________________
लझङ्कारमुखरसहकारैरुन्मदकोकिलकुलकलापकोलाहलिभिरुत्फुल्लकेतकीरजःपुञ्जपिञ्जरैः पूगीलतादोलाधिरूटवनदेवतैस्तारकावर्षमिवाधर्मविनाशपिशुनं कुसुमनिकरमनिलचलितमनवरतमतिधवलमुत्सृजद्भिः संसक्तपादपैः काननैरुपगूढम्, अचकितप्रचलितकृष्णसारशतशबलाभिरुत्फुल्लकमलिनीलोहिनीभिमारीचमायामृगावलूनरूढवीरुद्दलाभिर्दाशरथिचापकोटिक्षतकेन्दगर्तविषमिततलाभिर्दण्डकारण्यस्थलीभिरूपशोभितप्रान्तम्, आगृहीतसमित्कुशकुसुममृद्भिरध्ययनमुखरशिष्यानुगतैः सर्वतः प्रविशद्भिर्मुनिभिरैशून्योपकण्ठम् उत्कण्ठिशिखण्डिमण्डलश्रूयमाणजलकलशपूरणध्वानम्, अनवरताज्याहुतिप्रीतैश्चित्रभानुभिः सशरीरमेव मुनिजनममरलोक निनीषुभिरुद्भूयमानधूमलेखाच्छलेनाबध्यमानस्वर्गमार्गगमनसोपानसेतु -
***********
लकुलानि पिककुलानि तेषां कलापः समूहस्तस्य कोलाहलः कलकलो येषु तैः । उत्फुल्ला विकसिता याः केतक्यो मालत्यस्तासा रजःपुजः परागसमूहस्तेन पिञ्जरैः पीतरक्तैः । पूगीलता क्रमुकलता एव दोलाः प्रेङ्खास्तास्वधिरूढा आश्रिता वनदेवता अरण्याधिष्ठात्र्यो देवता येषु तैः । पुनः किं कुर्वद्भिः । अनवरतं निरन्तरमनिलचलित वायुधूतमतिधवलमतिपाण्डुर कुसुमनिकर पुष्पसमूहमुत्सृजद्भिर्विकिरद्भिः । किमिव । तारकावर्षमिवोल्कापातमिव । तदपि किंचिदनिष्टस्य सूचकं भवति । इदमपि तथेत्याह'- अधर्मेति । अधर्मस्याशिष्टाचारस्य विनाशोऽभावस्तस्य पिशुनं सूचकम् । एतेन सर्वथाऽधर्माभावोऽत्रेति ध्वनितम् । संसक्ता अन्योन्यं मिलिताः पादपा वृक्षा येषु तैः । पुनः कीदृशम् । दण्डकारण्यं प्रसिद्धं तस्य याः स्थल्यः स्थूलभूमयस्ताभिरुपशोभितः शोभा प्रापितः प्रान्तः पश्चाद्भागो यस्य स तम् । अतः स्थल्या विशेषणानि - अचकितेत्यादि । अचकिता अत्रस्ताः प्रचलिता गच्छन्तो ये कृष्णसाराः कृष्णमृगास्तेषा शतं दशशतगुणितास्तेन शबलाभिः किर्मीराभिः । उत्फुल्ला विकसिता याः कमलिन्यो नलिन्यस्ताभिर्लोहिनीभी रक्ताभिर्मारीचनामा यो मायामृगस्तेनावलूनानि छिनानि रूढवीरुधां संजातवल्लीनां दलानि पर्णानि यासु ताभिः । दाशरथी रामचन्द्रस्तस्य चापकोट्या क्षता उत्खाता ये कन्दा मूलानि तेभ्यो ये गर्ता भुवो विवराणि तैर्विषमितमुच्चनीचतां प्राप्तं तवं यासु ताभिः । पुनः कीदृशम् । मुनिभिः करणभूतैरशून्यमुपकण्ठं समीपं यस्य स तथा तम् । यथाक्रम मुनीनां त्रीणि विशेषणानि व्याख्यापयन्नाह - आगृहीतेति । आगृहीता आत्ताः समिध एधांसि, कुशा दर्भाः, कुसुमानि पुष्पाणि, मृदो मृत्तिका यैस्ते तथा तैः । अध्ययनेन वेदपारायणेन मुखरा वाचाला ये शिष्या विनेयास्तैरनुगतैः सहितैः सर्वतोऽभितः प्रविशद्भिः प्रवेशं कुर्वद्भिः । तद्गतपदार्थप्रदर्शनपूर्वकं पुनर्विशिनष्टि - उत्कण्ठीति । उत्कण्टिना हल्लेखवता शिखण्डिमण्डलेन मयूरसमूहेन श्रूयमाण आकर्ण्यमानो जलेषु कलशपूरणध्वानः शब्दो यस्मिन्स तम् । अनवरत निरत्ययमाज्येन सर्पिषा याहुतिर्हवनं तया प्रीतैः संतुष्टैश्चित्रभानुभिर्वह्निभिः सशरीरमेव सविग्रहमेव मुनिजनमृषिवर्गममरलोकं स्वर्गलोकं निनीषुभिनेतुमिच्छुभिरुद्धूयमाना कम्पमाना या धूमलेखा दहनकेतनवीथी तस्याश्छलेनाबध्यमानो विरच्यमानः स्वर्गमार्गगमनसोपानसेतुरिव स्वर्गस्य त्रिविष्टपस्य यो मार्गः पन्थास्तत्र गमनं तदर्थं सोपानसे - - - - - -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 नक्षत्रवृष्टिमिव इत्युचितोर्थः, श्वेतानां पुष्पाणां तारकोपमितत्वात् । 2 उत्कण्ठितेन शिखण्डिमण्डलेन श्रूयमाणो जलकलशपूरणध्वानो यस्मिन्, कलशपूरणध्वनी मेघगर्जनभ्रमात् मयूराणामुत्कण्ठेत्यर्थः । ततश्च उत्कण्ठितेत्यर्थापत्तिः ।
पाठा० - १ कलालाप. २ केतकीकुमुममञ्जरीरजः; केतकमञ्जरीरजः. ३ वृष्टि. ४ पादपैरुपगूढम्. ५ सारसारङ्ग. ६ स्थलकमलिनी. ७ मारीचि. ८ प्ररूढ. ९ कन्दर. १० मृत्तिकः ११ शिष्यागतैः. १२ प्रसरद्भिः. १३ अविशून्य. १४ उत्कण्ठ. १५ मण्डलीमण्डल.
84
कादम्बरी।
कथामुखे