________________
1
मनवरतमुन्मुखस्य स्थूलस्थूलं श्वेसतो धूलिधूसरस्य संसर्पतो मैम समभून्मनसि - 'अतिकष्टास्ववस्थास्वपि जीवितनिरपेक्षा न भवन्ति खलु जगति प्राणिनां प्रवृत्तयः । नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम्, एवंमुपरतेऽपि सुगृहीतनाम्नि ताते यदहमविकलेन्द्रियः पुनरेव प्राणिमि । धिङ्मामकरुणमंतिनिष्ठुरमकृतज्ञम् । अहो सोढपितृमरणशोकदारुणं येन मया जीव्यते, उपकृतमपि नापेक्ष्यते, खलं हि खलु मे हृदयम् । मैया हि लोकान्तरगतायामम्बायां नियम्य शोकवेगमाप्रसवदिवसात्परिणतवयसापि सता तैस्तैरुपायैः संवर्धनक्लेशमतिमहान्तमपि स्नेहवशादगणयता यँत्तातेन परिपालितस्तत्सर्वमेकपदे विस्मृतम् । अतिकृपणाः खल्वमी प्राणाः, यदुपकारिणमपि तौतं क्वापि गच्छन्तमद्यापि नानुगच्छन्ति, सैर्वथा न कंचित्रे खलीकरोति जीविततृष्णा, यदीदृगवस्थमपि मोमयमायार्सयति जला -
***
तदभाववशादेकमपि पदं चरणं दत्त्वा निवेश्यानवरतं बहुकालमुन्मुखस्योर्ध्वाननस्य स्थूलस्थूलं यथा स्यात्तथा श्वसतः श्वासमोक्षणं कुर्वतः । एतेनैकपदस्थापनेति श्रमबाहुल्यं व्यज्यते । धूली रेणुस्तया धूसरस्य धूम्रवर्णस्य । किं कुर्वतः । संसर्पतः प्रचलतः । चिन्तां विवृण ममेति । मम मनस्येवं समभूत् । तदेव दर्शयति खल्विति । खलु निश्चयेन जगति लोकेऽतिकष्टमतिकृच्छ्रं यास्वेवंविधास्ववस्था दशासु प्राणिनां जीवानां प्रवृतयः प्रवर्तनरूपाः क्रिया जीवितं प्राणितं तत्र निरपेक्षा गतस्पृहा न भवन्ति न स्युः । इह जगत्यस्मिल्लोके सर्वजन्तूनामेव सर्वप्राणिनामेव जीवितादन्यत्किमप्यभिमततरं वाञ्छिततरं नास्ति । तत्रार्थे हेतुमाह - यदहमिति । यद्यस्मात्कारणात्सुगृहीतं सर्वदा ग्रहणयोग्यं नाम यस्यैवंभूते ताते पितर्युपरतेऽपि मृतेऽप्यविकलानि विषयग्रहणसमर्थानीन्द्रियाणि यस्यैवंभूतोऽहं पुनरेव सांप्रतमेव प्राणिमि जीवामि अतो मां धिगस्तु अत्र धिग्योगे मामिति द्वितीया । मां विशेषयन्नाह - अकरुणेति । अकरुणम् । निर्घृणमित्यर्थः । अतिनिष्ठुरमतिक्रूरम् । कृतं जानातीति कृतज्ञं न कृतज्ञमकृतज्ञम् । अहो इति । अहो आश्चर्ये । सोढः क्षमितो य पितृमरणशोकस्तेन दारुणं भीषणं यथा स्यात्तथा मया जीव्यते तेन बहुकालमुपकृतं तदपि नापेक्ष्यते । तस्याप्यपेक्षा न क्रियत इति भावः । खल्वति । खलु निश्चयेन । मे मम हृदयं चित्तं खलु पिशुनम् । उपकारानभिज्ञत्वादिति भावः । मयेति । हि निश्चितम् । मया तत्पूर्वोक्तं सर्वमखिलमेकपद एकदैव विस्मृतमित्यन्वयः तत्किमित्यत आह- • लोकान्तरेति । लोकान्तरगतायां परलोकप्राप्तायामम्बायां जनन्या शोकवेगं शोचनप्रवाहं नियम्य निरुध्य प्रसवदिवसान्मज्जन्मदिनादारभ्य परिणतं वयो यस्यैवंभूतेनापि सता तैस्तैरुपायै क्षुधानिद्रापिपासोपशमार्थप्रतीकारैः । संवर्धनक्लेशमिति । स्नेहवशात्पुत्रप्रीतिमाहात्म्यात् अतिमहान्तमप्यत्यायतमपि मत्संवर्धनक्लेशमगणयता क्लेशेषु तद्गणनामकुर्वता । यदिति हेत्वर्थे । तातेन पित्रा परि सामस्त्येन पालितो वृद्धिं प्रापितः । खलु निश्चयेन । अमी मे प्राणा अतिकृपणा अतिशयेन जीवितलोलुपा अतितुच्छाः यदिति हेतौ । उपकारिणमप्युपकृतिविधायकमपि तातं पितरं काप्यनिर्दिष्टस्थले गच्छन्तं व्रजन्तमद्यापि सांप्रतमपि नानुगच्छन्ति नानुव्रजन्ति । सर्वथा जीविततृष्णा न कंचिन्न खलीकरोति । द्वौ नञौ प्रकृतमसूचयत इति सर्वमेव खलीकरोतीत्यर्थः । यदीदृगवस्थमपि शोकाकुलमपि मामयं जलाभिलाषः पानीयग्राहणाध्यवसाय आयासयति खेदं जनयति । च पुनरर्थे । अहं मन्ये जाने । इयं मम सलिलपानबुद्धिर्जलपा -
पाठा० - १ मुहुर्मुहुः स्थूलस्थूलम् २ निश्वसतः ३ ममाभूत्. ४ अप्यवस्थासु ५ स्वजीवित. ६ सर्वप्राप्तिनाम् ७ वृत्तयः. ८ जन्तूनामेव. ९ उपरते सुगृहीत. १० अतिनिष्ठुरं विसोढ. ११ मरणम्. १२ नापेक्ष. १३ अहम्. १४ लोकान्तरमुपगतायामष्ट. १५ शोकावेग. १६ सता तातेन तैस्तैः १७ महान्त. १८ यत्परिपालित. १९ विस्मृतमिति. २० मे प्राणाः; मम प्राणाः. २१ तातमद्यापि गच्छन्तम्; तातमद्यापि क्वापि गच्छन्तम्; तातम क्वापि यान्तम् २२ सर्वथा कंचित्र. २३ कंचन. २४ यदीदृशावस्थम्. २५ मामावासयति. २६ अभिलाषयति.
76
कादम्बरी ।
कथामुखे