SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ चयैः कलापिभिः पक्षपुटवनसंधुक्ष्यमाणमुनिहोमहुताशनम्, आरब्धामृतचरुचारुगन्धम्, अर्धपक्वपुरोडाशपरिमलामोदितम्, अविच्छिन्नाज्यधाराहुतिहुतभुग्झङ्कारमुखरितम्, उपचर्यमाणातिथिवर्गम्, पूज्यमानपितृदैवतम्, अर्यमानहरिहरपितामहम्, उद्दिश्यमानश्राद्धकल्पम्, व्याख्यायमानयज्ञविद्यम्, आलोच्यमानधर्मशास्त्रम्, वाच्यमानविविधपुस्तकम्, विचार्यमाणसकलशास्त्रार्थम्, आरभ्यमाणपर्णशालम्, उपलिप्यमानाजिरम्, उपमृज्यमानोटजाभ्यन्तरम्, आबध्यमानध्यानम्, साध्यमानमन्त्रम्, अभ्यस्यमानयोगम्, उपहूयमानवदेवताबलिम्, निर्वय॑मानमौजमेखलम्, क्षाल्यमानवल्कलम्, उपसंगृह्यमाणसमिधम्, उपसस्क्रियमाणकृष्णाजिनम्, गृह्यमाणगवेधुकम्, शोष्यमाणपुष्करबीजम्, ग्रथ्यमानाक्षमालम्, न्यस्यमानवेत्रदण्डम्, सक्रियमाणपब्रिाजकम्, आपूर्यमाणकमण्डलुम्, अदृष्टपूर्वं कलिकालस्य, १० *********** कोशः । उपजातेति । उपजातपरिचयैः संजातसंबन्धैः कलापिभिर्मयूरैः पक्षपुटपवनेन छदपुटानिलेन संधुक्ष्यमाणः प्रज्वाल्यमानो मुनिनां होमा) हुताशनो वह्निर्यस्मिन्स तम् । आरब्धेति । आरब्धो विहितो योऽमृतचर्यवौदनस्तस्य चारुः मनोहरो गन्धो यस्मिन्स तम् । अधेति । अर्धपक्वो यः पुरोडाशः पूर्वोक्तस्तस्य परिमलो गन्धस्तेनामोदितं हर्षजननशीलम् । अवीति । अविच्छिन्नात्रुटिता या आज्यधारा घृतधारा तया हुतिर्हवनं तया यो हुतभुग्झङ्कारोऽग्निशब्दस्तेन मुखरितं वाचालितम् । उपचर्येति । उपचर्यमाणः पर्युपास्यमानोऽतिथिवर्गो यस्मिन् । पूज्येति । पूज्यमानानि पितृदेवतानि पितरो यस्मिँस्तम् । अर्येति । अय॑मानाः पूज्यमाना हरिः कृष्णः, हर ईश्वरः, पितामहः पितुः पिता ब्रह्मा, एते यस्मिन् । उद्दिश्येति । उद्दिश्यमान उद्देशपूर्वक क्रियमाणः श्राद्धकल्पः श्राद्धाचारो यस्मिन्स तम् । व्याख्येति । व्याख्यायमानार्थद्वारा निरूप्यमाणा यज्ञविद्या यागविद्या यस्मिन् स तम् । आलोच्येति । आलोच्यमानं मनसि विचार्यमाणं धर्मशास्त्र स्मृत्यादिकं यस्मिन्स तम् । वाच्येति । वाच्यमानानि परिभाष्यमाणानि विविधान्यनेकप्रकाराणि पुस्तकानि शास्त्राणि यस्मिन्स तम् । विचार्येति । विचार्यमाणो युक्त्या स्थाप्यमानः सकलशास्त्रार्थो यस्मिन् । आरभ्येति । आरभ्यमाणा नवीना क्रियमाणा पर्णशालोटजो यस्मिन् । उपलीति । उपलिप्यमानानि गोमयादिनाजिराणि प्राङ्गणानि यस्मिन् । उपेति । उपमृज्यमानानि प्रसार्यमाणानि उटजाभ्यन्तराणि पर्णशालामध्यानि यस्मिन् । आबध्येति । आबध्यमानं ध्यानमेकप्रत्ययसंततिर्यस्मिन् । साध्येति । साध्यमानो होमादिना स्वायत्तीक्रियमाणो मन्त्री देवाधिष्ठातृको यस्मिन् । अभ्यस्येति । अभ्यस्यमान उद्योगविषयीक्रियमाणो योगश्चित्तवृत्तिनिरोधो यस्मिन् । उपेति । उपहूयमान उपढौक्यमानो वनदेवतायै बलियस्मिन् । निर्वयेति । निर्वय॑माना निष्पायमाना मौजमेखला यस्मिन् । क्षाल्येति । क्षाल्यमानानि वल्कलकानि यस्मिन् । उपेति । उपसंगृह्यमाणा उपादीयमानाः समिधो यस्मिन् । उपेति । उपसंस्क्रियमाणं छगणादिना शुद्धीक्रियमाणं कृष्णाजिनं मृगचर्म यस्मिन् । गृह्येति । गृह्यमाणा गवेधुका धान्यविशेषः कन्दो वा यस्मिन् । शोष्येति । शोष्यमाणानि शोषं नीयमानानि पुष्करबीजानि कमलफलानि यस्मिन् । ग्रथ्येति । ग्रथ्यमाना अक्षमाला रुद्राक्षमाला यस्मिन् । न्यस्येति । न्यस्यमानः स्थाप्यमानो वेत्रदण्डो यस्मिन् । सदिति । सक्रियमाणाः परिव्राजका यस्मिन् । आपूर्येति । आपूर्यमाणानि जलेन भ्रियमाणानि कमण्डलूनि यस्मिन् । अदृष्टेति । कलिकालस्य कलियुगस्यादृष्टपूर्वमनवलोकितपूर्वम् । कलिप्रवेशायोग्य - . टिप्प० - 1 हुंकार इत्यपि पाठः । अग्नेहुँकार एव प्रसिद्धो न भूषणवझंकारः । 2 उपह्रियमाण इति पाठः केषु समुदायेषु प्रचलितः । - - - - - .- - - पाठा० - १ पुष्पपरिमल. २ हुंकार; उग्रहुंकार. ३ अभ्यर्च्यमान. ४ उपदिश्यमान. ५ अवलोक्यमान. ६ पठ्यमान. ७ आपमृज्यमान. ८ उपह्रियमाण. ९ मुञ. १० प्रक्षाल्यमान. ११ संस्क्रियमाण. १२ निगृह्यमाण. १३ पोष्यमाण. १४ गृह्यमाणत्रिपुण्ड्रकपूर्यमाण. १५ त्रिदण्डकम्. १६ संस्क्रियमाण. जाबाल्याश्रमः पूर्वभागः ।
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy