________________
ललाटपट्टेके त्रिसत्येनेव भस्मत्रिपुण्ड्रकेणालंकृतः, गगनगमनोन्मुखबलाकानुकारिणा स्वर्गमार्गमिव दर्शयता सततमुदूग्रीवेण स्फटिकमणिकमण्डलुनाध्यासितवामकरतलः, स्कन्धदेशावलम्बिना कृष्णाजिनेन नीलैपाण्डुभासा तपस्तृष्णानिपीतेनान्तर्निष्पतता धूमपटलेनेवपरीतमूर्तिः, अभिनवबिससूत्रनिर्मितेनेव परिलघुतया पवनलोलेन निर्मासविरलपार्श्वकपंञ्जरमिव गणयता वामांसावलम्बिना यज्ञोपवीतेनोद्भासमानः, देवतार्चनार्थमागृहीतवनलताकुसुमं परिपूर्णपर्णपुटसनाथशिखरेणाषाढदण्डेन व्यापृतसव्येतरपाणिः, विषाणोत्खातामुद्वहता स्नानमृदमुपजातपरिचयेन नीवारमुष्टिसंवर्धितेन कुशकुसुमलतायास्यैमानलोलदृष्टिना तपोवनमृगेणौनुयातः, विटप इव कोमलवफैलावृतशरीरः, गिरिवि समेखलः, राहुरिवासकृदास्वा -
***********
भोगः परिभोगस्तस्मान्निवृत्तिरुपरमस्तदर्थं तन्निमित्तमुपपादितेन विहितेन । ललाटेति । ललाटपट्टकेऽलिकफलके मनोवाक्कायलक्षणेन त्रिसत्येनेव भस्मत्रिपुण्ड्रकेण विभूतित्रितिलकेनालंकृतो विभूषितः । गगनेति । गगनगमने उन्मुखा ऊर्ध्वानना या बलाका बिसकण्ठिका तदनुकारिणा तत्सदृशेन स्वर्गमार्गमिव त्रिदिवपन्थानमिव दर्शयता प्रकाशयता सततं निरन्तरमुद्ग्रीवेणोर्ध्वकन्धरेणैवंभूतेन स्फटिकमणिकमण्डलुना स्फटिककुण्डिकयाध्यासितमाश्रितं वामकरतलं यस्य सः । स्कन्धेति । कृष्णाजिनेन कृष्णचर्मणा परीता व्याप्ता मूर्तिर्यस्य स तथा । केनेंव । धूमपटलेनेव दहनकेतनसमूहेनेव । कीदृशेन । तपो मे भवत्विति तपस्तृष्णा तया निपीतेनेव । कीदृशेन । अन्तःशरीराभ्यन्तरे निपत॑ता प्रवेशं कुर्वता । कीदृशेन चर्मणा । स्कन्धदेशेऽवलम्बत इत्येवंशीलं तत्तेन नीला पाण्डवी च भा यस्य तत्तेन । अभीति । यज्ञोपवीतेन यज्ञसूत्रेणोत्प्राबल्येन भासमानो दीप्यमानः । केनेव । अभिनवं प्रत्यग्रं यद्विससूत्रं कमलनालतन्तुस्तेन निर्मितेनेव रचितेनेव परिलधुतया परि सामस्त्येन स्वल्पतयाणुतया पवनेन समीरणेन लोलेन चपलेन । किं कुर्वता । निर्मांसं पलरहितं विरलमसंकीर्णं यत्पार्श्वकपञ्जरं पार्श्वगतास्थिसमुदायमिव गणयता तत्संख्यां कुर्वता । यज्ञोपवीतं विशिनष्टि - वाम इति । वामः सव्यो योऽसः स्कन्धस्तदवलम्बिना तदवस्थानशीलेन । अथ मुनिं विशेषयन्नाह - देवतेति । देवतार्चनार्थं परमेश्वरपूजार्थमासमन्ताद्गृहीतान्यात्तानि वनलताकुसुमान्यरण्यव्रततिपुष्पाणि तैः परिपूर्णं भृतं यत्पर्णपुटं तेन सनाथं सहितं शिखरं प्रान्तं यस्यैवंभूतेनाषाढदण्डेन व्यापृतो व्यापारयुक्तः सव्येतरो दक्षिणः पाणिर्हस्तो यस्य स तथा । तपोवनेति । तपोवनसंबन्धी यो मृगो हरिणः । जात्येकवचनम् । तेनानुयातोऽनुगतः । किं कुर्वता मृगेण । विषाणं श्रृङ्गं तेनोत्खातामुत्खनितां स्नानमृदमाप्लवमृत्स्नामुद्वहता धारयता । मृगं विशेषयन्नाह - उपेति । उपजातः समुत्पन्नः परिचयः संबन्धविशेषो मुनिभिः सार्धं यस्य स तथा तेन । नीवारेति । नीवारो वनव्रीहिस्तस्य मुष्टिः प्रसिद्धा तया संवर्धन वृद्धिं प्रापितेन । कुशेति । कुशा दर्भाः, कुसुमानि पुष्पाणि, लता व्रतत्यः ताभिरायास्यमांना खेदं प्राप्यमाणा त एव लोला चपला दृष्टिर्यस्य स तेन । प्रकारान्तरेण मुनिपुत्रं विशिनष्टि - विटप इति । विटपो वृक्षस्तद्बदिव । उभयोः सादृश्यमाह - कोम
-
टिप्प० - 1 निष्पतता इत्यपि पाठ उचितः । तपस्तृष्णया धूमपटलं पूर्वं निपीतं तदनन्तरम् तत् अन्तः (अभ्यन्तरात् ) निष्पतत् बहिर्निर्गच्छदिवेत्युत्प्रेक्षा । 2 एक एवासीन्मृगो न जात्या एकवचनम् । विषाणोत्खातमृत्तिकां वहन्नेक एव मृगोऽनुगच्छति स्म, न किल सर्वं मृगयूथम् । 3 मुनिकुमार धृते कुशकुसुमादिपुटके तृष्णया वारंवारं चलनाद् दृष्टिरायासमनुभवतीत्याशयः ।
पाटा० - १ पट्टे. २ त्रिसत्यकेन. ३ अनुकारिस्वर्ग. ४ स्फाटिककमण्डलुना. ५ लीलया. ६ अपगच्छता; निष्पतता. ७ अभिनवबिस. ८ पार्श्व ९ अस्थिपञ्जर; आपञ्जर. १० कुसुमपूर्ण. ११ विषाणशिखर. १२ उपास्यमानः १३ अनुगम्यमानः १४ वल्क.
हारीतवर्णनम्
पूर्वभागः ।
79