________________
अपरिचितमनृतस्य, अश्रुतपूर्वमनङ्गस्य, अब्जयोनिमिव त्रिभुवनवन्दितम्, असुरारिमिव प्रकटितनरहरिवराहरूपम्, सांख्यमिव कपिलाधिष्ठितम्, मधुरोपवनमिव बलावलीढदर्पितधेनुकम्, उदयनमिवानन्दितवत्सकुलम्, किंपुरुषाधिराज्यमिव मुनिजनगृहीतकैलशाभिषिच्यमान्द्रुमम्, निदाघसमयावसानमिव प्रत्यासन्नजलप्रपातम्, जलधरसमयमिव वनगहनमध्यसुखसुप्तहरिम्, हनूमन्तमिव शिलाशङलप्रहारसंचूर्णिताक्षास्थिसंचयम्, खाण्डवविनाशोद्यतार्जुनमिव प्रारब्धाग्निकार्यम्, सुरभिविलेपनधरमपि संतताविर्भूतहव्यधूमगन्धम्, मातङ्गकुलाध्यासितमपि पवित्रम्, उल्लसितधूमकेतुशतमपि प्रशान्तोपद्रवम्, परिपूर्णद्विजप -
***********
मित्यर्थः । एतेन सर्वथा पातकाभावो व्यज्यते । अपरीति । अनृतस्यासत्यस्यापरिचितमसंनिहितम् । अश्रुतेति । अनङ्गस्य कामस्याश्रुतपूर्वमनाकर्णितपूर्वम् । मदनोद्दीपकत्वाभावात् । अब्जेति । अब्जयोनिमिव ब्रह्माणमिव । त्रिभुवनवन्दितं अभिवादितम् । पक्षे वन्दित श्रेष्ठम् । असुरारीति । असुरारिर्विष्णुस्तद्वदिव प्रकटितानि नरो नरनारायणो हरिश्च नृहरिः । अथवा नरहरिनृसिंहो वराहश्च तेषां रूपाणि येन स तम् । पक्षे प्रकटितानि नरेभ्यो हरिवराहरूपाणि येन स तम् । सांख्येति । सांख्यं कापिलदर्शनं तदिव कपिलमुनिनाधिष्ठितमाश्रितम् । तत्प्रणीतत्वात् । पक्षे कपिलाभिर्गोभिरधिष्ठितम् । मधुरेति । मधुरा मधूपघ्नं तस्योपवनमिव द्वादशवनेषु गर्भितं वनं तद्वदिव बलावलीढो बलवान्दर्पितो दर्पयुक्तो धेनुको दैत्यो यस्मिन् । पक्षे बलावलीढाः बलयुक्ता दर्पिता धेनवो गावो यस्मिन् । उदयनेति । उदयनं राजानमिवानन्दितं वत्सकुलं येन । वत्सोऽत्र राजा पाण्डवकुलसमुत्पन्नः । पक्षे वत्सस्तर्णकस्तस्य कुलं समुदायः । किंपुरुषेति । किंपुरुषः किंनरस्तस्याधिराज्यं प्रभुत्वं तदिव मुनिजनैर्गृहीता ये कलशास्तैरभिषिच्यमानो द्रुमो नाम राजा यस्मिन् । किंनराणा द्रुमो नाम राजाभूदिति प्रसिद्धिः । पक्षे द्रुमा वृक्षाः । निदाघेति । ग्रीष्मसमयावसानमिव शुक्रमासमिव प्रत्यासन्नः समीपस्थो जलप्रपातः प्रवर्प यस्मिन् । पक्षे जलप्रपातो निर्झरः । जलधरेति । जलधरसमयमिव पर्जन्यकालमिव वनस्य पानीयस्य यद् गहनं गम्भीरं मध्यमभ्यन्तरप्रदेशस्तत्र सुखेन सुप्तो निद्रा प्राप्तो हरिर्विष्णुर्यस्मिन् । प्रावृषि विष्णुः समुद्रे शेत इति प्रसिद्धम् । पक्षे वनस्यारण्यस्य गहनानि गह्वराणि तेषु सुप्ता हरयः सिंहा यस्मिन् । हन्विति । हनूमन्तमिवाञ्जनीसुतमिव शिलाशकलप्रहारेण संचूर्णितोऽक्षनाम्नो रावणपुत्रस्यास्थिसंचयो येन स तम् । पक्षे संचूर्णितो योऽक्षो बिभीतकस्तस्यास्थिसंचयो मध्यप्रदेशसमूहो यस्मिन् । खाण्डवेति । खाण्डवनाम्नो वनस्य यो विनाशस्तत्रोद्यत उद्योगवान्योऽर्जुनः फाल्गुनस्तमिव प्रारब्धं विहितमग्निकार्यं देवसंतर्पणं यस्मिन् । पक्षेऽग्निकार्य होमः । सुरभीति । सुरभि सुगन्धि यद्विलेपनमङ्गरागस्तद्धरमपि सततं निरन्तरमाविर्भूतः प्रकटितो हव्यं सुरेभ्यो दातव्यं तस्य धूमगन्धो यस्मिन्निति विरोधः । तत्परिहारपक्षे सुरभेोः विलिप्यतेऽनेन भूरिति विलेपनं गोमयं यस्यामेतादृशी धरा भूर्यस्मिन्नित्यर्थः । मातङ्गेति । मातङ्गस्य यत्कुल तेनाध्यासितमपि तदाश्रितमपि पवित्र पावनमिति विरोधः । तत्परिहारस्तु मातङ्गकुलानि हस्तियूथानीत्यर्थात् । उल्लसितेति । उल्लसितमुल्लासं प्राप्तं धूमकेतुशतं यस्मिन्नेवंभूतमपि प्रशान्तोपद्रवमिति विरोधः । तत्परिहारस्तु धूमकेतवो वह्नय इत्यर्थात् । परीति । परि - टिप्प० - 1 वदन्ति केचिद् विदग्धाः- 'प्रकटितवराहनरसिंहरूपम्' इत्यपि पाठः । प्रकटितानि वराहाः नराः सिंहा रूपाणि मृगाश्च येन (सर्वेषामत्राऽवस्थानात्) इति आश्रमपक्षे । प्रकटिते वराहनरसिंहयो रूपे येनेति हरिपक्षेऽर्थः । 2 बलेन बलरामेण अवलीढः समापितो दर्पितो धेनुकस्तत्रामासुरो यस्मिनीदृशं मथुराया पवनमिवेति स्पष्टव्या व्याख्या । आश्रमपक्षेऽर्थस्तु स्फुटः । 3 अग्नेः कार्यमभीष्टं तत्सतर्पणं येन । 4 मातङ्गकुलेन चण्डालसमूहेन अध्यासितमपि पवित्रमिति विरोधः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ बराहनरसिंह. २ मधुरोपवनम्. ३ जलकलशा. ४ आसत्र. ५ प्रसुप्त. ६ अनिलसुतम्. ७ शकलसंचूर्णित. ८ आविर्भूतधूमगन्धम्. ९ मातङ्गक. १० सहसम्.
कादम्बरी।
कथामुखे