________________
दितसोमः, पद्मनिकर इव दिवसकरमरीचिपः, नदीतटतरुरिव सततजलक्षालनविमलजटः, करिकलभ इव विकचकुमुददलशकलसितदशनः, द्रौणिरिव कृपानुगतः, नक्षत्रराशिरिव चित्रमृगकृत्तिकाश्लेषोपशोभितः, धर्मकालदिवस इव क्षेपितबहुदोषः, जलधरसमय इव प्रशमितरजःप्रसरः, वरुण इव कृतोदवासः, हरिरिवापनीतनरकभयः, प्रदोषारम्भ इव संध्या -
*********** लेति । कोमलं सुकुमारं यद्वल्कलं चोचं तेनावृतमाच्छादितं शरीरं यस्य स तथा । अस्यापि मुनित्वेन वल्कलधारित्वात्साम्यम् । गिरिरिवेति । गिरिः पर्वतस्तद्वदिव । उभयोः साम्यमाह - समेखल इति । सह मेखलया मौज्या वर्तते यः स तथा । पक्षे मेखलाद्रेमध्यभागस्तया सह वर्तमान इत्यर्थः । राहुरिवेति । राहुः सैंहिकेयस्तद्वदिव । एतयोः साम्यमाह - असकृदिति । असकृनिरन्तरमास्वादितः सोमो ज्योतिष्टोमयागसाधनद्रव्यं येन स तथा । एतेनात्यन्तसोमयज्ञकारित्वं सूचितम् । पक्षेऽसकृद्धहुवारमास्वादितो ग्रस्तः सोमश्चन्द्रो येनेति विग्रहः । पद्मति । पद्मानां कमलानां निकरः समूहस्तद्वदिव । उभयोः साम्यमाह - दिवसेति । दिवसकरस्य सूर्यस्यातपभयान्मरीचीन्पाति रक्षति स तथा । पक्षे सूर्यविकासित्वात्सूर्यमरीचीन्पाति पिबति यः स तथेति विग्रहः । नदीति । नद्यास्तटिन्यास्तटं प्रतीरं तस्मिंस्तँरुवृक्षस्तद्वदिव । उभयोः सादृश्यमाह - सततमिति । सततं निरन्तरं त्रिसायं जलेन पानीयेन क्षालनं तेन विमला जटाः सटाः यस्य सः । पक्षे सततजलक्षालनेन विमला जटा अवरोहा यस्येति विग्रहः । करीति । करिणा हस्तिनां कलभस्त्रिंशदब्दको गजस्तद्वदिव । उभयोस्तुल्यतामाह - विकचेति । विकचानि स्फुटानि कुमुदानि कैरवाणि तेषां दलानि पर्णानि तेषां शकलानि खण्डास्तद्वत्सिताः शुभ्रा दशना दन्ता यस्येति स तथा । उभयसाम्यादभङ्गश्लेषः । द्रौणिरिवेति । द्रौणिरश्वत्थामा तद्वेदिव । उभयोः शब्दसाम्यमाह - कृपेति । कृपा दुःखहानेच्छा तयानुगतः सहितः । पक्षे कृपः कृपाचार्यस्तेनोपगत इति विग्रहः । नक्षत्रेति । नक्षत्राणां तारकाणां राशिः समूहस्तद्वदिव । अनयोः साम्यमाह - चित्रेति । चित्रमृगस्य कृत्तिका चर्म तेनाश्लेषः संबन्धस्तेन उपशोभितः शोभा प्राप्तः । पक्षे चित्रा त्वाष्ट्री, मृगो मृगशिरः, कृत्तिका प्रसिद्धा, आश्लेषा सापी, ताभिरुपशोभितः । धमेति । धर्मकाल उष्णकालस्तस्य दिवसो दिनं तद्वदिव । उभयोः साम्यमाह - क्षपित इति । क्षपिताः क्षयं प्रापिता बहवो दोषा रागादयो येन सः । पक्षे क्षपिता बह्वी दोषा रात्रिर्येनेति विग्रहः । जलेति । जलधरसमयः प्रावृट्कालस्तद्वदिव । उभयोस्तुल्यतामाह - प्रशमितेति । प्रशमितः शान्तिं प्रापितो रजःप्रसरः प्रवर्तकगुणव्यापारो येन सः । पक्षे प्रशमितो रजःप्रसरो धूलिविस्तारो येनेति विग्रहः । वरुण इति । वरुणः प्रचेतास्तद्वदिव । उभयोः साम्यमाह - कृतोदेति । कृतो विहित उदवासो व्रतविशेषो येन सः । पक्षे कृत उदकेषु वासो निवासो येनेति विग्रहः । उदकस्योदादेशः । हरिरिति । हरिरिव कष्ण इव । उभयोरैक्यमाह - अपनीतेति । अपनीतो दूरीकतो नरको दुर्गतिः तद्भय येन सः । पक्षे नरकनाम्नो दैत्यस्य भयं येनेति विग्रहः । प्रदोषेति । प्रदोषो यामिनीमुखं तस्यारम्भः प्रारम्भस्तद्वदिव । उभयोरैक्यमाह - संध्येति । संध्या दिवसरजन्योः संधिस्तद्वत्पिङ्गला तारैव तारका कनीनिका यस्य स तथा । इदं महापुरुषोपलक्षणम् । तदुक्तमन्यत्र - 'शूद्रोऽपि चक्रवर्ती स्यात्पीततारकचक्षुषि' इति । पक्षे संध्याकृता पिङ्गला तारका यस्मिन्निति विग्रहः । प्रभातेति । प्रभातं प्रत्यूषस्तस्य कालः समयस्तद्वदिव । उभयोः साम्यमाह - बालेति । बालो यः सूर्यस्तस्यातपः । बालश्चासावातपो वा । प्रकाशस्तद्वत्कपिलः पिङ्गलः । पक्षे बालातप उद्गमनसमयवातपस्तेन कपिलः पिङ्गलः । पीतरक्त इत्यर्थः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 सूर्यरश्मीन् पिबति ऊध्वकमुखः सन् ग्रसते इति हारीतपक्षे, 'ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः' इति तपश्चरणनियमात् । पूर्णविकासार्थं सूर्यरश्मीन् पिबति आदत्ते इति पद्मनिकरपक्षे । 2 विमला जटा लग्नकेशा यस्य सः (मुनिः), विमला मृत्तिकाहीना जटा मूलं यस्य सः (तरुः) 'मूले लग्नकचे जटा' इत्यमरः । 3 रजोगुणव्यापारः कामादिर्येन (मुनिपक्षे)। 4 संध्यया सन्ध्याकालवर्णेन पिङ्गलास्तारका नक्षत्राणि यस्मिन्नित्यर्थः ।
पाठा० - १ दिनकर. २ विरल. ३ करभ. ४ विश्लेषा. ५ क्षयितदोषः.
(80
कादम्बरी ।
। कथामुखे-)