________________
भिलाषः । मन्ये चागणितपितृमरणशोकस्य निघृणतैव केवलमियं मम सलिलपानबुद्धिः । अद्यापि दूर एव सैरस्तीरम् । तथा हि-जलदेवतानूपुर्ररवानुकारि दूरेऽद्यापि कलहंसविरुतम् । अस्फुटानि श्रूयन्ते सारसरसितानि । अयं च विप्रकर्षादाशामुखविसर्पणविरलः संचरति नलिनीखण्डपरिमलः । दिवसस्य चेयं केष्टा दशा वर्तते । तथा हिरविरम्बरतलमध्यवर्ती स्फुरन्तमातपमनवरतमनलधूलिनिकरमिव विकिरति करैः, अधिकामुपजनयति त॒षम् । संतप्तपांसुपटलदुर्गमा भूः । अतिप्रबलपिपासावसन्नानि गन्तुमल्पमपि मे नालमङ्गकानि । अप्रभुरस्म्यात्मनः । सीदति मे हृदयम् । अन्धकारतामुपयाति चक्षुः । अपि नाम खलो विधिरनिच्छतोऽपि मे मरणमयैवोपपादयेत् । एवं चिन्तयत्येव मयि तस्मात्सरसो नातिरवर्तिनि तपोवने जाबालिर्नाम महातपा मुनिः -
***********
नधीः केवलं निघृणतैवाननुकम्पितैव । कीदृशस्य मम । अगणितेति । अगणितो न गणनविषयीकृतः पितृमरणशोको येन स तथा तस्य । अद्यापीयतागतेनापि सरस्तीरं कासारतटं दूर एव । तदेव दर्शयति - तथाहीति । जलेति । जलदेवतानां जलाधिष्ठात्रीणां नपुराणां पादकटकानां यो रवः शब्दस्तदनुकारि तत्सादृश्यभाज्यद्यापि कलहंसविरुतं कादम्बकूजितमेतद्रे । तथा सारसरसितानि लक्ष्मणकूजितान्यस्फुटान्यव्यक्तानि श्रूयन्त आकर्ण्यन्ते । विप्रकर्षादिति । विप्रकर्षादूरादाशामुखेषु दिग्वदनेषु विसर्पणं प्रसरणं तेन विरलो न्यूनो नलिनीखण्डपरिमलः कमलवनामोदः संचरतीतस्ततः प्रसरति । कदाचिद्दारुणधर्माभावे मार्गसौलभ्याहूरेऽपि गन्तुं शक्यत इत्यत आह - दिवसेति । दिवसस्य वासरस्येयं प्रत्यक्षोपलभ्यमाना कष्टा दशा मध्यावस्था वर्तते । तदेव दर्शयति - तथा हीति । रविः सूर्योऽम्बरतलमध्यवर्ती व्योममध्यगामी । अनवरतेति । अनवरतमविच्छिन्नं स्फुरन्तं दीप्यमानमातपं प्रकाशमनलधूलिनिकरमिव वह्रिकणिकासमूहमिव करैः किरणैर्विकिरति क्षिपति । अधिकां तृषां पिपासामुपजनयति निष्पादयति । संतप्तमुष्णं यत्पांसुपटलं धूलिसमूहस्तेन दुर्गमा दुःखेन गन्तुं शक्या भूः पृथ्वी । अतीति । अतिप्रबलाऽत्यधिका या पिपासोदन्या तयावसनानि खिन्नानि मे ममाङ्गकानि शरीरावयवा अल्पमपि स्वल्पमपि गन्तुं नालं न समर्थानि । किं बहुनात्मनो देहेन्द्रियसंघातस्याप्यप्रभुरसमर्थोऽस्मि । 'अस भुवि धातुः । लडुत्तमैकवचनम् । देहेन्द्रियादिकमपि स्वाधीनं मे नास्तीति भावः । मे मम हृदयं सीदत्यवशीर्यते । चक्षुरपि नेत्रमप्यन्धकारतां तिमिरतामुपयाति प्राप्नोति । अन्धकाराकुलं भवतीत्यर्थः । नामेति कोमलामन्त्रणे । अथेत्यानन्तर्ये । खलः अशुभकरणादुर्जनो विधिर्विधातानिच्छतोऽप्यसमीहमानस्यापि मे मम मरणं मृत्युमुपपादयेत्कुर्यात् ।। इत्येवं पूर्वोक्तप्रकारेण मयि चिन्तयत्येव विचारयत्येव यदभूत्तदाह - तस्मादिति । तस्मात्पूर्वो -
- - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अन्धं करोति इति अन्धकारस्तत्ताम् (अन्धताजनकत्वम्) उपयातीत्याशयः । 2 अपि नाम मृत्युमुपपादयेत् ? इति मूलधृतपाठानुसारं खेदवशान्मनस्येव प्रश्नः ।
-
-
पाठा० - १ निघृणतयैव. २ दूरतः. ३ सरः. ४ नपुरानुकारि. ५ विरुतमेतम्. ६ एतानि चास्फुटानि. ७ विप्रकर्षात्. ८ चेयम्. ९ अतिकष्टा दशा; कष्टा च. १० तृषम्. ११ आतपस्पर्शसंतप्त. १२ च भूमिः. १३ अलमप्रभुरस्मि. १४ अथ. १५ एव. १६ अतिदूर.
(शुकस्य स्वदशावर्णनम् ।।
पूर्वभागः ।