________________
रायां छायायां निधाय स्वोचितमकरोत्स्नानविधिम् । अभिषेकावसाने चानेकप्राणायामपूतो जैपन्पवित्राण्यघमर्षणानि प्रत्याभग्नैरुन्मुखो रक्तारविन्दैनलिनीपत्रपुटेन भगवते सवित्रे दत्त्वार्घमुदतिष्ठत् । आगृहीतधौतधवलवल्कलश्च सहज्योस्न इव संध्यातपः करतलनिधूननविशदसटः प्रत्यग्रस्नानाजटेन सकलेन तेन मुनिकुमारकदम्बकेनानुगम्यमानो मां गृहीत्वा तपोवनाभिमुखं शनैरगच्छत् ।
अनतिदूरमिव गत्वा दिशि दिशि सदा संनिहितकुसुमफेलैस्तालतिलकैतमालहिन्तालबकुलबहुलैरेलालताकुलितनालिकेरीकलापैर्लोललोध्रलवलीलवङ्गपल्लवैसलसितचूतरेणुपटलैरलिकु -
***********
प्ररूढस्य जातस्य नवनलिनीदलस्य प्रत्यग्रपद्मिनीपत्रस्य जलेन पानेन शिशिरायां शीतलायां छायायाम् । वैशम्पायन इत्यभिधा नाम यस्यैवंविधं शुक निधाय स्थापनां कृत्वैतदभिधानोऽयमिति स्वोचितं स्वस्योचितं योग्यं स्नानविधिमकरोदसृजत् । अभिषेकस्य स्नानस्यावसाने प्रान्ते । चः पुनरर्थे । उदतिष्ठदुत्थितो बभूवेत्यन्वयः । हारितं विशिनष्टि - अनेकैरिति । अनेकैर्बहुभिः प्राणायामैः प्राणयमैः पूतः पवित्रः । किं कुर्वन् । जपन्स्मरन् । कानि । अघमर्षणान्यब्देवतास्तुतिरूपाणि । 'सर्वेनसामपध्वंसि जप्यं त्रिष्वघमर्षणम्' इति कोशः । कीदृशानि । पवित्राणि स्वत एव विशदानि । कीदृक् । उन्मुख ऊर्ध्वमुखः । नलिनीति । नलिन्याः कमलिन्याः पत्रपुटेनाधारभूतेन प्रत्यग्रभग्नस्तत्कालगृहीतै रक्तारविन्दै रक्तकमलैराधेयभूतैर्भगवते माहात्म्यवते सवित्रे श्रीसूर्यायाधु पूजां दत्त्वा वितीर्य । अन्वयस्तु प्रागेवोक्तः । कीदृक् । आगृहीतेति । स्नानानन्तरमागृहीतं स्वीकृतं धौतं क्षालितमत एव धवलं शुभ्रं वल्कलं चोचं येन स तथा । सहज्योत्स्न इति । सह ज्योत्स्नया कौमुया वर्तते यः स एवंभूतः संध्यातपः सायंकालीनसूर्यातप इव । करतलेति । करलतेन हस्ततलेन यनिधूननमाच्छोटनं तेन विशदा निर्मला जटा सटा यस्य सः । प्रत्यग्रं तत्कालं स्नानेनार्दोर्दीभूता जटा सटा यस्य स तथा तेन । सकलेन समग्रेण मुनिकुमारकदम्बकेन तापसशिशुसमूहेनानुगम्यमानः । मामिति । मां वैशम्पायनं गृहीत्वादाय तपोवनाभिमुखं स्वाश्रमसमुखं शनैर्नातिवेगेनागच्छदन्चतिष्ठत् ।
अनतिदूरमिव गत्वा । दविष्ठं पन्थानमतिक्रम्येत्यर्थः । अहमाश्रमं मुनिस्थानमपश्यमिति दूरेणान्चयः । कीदृशम् । काननैर्वनैरुपगूढ व्याप्तम् । अथ वनविशेषणानि व्याख्यापयन्नाह - दिशीत्यादि । दिशि दिशि प्रतिदिशं सदा सर्वकालं संनिहितानि हस्तग्राह्याणि कुसुमफलानि येषां तैः । तालस्तृणराजः, तिलकः श्रीमान्, तमालस्तापिच्छः, हिन्तालो वृक्षविशेषः, बकुलः केसरः, एतैर्बहुलैदृढैः । 'नीरन्ध्र बहुलं दृढम्' इति कोशः । एलायाश्चन्द्रवालाया या लता वल्लयस्ताभिराकुलितो व्याप्तो नालिकेरीकलापो लाङ्गलीसमूहो येषु तैः । लोलाश्चपला लोध्रो गालवः, लवली लताविशेषः, लवङ्गः श्रीसंज्ञः, एतेषां पल्लवा येषु तैः । उल्लसितानि बहिर्निर्गतानि चूतरेणुपटलान्याम्रपरागपुजानि येषु तैः । अलिकुलानां भ्रमरसमूहानां झङ्कारेण झङ्कृतिशब्देन मुखरा वाचालाः सहकारा येषु तैः । आमेष्वतिसौरभो यः स सहकार इति पूर्वस्माद् भेदः । अतो न पौनरुक्त्यम् । 'आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । उन्मादानि मदोन्मतानि यानि कोकि - - - - - - - - - - - - - -
.- - - - - - - - - - - -- टिप्प० - 1 आस्फालनम् 'फटकारना' हिन्दी । 2 अव्रजत् इत्याशयः । अनुपूर्वकस्य तिष्ठतेरत्र ग्रहणं टीकाकर्तुः मतेरतिशयत्वं द्योतयति ।
पाठा० - १ समुपचितम्; यथासमुपचितम्. २ अभिमताभिषेक. ३ पूजितः पूतोऽपि. ४ जपन्नघमर्षणानि. ५ अर्घ्यम्. ६ आगृहीतधवला; आगृहीतधवलधौत. ७ सज्योत्स्नः. ८ निधूतविशद. ९ कमण्डलुमापूर्य कमलकिजल्कसुरभिणा शुचिना सरोवारिणा प्रत्यग्र. १० कुमारक. ११ शनैःशनैः. १२ पटलैः. १३ तालीतमाल. १४ नारिकेल. १५ आलोल. १६ पुष्पैः. १७ उल्लसत्.
जाबाल्याश्रमः
। पूर्वभागः ।
83