________________
या
प्रतिवसति स्म । तत्तनयश्च हारीतनामा मुनिकुमारकः सनत्कुमार इव सर्वविद्यावदातचेताः, सवयोभिरपरैस्तपोधनकुमारकैरनुगम्यमानस्तेनैव पथा द्वितीय इव भगवान्विभावसुरतितेजस्वितया दुर्निरीक्ष्यमूर्तिः, उद्यतो दिवसकरमण्डलादिवोत्कीर्णः, तडिद्भिरिव रचितावयवः, तप्तकनकद्रवेणेव बहिरुपलिप्तमूर्तिः, पिशङ्गावदातया देहप्रभया स्फुरन्त्या सबालातपमिव दिवस सदावानलमिव वनमुपदर्शयन्, उत्तप्तलोहलोहिनीनामनेकतीर्थाभिषेकपूतानामसस्थलावलम्बिनीनां जटानां निकरेणोपेतः, स्तम्भितशिखाकलापः खाण्डववनदिधक्षया कृतकपटबंटुवेष इव भगवान्पावकः, तपोवनदेवतानपुरानुकारिणा धर्मशासनकटकेनेव स्फाटिकेनाक्षवलयेन दक्षिणश्रवणविलम्बिना विराजमानः, सकलविषयोपभोगनिवृत्त्यर्थमुपंपादितेन -
***********
क्तात्सरसोऽदूरवर्तिनि निकटस्थायिनि तपोवने तापसाधिष्ठितकानने । नामेति कोमलामन्त्रणे । जाबालिनामा महदत्युग्रं तपो यस्यैवंभूतो मुनिर्ऋषिः प्रतिवसति स्म । निवासं कृतवानित्यर्थः । तत्तनयश्चेति । तस्य तनयः सुतः । च पुनरर्थे । हारीत इति नाम यस्यैवंविधः मुनिकुमारकः तापसकुमारकः । स्वल्पवया इत्यर्थः । तदेव पूर्वोक्त पम्पाभिधानं कमलसरः सिस्नासुः स्नातुमिच्छुः । सनन्तस्नाधातो रूपम् । तत्रोपागमदित्यन्वयः । तमेव विशेषयन्नाह-सनत्कुमारेति । सनत्कुमारो वैधात्रस्तद्वदिव सर्वविद्यास्ववदातं शुद्धं चेतो मनो यस्य सः । सवयोभिरिति । सवयोभिः सदृशवयोभिरपरैस्तद्भिनैस्तपोधनकुमारकैस्तापसशावैरनुगम्यमानस्तेनैव पथा तेनैव मार्गेण । उपागमदिति पूर्वेणान्वयः । द्वितीय इवैतद्भिन्न इव भगवाज्ञानवान्विभावसुरग्निरत्युत्कृष्टं तेजो विद्यते यस्यासाविति तेजस्वी तस्य भावस्तत्ता तया दुर्निरीक्ष्या दुःखेनावलोकयितुं शक्या मूर्तिर्यस्य स तथा । उद्यत इति । उद्यत उदयं कुर्वतो दिवसकरमण्डलात्सूर्यबिम्बादिव । उत्कीर्ण उल्लिख्य कर्षित इत्यर्थः । तडिद्भिरैरावतीभिरिव रचिता निर्मिता अवयवा यस्य सः । तप्त इति । तप्त उष्णो यः कनकस्य सुवर्णस्य द्रवो रसस्तेन बहिरुपलिप्ता लिम्पिता मूर्तिः शरीरं यस्य सः । पिशङ्गेति । पिशङ्गा पीतावदाता निर्मला एवंविधया स्फुरन्त्या दीप्यमानया देहप्रभया शरीरकान्त्या सहबालातपेन वर्तमानं दिवसं दिनमिव सहदावानलेन वर्तमानं वनं काननमिवोपदर्शयन्प्रकाशयन् । उत्तप्तेति । उत्तप्तमुष्णीकृतं यल्लोह कालायसं तबलोहिनीनां रक्तानामनेकानि यानि तीर्थानि तेषामभिषेकः स्नानं तेन पूतानां पवित्राणाम् । अंसेति । अंसस्थलं भुजशिरःस्थानं तत्रावलम्बिनीनां वेल्लन्तीनां जटानां निकरण समूहेनोपेतः सहितः । स्तम्भितेति । स्तम्भितो बद्धः शिखाकलापो येन स तथा । खाण्डवेति । वह्निना जलोदरग्रस्तेन ब्राह्मणरूपेण शय्यागतेन खाण्डववनं दग्धमिति प्रसिद्धिः । दग्धुमिच्छा दिधक्षा तया कृतो विहितः कपटेन पटुः स्पष्टो वेषो येनैवंभूत इव भगवान्पावको वह्निः । तपोवनेति । स्फाटिकेन स्फटिकमणिनिर्मितेनाक्षवलयेनाक्षमालिकया विराजमानः शोभमानः । अक्षवलयं विशेषयनाह - दक्षिणेति । दक्षिणोऽपसव्यो यः श्रवणः कर्णस्तत्रावलम्बिना । तपोवनेति । तपोवनदेवता तपोवनाधिष्ठात्री तस्य नूपुरं पादकटकं तदनुकारिणा तत्सदृशेन । केनेव । धर्मो विधिनिषेधादिरूपस्तस्य शासनमाज्ञा तस्य कटकेनेव वलयेनेव । सकलविषयस्य समग्रपदार्थस्य य उप -
टिप्प० - 1 विद्युद्भिरिति स्पष्टः अर्थः । 2 श्वेतकिनाम्नो नरपतेर्दादशवार्षिके यागे सततहविर्भोजनेन संजातमन्दाग्निरग्निरपि तत्प्रतीकाराय विविधमहौषधिजुष्ट खाण्डववनं विरिञ्चेरुपदेशादुदरस्थीकर्तुमिच्छुः कृष्णार्जुनयोः साहाय्येन ब्राह्मणवेषः सन् ददाहेति महाभारतम् । 3 कृतः कपटेन बटुवेषो ब्राहाणरूपं येनेति स्पष्टव्य अर्थः ।
पाठा० - १ प्रसवति. २ तापसकुमारकः. ३ समानवयोभिः, समवयोभिः. ४ कुमारैः. ५ विरचिता. ६ आपिशङ्ग. ७ जटावलीनाम्. ८ पटुवेषः. ९ अनुलम्बिना. १० निवृत्ति. ११ उत्पादितेन.
(78
कादम्बरी ।
कथामुखे-)