________________
पिङ्गलतारकः, प्रभातकाल इव बालातपकपिलः, रविरथ इव दृढनियमिताक्षचक्रः, सुराजेव निगूढमन्त्रसाधनक्षैपितविग्रहः, जैलनिधिरिव करालशङ्खमण्डलावर्तर्गर्तः, भगीरथ ईंवासकृद्दृष्टगङ्गावतारः, भ्रमर इवासकृदनुभूतपुष्करवनचरोऽपि कृतमहालयप्रवेशः, असंयतोऽपि मोक्षार्थी, सामप्रयोगपरोऽपि सततावलम्बितदण्डः, सुप्तोऽपि प्रबुद्धः, संनिहितनेत्रद्वयोऽपि परित्यक्तवामलोचनस्तदेव कमलसरः सिस्नासुरुपागमत् ।
वनवासः,
***********
रविरथ इति । रवेः सूर्यस्य यो रथः स्यन्दनस्तद्वदिव । उभयोः साम्यमाह - अक्षेति । दृढं यथा स्यात्तथा नियमितं निबद्धमक्षाणामिन्द्रियाणां चक्रं समूहो येन सः । पक्षे दृढे नियमिते अक्षचक्रे यस्मिन्निति विग्रहः । तत्राक्षो मध्यप्रदेशः । चक्रं प्रसिद्धम् । सुराजेवेति । सुष्ठु शोभनो यो राजा नृपतिस्तद्वदिव । तयोः साम्यमाह - निगूढेति । निगूढं रहो यन्मन्त्रसाधनं देवताराधनं तेन क्षपितः कृशता नीतो विग्रहः शरीरं येन सः । पक्षे निगूढोऽतिगुप्तो मन्त्रो रहस्यालोचनं साधनं गजाश्वादि ताभ्यां क्षपितः क्षयं नीतो विग्रहः शत्रुजनितक्लेशो येनेति विग्रहः । जलनिधिरिति । जलनिधिः समुद्रस्तद्वदिव । उभयोः सादृश्यमाह - करालेति । करालं यच्छङ्कमण्डलं भालश्रवोन्तरं तत्रावर्तेन गर्तो यस्य स तथा । तादृशावर्तश्च महातपस्विलक्षणम् । पक्षे करालानि जिह्यानि यानि शङ्खमण्डलानि षोडशावर्तवृन्दान्यावर्तः पयसां भ्रमश्च एते गर्ते अगाधप्रदेशे यस्येति विग्रहः । भगीति । भगीरथः सगरप्रपौत्रस्तद्वदिव । उभयोः सादृश्यमाह - असकृदिति । असकृन्निरन्तरं दृष्टोऽवलोकितो गङ्गाया अवतारो घट्टो येन सः । 'घट्टस्तीर्थावतारे' इति कोशः । पक्षे असकृत् दृष्टो गङ्गाया अवतारः प्रभवो येनेति विग्रहः । भ्रमर इति । भ्रमरो मधुकृत्तद्वदिव । उभयोः साम्यमाह असकृदिति । असकृद्वारंवारमनुभूतोऽनुभवविषयीकृतः पुष्करं जलं तेन सहितं यद्वनं तत्र वासो वसतिर्येन सः । पक्षेऽनुभूतः पुष्करवनं कमलखण्डस्तत्र वासो येनेति विग्रहः । वनेति । वने चरतीति वनचरः । एवंभूतोऽपि कृतो महालयेषूच्चैस्तरगृहेषु प्रवेशो येनेति विरोधः । परिहारपक्षे महालयो ब्रह्मणि लयः । तदुक्तम्- 'अधोमुख्या कुण्डलिन्योर्ध्वं मुखे कृते सति ब्रह्मरन्ध्रपर्यन्तं नीतायां तस्यामेकान्तेनावस्थानं ब्रह्मणि लयः' इति । यद्वा महालयो मोक्षस्तत्र कृतवसतिरित्यर्थः । असंयतेति । असंयतोऽसंयमवानपि मोक्षार्थी मोक्षाभिलाषुक इति विरोधः । तत्परिहारपक्षेऽसंयतोऽबद्धोऽपीत्यर्थः । ' संदानितः संयतश्च' इत्यभिधानचिन्तामणिः । सामेति । साम सान्त्वनं तठप्रयोगपरोऽपि मैत्रीप्रयोगतत्परोऽपि सततं निरन्तरमवलम्बित आश्रितो दण्डो राजदेयद्रव्यं येनेति विरोधः । तत्परिहारपक्षे सामवेदप्रयोगपरोऽपि सततमवलम्बितो दण्डो यष्टिर्येनेति विग्रहः । सुप्त इति । सुप्तो निद्रितोऽपि प्रबुद्धो जाग्रदवस्थ इति विरोधः । परिहारपक्षे सुष्ठु शोभनाप्ताः जटा यस्येति विग्रहः । लक्ष्यं च-'राजा राजार्चिताङ्ग्रेरनुपचितकलो यस्य चूडामणित्वं नागा नागात्मजार्थं न भसितधवलं यद्वपुर्भूषयन्ति । मा रामारागिणी भून्मतिरिति यमिनां येन वोऽदाहि मारः सप्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्त्रिनेत्रः ॥' इति श्रृङ्गारतिलकटीकायाम् । तथा 'सन्नालिका सदाप्ता परिकरमुदिता' इति शोभनस्तुतौ लक्ष्यान्तरमपि । संनिहित इति । सम्यक्प्रकारेण निहितं स्थापितं नेत्रद्वयं लोचनद्वयं येनैवंभूतोऽपि परित्यक्तं दूरीकृतं वामलोचनं येनेति विरोधः । परिहार -
टिप्प० - 1 करालः उन्नतावनतो यः शङ्खः तस्य मण्डलावर्तवत् (मण्डलाकार भ्रमिरेखावत्) नाभिगर्तो यस्य सः (मुनिः ) करालशङ्खः बृहच्छङ्खः मण्डलावर्तो मण्डलाकारेण जलभ्रमश्च नाभिगर्तस्थानापन्नो यस्य सः ( जलनिधिः), ततश्च 'मण्डलावर्तनाभिगर्तः' इति पाठः समञ्जसः । 2 भगीरथ इव दृष्टगङ्गावतारः । इति पाठः समुचितः, भगीरथपक्षे असकृत्पदस्य स्वारस्याभावात् । 3 सुप्तो बाह्यविषयेषु निद्रितवत् असंपृक्तोपि प्रबुद्धः परमात्मविषयकज्ञाने जागरूकः 'या निशा सर्वभूतानां तस्यां जागर्ति संयमी' । इति स्पष्टोर्थः । 4 परित्यक्ता वामलोचना कामिनी येन सः इति स्पष्टोऽर्थः ।
पाटा० - १ पिशङ्ग २ नियमित दृढसंयमित ३ क्षयित. ४ जलधि ५ नाभिगर्तः ६ इक्दृष्ट. ७ मधुकर.
हारीतः
·
पूर्वभागः ।
81