________________
नवैश्वदेवबलिपिण्डम्, आसनवापीकलहंसपोतभुज्यमाननीवारबलिम, एणीजिह्वापल्लवोपलिह्यमानमुनिबालकम्, अग्निकार्यार्धदग्धमिसमिसायमानसमित्कुशकुसुमम्, उपलभग्ननालिकेररसस्निग्धशिलातलम्, अचिरक्षुण्णवल्कलरसपाटलभूतलम्, रक्तचन्दनोपलिप्तादित्यमण्डलकनिहितकरवीरकुसुमम्, इतस्ततो विक्षिप्तभस्मलेखाकृतमुनिजनभोजनभूमिपरिहारम्, परिचितशाखामृगकराकृष्टिनिष्कास्यमानप्रवेश्यमानजरदन्धतापसम्, इभकलभार्थोपभुक्तपतितैः सरस्वतीभुजलताविगलितैः शङ्खवलयैरिव मृणालशकलैः कल्माषितम्, ऋषिजनार्थमेणकैर्विषाणशिखरोत्खन्यमानविविधकन्दमूलम्, अम्बुपूर्णपुष्करपुटैर्वनकरिभिरापूर्यमाणविटपालवालकम्, ऋषिकुमारकाकृष्यमाणवनवराहदंष्ट्रान्तराललग्नशालूकम्, उपजातपरि -
***********
मानो भक्ष्यमाणो वैश्वदेवस्य देवयज्ञस्य बलिपिण्डो हन्तकारो यस्मिन्स तम् । आसनेति । आसना समीपस्था या वापी दीर्घिका तस्याः कलहंसपोतैः कादम्बशिशुभिर्भुज्यमानो भक्ष्यमाणो नीवारबलियस्मिन्स तम् । एणीति । एण्यो मृग्यस्तासां जिह्वा रसना एव पल्लवास्तैरुपलिह्यमाना आस्वाद्यमाना मुनिबालका यस्मिन्स तम् । अग्नीति । अग्निकार्ये होमेऽर्धदग्धान्यर्धभस्मीभूतान्यत एव मिसमिसायमानानि मिसमिसेतिशब्दमाचरमाणानि समित्कुशकुसुमानि यस्मिन्स तम् । उपेति । उपले भग्नानि द्वैधीकृतानि नालिकेराणि लागलीफलानि तेषां यो रसो द्रवस्तेन स्निग्धं चिक्कणं शिलातलं यस्मिन्स तम् । अचिरेति । अचिरक्षुण्णानि तत्कालमर्दितानि यानि वल्कलानि तेषा रसस्तेन पाटलं तरक्तं भूतलं यस्मिन्स तम् । रक्तेति । रक्तचन्दनं पत्राङ्गं तेनोपलिप्तमालिप्तमालिखितं यदादित्यमण्डलमेव मण्डलक तस्मिन्निहितानि स्थापितानि करवीरो हयमारस्तस्य कुसुमानि पुष्पाणि यस्मिन्स तम् । इतस्तत इति । इतस्ततो विक्षिप्तं यद्भस्म भूतिस्तस्य लेखा तया कृतो विहितो मुनिजनभोजनभूमेः परिहारो निषेधो यस्मिन् । भस्मलेखाङ्कित्तायां भूमौ केनापि नागन्तव्यमिति भावः । यद्वा भस्मनो या लेखा घर्षस्तेन कृतो मुनिजनभोजनभूमेरुच्छिष्टभूमेः परिहारो मार्जनं यस्मिन् । दृश्यते हि भोजनान्ते भस्मना मार्जन पश्चाद्गोमयेनोपलेपनमिति । परिचितेति । परिचिताः संजातपरिचया ये शाखामृगास्ताम्रमुखाः श्याममुखा वा वानरास्तेषा कराकृष्ट्या हस्तावलम्बेन निष्कास्यमानाः प्रवेश्यमानाश्च जरन्तोऽन्धाश्च तापसा यस्मिन् । इभेति । मृणालशकलैर्बिसखण्डैः कल्माषित चित्रितम् । कीदृशैरिव । सरस्वती देवी तस्या भुजलते बाहुलते ताभ्यां विगलितैः सस्तैः शङ्खवलयैरिव त्रिरेखकटकैरिव । बिसाना स्वतो भूमिपातो न स्यादित्याह - इभेति । इभकलभानां यदर्थोपभुक्तमर्धचर्वितं तस्मात्पतितैः सस्तैः । ऋषीति । ऋषिजनार्थं मुनिजनकृत एणकैर्हरिणैर्विषाणशिखरैः श्रृङ्गप्रान्तैरुत्खन्यमानानि विविधानि विचित्राणि कन्दमूलानि यस्मिन् । अम्बुपूर्णेति । अम्बुभिर्जलैः पूर्णानि भृतानि पुष्करपुटानि शुण्डाग्राणि । 'शुण्डाग्रं त्वस्य पुष्करम्' इति कोशः । येषामेतादृशैर्वनकरिभिररण्यहस्तिभिरापूर्यमाणानि भ्रियमाणानि विटपानां वृक्षाणामालवालकान्यावापस्थानकानि यस्मिन् । एतेन शाखामृगहरिणगजानामपि बुद्धिपूर्वकयथोचितकार्यकर्तृत्व सूचितम् । ऋषीति । ऋषिकुमारकैर्मुनिशिशुभिराकृष्यमाणानि वनवराहदंष्ट्रान्तराललग्नानि शालूकान्युत्पलानां कन्दा यस्मिन् । 'उत्पलानां तु शालूकम्' इति - टिप्प० - 1 सिमसिम इति प्रचलितः पाठः, आर्द्रवस्तुदहने 'सिमसिम' इति शब्दः अपि कश्चित् कविमार्गानुयातः । 'सिमसिमाकारी चक्षुस्तृतीयम् इत्यनघराघवम् । 2 तत्कालं वृक्षेभ्यो निष्कासितानीत्यर्थः । 3 इभकलभैरोपभुक्तानि च तानि पतितानि । इभकलभैः पूर्वम् अर्धमुपभुक्तानि पश्चात्पतितानीत्युचितोर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ सिमसिमायमान; सिमिसिमायमान; मिसिमिसायमान. २ कुशसमित्. ३ नारिकेल. ४ मण्डलनिहित. ५ अलंकृत. ६ भूमिभागम्. ७ कराकृष्टयष्टि; कराकृष्ट. ८ कलभक. ९ बाहुलताविभूषणैः.
(86
( कादम्बरी ।
कादम्बरी ।
कथामुखे-)