________________
केरुणः
प्रायेणाकारणमित्राण्यतिकरुणार्द्राणि सदा खलु भवन्ति सतां चेतांसि । यतः स मां तदवस्थमालोक्य समुपजातसैमीपवर्तिनमृषिकुमारकमन्यतममब्रवीत् - ' अयं कथमपि शुकशिशुरसंजातपक्षपुट एव तरुशिखरादस्मात्परच्युतः । श्येनमुखपरिभ्रष्टेन वानेन भवितव्यम् । तथा हि-अतिदवीयस्तया प्रपातस्याल्पशेषजीवितोऽयमामीलितलोचनो मुहुर्मुहुर्मुखेन पंतति, मुहुर्मुहुरत्यन्वणं श्वसिति, मुहुर्मुहुश्चञ्चुपुटं विवृणोति, न शक्नोति शिरोधरां धारयितुम् । तदेहि । यावदेवायमसुभिर्न विमुर्च्यते, तावदेव गृहाणेर्मम् । अवतारय सलिलसमीपम्' इत्यभिधाय तेन मां सरस्तीरमनाययत् । उपसृत्य च जलसमीपमेकदेशनिहितदण्डकमण्डलुरादाय स्वयं मामामुक्तप्रेयत्नमुत्तानितैमुखमङ्गुल्या कतिचित्सलिलबिन्दूनपाययत् । अम्भःक्षोदकृतसेकं चोपैंजातनवीनप्राणमुपतटप्ररूढस्य नैवनलिनीदलस्य जलशिशि -
****:
पक्षे परित्यक्तं वामं वक्रं लोचनमालोकनं येनेत्यर्थः । यद्वा ब्रह्मचारित्वात्परित्यक्तं वामायां मनस्विन्यां लोचनं येनेत्यर्थः ।
प्रायेणेति । प्रायेण बाहुल्येनाकारणमित्राणि निदानव्यतिरेकेण प्रियकारीण्यतिशयेन करुणा परदुःखप्रहाणेच्छा तयार्द्राणि स्विन्नानि खलु निश्चयेन सदा सर्वकालं सतां सज्जनानां चेतांसि मनांसि भवन्ति । यतः स मुनिसुतो हारीताख्यो मां तदवस्थं कष्टदशापत्रमालोक्य निरीक्ष्य समुपजाता सम्यक्प्रकारेणोत्पन्ना करुणा कृपा यस्यैवंभूतः समीपवर्तिनं निकटस्थायिनमृषिकुमारकमन्यतमं मुनिसुतमब्रवीदवोचत् । अयं प्रत्यक्षगतः कथमपि महता कष्टेन शुकशिशुः कीरपोतोऽसंजातपक्षपुट एवासमुत्पन्नच्छद एवास्मात्तरुशिखराद्वृक्षप्रान्तात्परिच्युतःसस्तः । वाथवानेन कीरेण श्येनः सिञ्चानकस्तस्य मुखादाननात्परिभ्रष्टेन पतितेन भवितव्यम् । तदेव दर्शयति - तथा हीति । अतिदवीयो द्राघ्रीयस्तस्य भावस्तत्ता तया प्रेपातस्य प्रपतनस्याल्पं शेषमुद्धरितं यस्मिन्नेवंविधं जीवितं यस्यैवंभूतोऽयमामीलिते संकुचिते लोचने नेत्रे यस्य स तथा मुहुर्मुहुर्वारंवारं मुखेन पतति । अयं पक्षिणां जातिस्वभावः । मुहुर्मुहुरत्युल्बणमुत्कटं श्वसिति प्राणिति । मुहुर्मुहुश्चञ्चुपुटं त्रोटीपुटं विवृणोति विकासयति । न शक्नोति न समर्थो भवति शिरोधरां ग्रीवां धारयितुं स्थापयितुम् । तदिति । तत् पूर्वोक्ततोरेह्यागच्छ । यावदेवायं यावत्कालमयं शिशुरसुभिः प्राणैर्न विमुच्यते न विश्लेषं प्राप्नोति तावदेव तावत्कालं गृहाणेमं शुकम् । अवतारय प्रापय सलिलसमीपं पानीयसविधमिति पूर्वोक्तप्रकारेणाभिधायोक्त्वा तेनर्षिपुत्रेण मां सरस्तीरं कासारतटमनाययत्प्रापयत् । उपसृत्य प्राप्य च जलसमीपम् । एकेति । एकदेशेऽन्यतरस्मिन्प्रदेशे निहितौ स्थापितौ दण्डकमण्डलू येन स तथा तत आदाय गृहीत्वा माम् । कीदृशम् | आमुक्तः परित्यक्तः प्रयत्नोऽन्नपानाद्यनुकूलशारीरक्रियारूपो येन स तम् । उत्तानितमूर्ध्वकृतं मुखमास्यं येन स तम् । स्वयमात्मनाङ्गुल्या करशाखया कतिचित्कियतः सलिलबिन्दून्पानीयपृषतोऽपाययज्जलपानमकारयत् । अम्भसः पानीयस्य क्षोदेन हस्तच्युतेन कृतो विहितः सेकः सिञ्चनं यस्य स तम् । शुकपोतं विशेषयन्नाह - उपेति । उपजाता नवीना नवाः प्राणा असवो यस्यैवंविधं मामुपतट तटसमीपं
-
82
***
टिप्प० - 1 प्रपातस्य अतिदवीयस्तया प्रपतनस्थानस्य अतिदूरवर्तितयेत्याशयः । 2 श्वासान्मुञ्चतीत्यर्थः । 3 चूर्णवदतिसूक्ष्मबिन्दुच्छुरणेन, 'चूर्णे क्षोदः ' इत्यमरः ।
पाठा० - १ च सदा भवन्ति सतां चेतांसि; सतां खलु भवन्ति सदा चेतांसि २ दयः ३ समीपतर. ४ प्रायो भवितव्यम्. ५ अस्याल्पशेषं जीवितम् ६ वमति ७ निश्वसिति. ८ वियुज्यते ९ एनम् १० उपसृत्य जल. ११ मुक्तं १२ उन्नमितम्. १३ मन्मुखम् १४ समुपजातप्राणम्; समुपजातप्रज्ञम् १५ नलिनीपलाशस्य.
कादम्बरी ।
कथामुखे