________________
तिमण्डलसनाथमपि सदासंनिहिततरुगहनान्धकारम्, अतिरमणीयमपरमिव ब्रह्मलोकमाश्रममपश्यम् ।
यत्र च मलिनता हवि॰मेषु न चरितेषु, मुखरागः शुकेषु न कोपेषु, तीक्ष्णता कुशाग्रेषु न स्वभावेषु, चञ्चलता कदलीदलेषु न मनःसु, चक्षुरागः कोकिलेषु न परकलत्रेषु, कण्ठग्रहः कमण्डलुषु न सुरतेषु, मेखलाबन्धो व्रतेषु नेाकलहेषु, स्तनस्पर्शो होमधेनुषु न कामिनीषु, पक्षपातः केकवाकुषु न विद्याविवादेषु, भ्रान्तिरनलप्रदेक्षिणासु न शास्त्रेषु, वसुसंकीर्तनं दिव्यकथासु न तृष्णासु, गणना रुद्राक्षवलयेषु न शरीरेषु, मुनिबालनाशः क्रतुदीक्षया न मृत्युना, रामानुरागो रामायणेन न यौवनेन, मुखभङ्गविकारो जरया न धनाभिमानेन । यत्र -
***********
पूर्णो न न्यून एवंविधो यो द्विजपतिश्चन्द्रस्तस्य मण्डलं तेन सनाथमपि सहितमपि सदा संनिहितमासन्नवर्तितरुगहनेष्वन्धकारं यस्मिन्निति विरोधः । तत्परिहारस्तु परिपूर्णा ज्ञानेन भृता ये द्विजपतयो ब्राहाणास्तेषां मण्डल समूहमित्यर्थात् । अतिरमणीयमत्यन्तमनोहारि - अपरेति । अपरं भिन्नमिव ब्रहालोक सुरलोकम् । अन्वयस्तु प्रागेवोक्तः । __ अथ पुनर्विरोधाभासप्रदर्शनपूर्वकमाश्रममाहात्म्यं प्रदर्शयति - यत्र चेति । 'मूलानामधोगतिः एतत्पर्यन्तं प्रघट्टकः । मलिनतेति । हविः सानाय्यं तस्य धूमेषु मलिनता मालिन्यम् । चरितेष्वाचारेषु न, कौलीन्यलक्षणं तदित्यर्थः । मुखराग इति । शुकेषु कीरेषु मुखरागो मुखारुण्यम् । कोपेष्विति निमित्तसप्तमी । कोपनैमित्तिक न मुखे वैरूप्यमित्यर्थः । तीक्ष्णतेति । कुशाग्रेषु दर्भप्रान्तेषु तीक्ष्णता चर्मास्थिभेदनसमर्थः शक्तिविशेषः । स्वभावेषु प्रकृतिषु न क्रूरत्वमित्यर्थः । चञ्चलतेति । कदलीदलेषु रम्भापत्रेषु चञ्चलता तरलता । न मनःसु चेतःसु वृत्तिविशेषः । चक्षुरिति । कोकिलेषु परभृत्सु चक्षुरागो नेत्रयोरारुण्यम् । परकलत्रेषु परस्त्रीषु नाभिलाष इत्यर्थः । कण्ठग्रह इति । कमण्डलुषु कुण्डिकासु कण्ठग्रहः कण्ठे ग्रहणम् । सुरतेषु मैथुनेषु न कण्ठालिङ्गनम् । मुनीनां तदभावादिति भावः । मेखलेति । व्रतेषु नियमेषु मेखलाबन्धो मौञ्जीवन्धनम् । ईर्ष्याकलहेष्वसूयाविग्रहेषु न श्रृङ्खलाबन्धनम् । स्तनेति । होमधेनुषु होमनैमित्तिकधेनुषु स्तनस्पर्शो दोहनम् । कामिनीषु ललनासु न कुचमर्दनम् । पक्षपात इति । कृकवाकुषु कुक्कुटेषु पक्षपातः पक्षाणां पतनम् । न विद्याविवादेषु शास्त्रकथासु सोपाधिकोऽङ्गीकारः । अन्यस्य पक्षिणस्तथा युद्धे पक्षपातो नास्तीति कुक्कुटग्रहणम् । भ्रान्तिरिति । अनलप्रदक्षिणासु भ्रान्तिः परिवृत्तिः । शास्त्रेषु न भ्रान्तिर्मिथ्याज्ञानम् । वस्विति । दिव्यकथासु भारतकथासु वसवो गणदेवाः पितृगणा वा तेषां संकीर्तनं सम्यक्प्रकारेण कथनम् । न तृष्णासु लिप्सासु वसु द्रव्यं तस्य संकीर्तन प्रशंसनम् । गणनेति । रुद्राक्षवलयेषु रुद्राक्षस्मरण्या गणना संख्या । न शरीरेषु देहेषु गणनाऽऽदरः । अत्यन्तनिस्पृहत्वात्तत्र निरपेक्षेत्यर्थः । मुनीति । बवयोरैक्यान्मुनीनां वालाः केशास्तेषां नाशो ध्वंसः क्रतुदीक्षया यज्ञदीक्षया । न मृत्युना बालनाशः शिशुनाशः । पुरुषायुषजीवित्वात्तेषाम् । रामेति । रामो दाशरथिस्तस्मिननुराग आराध्यत्वेन ज्ञानं रामायणेन रामचरित्रेण । तद्गन्थश्रवणेन तदुपरि रागाधिक्यमित्यर्थः । न तु यौवनेन तारुण्येन रामानुरागो रामाः स्त्रियस्तास्वनुरागो विषयेच्छा । मुखेति । मुखे भङ्गविकारस्त्रिवलीविकृतिर्जरया वार्धक्येन । धनाभिमानेन द्रव्यस्मयेन मुखभङ्ग आस्यमोटनादिविकृतिर्नेत्यर्थः । यत्र चेति । यस्मिन्स्थले महाभारते शास्त्रे शकुनिवधो दुर्योधनराज्ञो -
- - - - - - - टिप्प० - 1 परभृतेषु, काकैः पोषितत्वात् । 2 दुर्योधनराजस्येत्याशयः ।
-
-
-
-
-
-
-
-
-
-
पाटा० - १ वनितासु. २ कुक्कुटेषु. ३ प्रदक्षिणेषु. ४ शास्त्रार्थेषु. ५ धनतृष्णासु.
जाबाल्याश्रमः
पूर्वभागः ।
89