________________
च महाभारते शकुनिवधः, पुराणे वायुप्रलपितम्, वयः परिणामेन द्विजपतनम्, उपवनचन्दनेषु जाड्यम्, अग्नीनां भूतिमत्त्वम्, एणकानां गीतंश्रवणव्यसनम्, शिखैण्डिनां नृत्यपक्षपातः, भुजंगमानां भोगः, कपीनां श्रीफलाभिलाषः, मूलानामधोगतिः ।
तस्य चैबंविधस्य मेध्यभागमण्डलमलंकुर्वाणस्यालक्तकालोहितपेलवस्य मुनिजनालम्बितकृष्णाजिनजलैकरकसनाथशाखस्य तापसकुमारिकाभिरालवालदत्तपीतपिष्टैपञ्चाङ्गुलस्य हरिणशिशुभिः पीयमानालंबालकसलिलस्य मुनिकुमारकाबद्धकुशचीरदाम्नो हरितगोमयोपलेपनविविक्ततलस्य तत्क्षणकृतकुसुमोपहाररमणीयस्य नातिमहतः परिमण्डलतया विस्तीर्णावकाशस्य -
**
मातुलस्य विनाशः श्रूयते । न तत्र शकुनिवधः पक्षिवधः । पुराणेति । पुराण इतिहासादौ वायोर्वायुदेवतायाः प्रलपितं जल्पितम् । श्रूयते इति शेषः । न तु वायुना वायुविकारेणोन्मादादिना प्रलपितं यथाकथंचिज्जल्पितं यत्र नाभूत् । वय इति । वयः परिणामेन वर्ध द्विजानां दन्तानां पतनं पातः । न तु द्विजानां ब्राह्मणानां पतनं स्वाचाराभ्रंशः । यत्र नेति सर्वत्रानुषङ्गः । उपेति । उपवनं समीपवनं तत्र चन्दनतरवस्तेषु जाड्यं शैत्यम् । न त्वाश्रमवर्तिमुनिजनेषु जाड्यं प्रज्ञाहीनत्वम् । अग्नीनामिति । अग्नीनां वह्नीनां भूतिमत्त्वं भस्मवत्त्वम् । न तु मुनीनां भूतिः संपत्तद्वत्त्वम् । एणकेति । एणकानां मृगाणां गीतं गानं तस्य श्रवणं तत्र व्यसनमासक्तिः । नं मुनीनां तच्छ्रवणाभिलाषातिरेकः । शिखण्डीति । शिखण्डिनां मयूराणां नृत्ये ताण्डवे पक्षपातश्छदपतनम् । न तु मुनीनां नृत्यविषये पक्षपातोऽङ्गीकारः । भुजंगमेति । भुजंगमानां सर्पाणां भोगः शरीरम् । 'भोगोऽहिकायः' इति कोशः । न तु मुनीनां भोगः स्त्र्यादिजनितं सुखम् । कपीनामिति । कपीनां वानराणां श्रीफलाभिलाषः श्रीफलानि बिल्वीफलानि तेष्वभिलाषो वाञ्छाविशेषः । न तु मुनीनां श्रीर्लक्ष्मीस्तस्याः फलानि गृहकारापणादीनि तत्राभिलाषस्तीव्राध्यवसायः । मूलानामिति । मूलानां जटानामधोगतिरधः संयोगः । न त्वाश्रमवर्तिमुनीनामधोगतिर्नरकपातः ।
तस्येति । आश्रमस्यैवंविधस्य पूर्वोक्तप्रकारेण वर्णितस्य तस्य यो मध्यभागस्तस्य मेण्डलं वर्तुलप्रदेशस्तदलंकुर्वाणस्य रक्ताशोकतरोः कङ्केलिवृक्षस्याधश्छायायां उपविष्टं निषण्णं भगवन्तं जाबालि जाबालिमुनिमपश्यमिति दूरेणान्वयः । अथ जाबालिं वर्णयति-तत्र षष्ट्यन्तानि तरोर्विशेषणानि द्वितीयान्तानि मुनिविशेषणानीति स्वयमूहनीयम् । अलक्तेति । अलक्तकवद्यावकवल्लोहिता रक्ताः पल्लवा यस् स तथा तस्य । मुनीति । मुनिजनैस्तापसजनैरालम्बिताः स्थापिताः कृष्णाजिनानि कृष्णमृगचर्माणि जलकरकाः पात्रविशेषास्तैः सनाथा सहकृता शाखा यस्य स तथा तस्य । तापसेति । तापसकुमारिकाभिर्मुनिकन्याभिरालवाले मूलप्रदेशे दत्ताः पीतपिष्टस्य हरिद्राचूर्णस्य पञ्चाङ्गुलयो हस्तबिम्बा यस्मिन्स तथा तस्य । हरिणेति । हरिणशिशुभिर्मृगबालकैः पीयमानमास्वाद्य मानमालवालकस्य सलिलं यस्य स तथा तस्य । मुनीति । मुनिकुमारकैराबद्धं कुशचीरदाम यस्य स तथा तस्य । हरितेति । हरितमशुष्कं यद्गोमयं छगणं तेनोपलेपनं तेन
टिप्पo - 1 'मध्यभागमलंकुर्वाणस्य' इत्यपि पाठः प्रचलितः ।
-
पाठा० - १ परिणामे. २ गीतव्यसनम् ३ शिखण्डिनीनाम् ४ गीतनृत्तपक्ष ५ भुजगानाम्; भुजंगानाम्. ६ मध्यभागम्. ७ अलक्तक. ८ आलोहित. ९ लोलपल्लवस्य. १० अवलम्बित. ११ करङ्क. १२ कुमारिकाभिर्दत्त; कन्यकाभिर्मूलभागदत्त. १३ पिष्टातकानेक. १४ आपीयमान परिपीयमान १५ आलवाल. १६ उपलिप्त. १७ भूतलस्य. १८ रचित.
90
कादम्बरी ।