________________
रिवोपलक्ष्यमाणम्, आसन्नवर्तिनीभिस्तपोधनसंपर्कादिवापगतकालुष्याभिस्तरङ्गपरंपरासंक्रान्तर्रविबिम्बपङ्क्तिभिस्तापसदर्शनागतसप्तर्षिमालाविगाह्यमानाभिरिव विकैचकुमुदवनमृषिजनमुपासितुमवतीर्णं ग्रहगणमिव निशासूद्वहन्तीभिर्दीर्घिकाभिः परिवृतम्, अनिलावनमितशिखराभिः प्रणम्यमानमिव वनलताभिः, अनवरतमुक्तकुसुमैरभ्यर्च्यमानमिव पादपैः, आबद्धपल्लवाञ्जलिभिरुपास्यमानमिव विटपैः, उटजाजिरप्रकीर्णशुष्यच्छ्यामाकम्, उपसंगृहीतामलकलवलीकर्कन्धूकदलीलकुचचूतपनसतालीफलम्, अध्ययनमुखरबटुजनम्, अनवरतश्रवणगृहीतवषट्कारवाचालशुककुलम्, अनेकसारिको ष्यमाणसुब्रह्मण्यम्, अरण्यकुक्कुटोपभुज्यमा -
***********
तुरिवोपलक्ष्यमाणं व्यज्यमानम् । दीर्घिकाभिर्वापीभिः परिवृतमावृतम् । अथ क्रमेण वाप्या विशेषणानि । आसन्नवर्तिनीभिः समीपसंस्थिताभिस्तपोधनस्तापसैः संपर्कः संबन्धस्तस्मादिवापगतकालुष्याभिर्दूरीभूतमालिन्याभिस्तरंगपरंपरासु कल्लोलवीथिषु संक्रान्ताः प्रतिबिम्बिता रविबिम्बस्य सूर्यबिम्बस्य पङ्क्तयो यासु ताभिः । तरङ्गपरंपरासु प्रतिबिम्बपरंपरेत्यर्थः । तज्जनितशोभान्तरं वर्णयत्राह - तापसेति । तापसदर्शनार्थमागता प्राप्ता या सप्तर्षिमाला तया विगाह्यमानाभिरिव विलोड्यमानाभिरिव । एतेन सप्तर्षीणां सूर्यप्रतिबिम्बसादृश्यं ध्वनितम् । किं कुर्वतीभिः । निशासु रात्रिषु विकचकुमुदवनं विनिद्रकैरववनमृषिजनं मुनिजनमुपासितुं सेवितुमवतीर्णमुपरिष्टादागतं ग्रहगणमिव नक्षत्रवृन्दमिवोद्वहन्तीभिर्धारयन्तीभिः । एतेन कुमुदवनग्रहणयोः स्वच्छत्वसारूप्याद्रूपकमुक्तम् । पुनः प्रकारान्तरेण तमेव विशेषतो विशिनष्टि - अनिलेति । अनिलेन वायुनावनमितं शिखरं प्रान्तं यासां ताभिरेवंभूताभिर्वनलताभिररण्यवल्लीभिः प्रणम्यमानमिव नमस्क्रियमाणमिव । अनवरतेति । अनवरतं मुक्तानि कुसुमानि यैरेवंभूतैः पादपैर्वृक्षैरभ्यर्च्यमानमिव पूज्यमानमिव । आबद्धेति । आबद्धा रचिताः पल्लवा एवाञलय एवंभूतैर्विट्पैर्वृक्षरुपास्यमानमिव सेव्यमानमिव । उटजेति । उटजाजिरेषु पर्णशालाङ्गणेषु प्रकीर्णा विक्षिप्ताः शुष्यन्तः शोष प्राप्नुवन्तः श्यामाका धान्यविशेषा यस्मिन्स तम् । उपसंगृहीतेति । उपसंगृहीतान्यात्तान्यामलक धात्री, लवली लताविशेषः, कर्कन्धूबंदरी, कदली रम्भा, लकुचो वृक्षविशेषः, चूत आम्रः पनसः प्रसिद्धः, ताली तृणराजः, एतेषां फलानि यस्मिन्स तम् । अध्ययनेति । अध्ययनेन वेदपठनेन मुखरा वाचाला बटुजना ब्रह्मचारिजना यस्मिन्स तम् । अनवरतेति । अनवरतं निरन्तरं श्रवणगृहीताः श्रुतिमात्रेण शिक्षिता ये वषट्कारशब्दास्तैर्वाचालं शुककुलं यस्मिन्स तम् । अनेकेति । अनेकाभिः सारिकाभिः पीतपादाभिरुद्धुष्यमाणमुच्चैःस्वरेण पठ्यमानं सुब्रहाण्यं वेदो यस्मिन्स तम् । अरण्येति । तत्कुक्कुटैश्चरणायुधैः उपभुज्य - - - - - - - - - - - - - - -- - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 सशरीरमेव मुनिजनम् अमरलोक निनीषुभिः आहुतिप्रीतैश्चित्रभानुभिः धूमलेखाच्छलेन आबध्यमानः स्वर्गमार्गगमनाय सोपानरूपः सेतुः यत्र तमिव उपलक्ष्यमाणम् । अग्नीनां वायुकम्पिता ऊर्ध्वगामिनी धूमपङ्क्तिर्मुनीनां सशरीरस्वर्गगमनार्थं सोपानभूता । द्वयोर्लोकयोः संयोजिकेति सेतुस्थानापनेति उत्प्रेक्षाशयः । एवं च 'सेतुमिवोपलक्ष्यमाणम्' इत्यपि पाठः समुचितः । मूलटीकयोर्विसंवादो मा भूदिति नास्माभिः शोधितः । नीरक्षीरविवेकिभिष्टीकातः परमार्थं ग्राह्यम् । 2 ऋषिजनमुपासितुम् अवतीर्णं नीचैरागतं ग्रहगणमिव स्थितं कुमुदवनमुदहन्तीभिः । कुमुदानि मन्ये जाबल्यादिमुनीना सेवायै समागतानि नक्षत्राण्येव सन्तीत्युत्प्रेक्षा । 3 विटपैः शाखाभिरित्युचितोर्थः । शाखार्थत्वाद्विटपस्य । 'पादपैः' इति तु पूर्व प्रोक्तमपि ।
पाठा०-१ तपोवन. २ रविपक्तिभिः. ३ अतिविकच. ४ शिखाभिः. ५ पल्लवपुटाञ्जलिभिः. ६ लषगकककन्धू. ७ चूततालफलम् तालचूतफलम्.
(जाबाल्याश्रमः)
पूर्वभागः ।
85