिः । तपसेति । तपसाखिलं समग्र मुनिजनमृषिजनं विजित्य धर्मपताकाभिरिव धर्मस्य तपोमयस्य जयध्वजाभिरिवोच्छ्रिताभिरू/कृताभिरिव । अमरेति । अमरलोकं स्वर्लोकमारोढुमारोहणं कर्तुं पुण्यरज्जुभिरिव पवित्ररश्मिभिरिवोपसंगृहीताभिः स्वीकृताभिः । अतीति । अतिदूरं प्रवृद्धस्यातिदूरं वृद्धिं गतस्य पुण्यतरोः श्रेयस्तरोरुद्गताभिः प्रादुर्भूताभिः कुसुममञ्जरीभिरिव पुष्पवल्लरीभिरिव । - टिप्प०.1 'उग्रशापभीतयेव कम्पितदेहया' इत्यपि पाठः प्रचलितः । जाबालेर्य उग्रशापः तस्माद् भीता(जरा), अत एव सा कम्पितदेहा (कम्पितो देहो यस्याः, या हि भीता भवति तस्या देहकम्पो भवति), वस्तुतस्तु कम्पितो देहो (जाबालेः) यया । जरसा यः स्वाभाविको देहकम्पस्तत्र शापभयहेतुकत्वमुत्प्रेक्ष्यत इत्युत्प्रेक्षालंकार । 2 कृष्णवर्णचिह्नानि, 'तिल' इति भाषा । 3 या गृहीतव्रता भवति सा भस्मधारणेन धवला भवति । 4 पलितं केशेषु जराजनिता शुक्लता तया पाण्डुराभिः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ अत्युग्र. २ कुलाचलेः. ३ वैतान; वैतानक. ४ शापभियेव; शापभीतयेव. ५ तपोभिः. ६ उपार्जिताभि. ७ पुण्यै रज्जभिः; पुण्यरजोभिः. ८ तपस्तरोः.
(जाबालिः
पूर्वभागः ।
RIMINAI
NINNINANIY 91)