________________
अवतीर्य च स तेन समयेन क्षितितलविप्रकीर्णान्संहृत्य शैकशिशूनेकलतापाशसंयतानाबध्य पर्णपुटेऽतित्वरितगमनः सेनापतिगतेनैव वर्त्मना तामेव दिशमर्गच्छत् । मां तु लब्धजीविताशं प्रत्यग्रपितृमरणशोकशुष्कहृदयमतिदूरपातदायासितशरीरं संत्रासजाता सर्वाङ्गोपतापिनी बलवती पिपासा परवशमकरोत् । अनया च कालकलया सुंदूरमतिक्रान्तः स पापकृदिति परिकलय्य किंचिदुन्नमितकन्धरो भयचकितया दृशा दिशोऽर्वलोक्य तृणेऽपि चलति पुनः प्रतिनिवृत्त इति तमेव पदे पदे पापकारिणमुत्प्रेक्षमाणो निष्क्रम्य तस्मात्तमालतरुंमूलात्सलिलसमीपं सैर्तुं प्रयत्नमकरवम् । अजातपक्षतया नातिस्थैिरतरचरणसंचारस्य मुहुर्मुहुर्मुखेर्ने पततो मुहुस्तिर्यनिपतन्तमात्मानमेकया पक्षपाल्या संधारयतः क्षितितलसंसर्पणभ्रैमातुरस्यानभ्यासवशादेकमपि दत्त्वा पद -
***********
I
अवेति । अवतीर्योत्तीर्य स शबरस्तेन समयेनेति तत्कालेन क्षितितले पृथ्वीतले विप्रकीर्णानितस्ततः पर्यस्ताञ्शुकशिशून्कीरपाकान्संहृत्यैकीकृत्य । कीदृशान् । एकाद्वितीया या लता वल्ली तल्लक्षणो यः पाशो बन्धनरज्जुस्तेन संयतान्बद्धानेवंभूतान्पर्णपुट आबध्य बन्धनं कृत्वातित्वरितमतिशीघ्रं गमनं यस्य स तथा । सेनेति । येन सेनापतिर्गतस्तेनैव वर्त्मना मार्गेण तामेव दिशं सेनापतिगृहीतामेव ककुभमगच्छदगमत् । मां त्विति । तु पुनरर्थे । मां पिपासा तृट् परवशं परायत्तमकरोदित्यन्वयः । इतो मां विशेषयन्नाह - लब्धे । तद्गमनादेव लब्धा प्राप्ता जीविताशा प्राणधारणसंभावना येन स तम् । प्रत्यग्रेति । प्रत्यग्रो नवीनो यः पितृमरणशोको जनकमृत्युविषादस्तेन शुष्कमनार्द्रं संकुचितं वा हृदयं चित्तं यस्य स तम् । अतीति । अतिदूरापाताद्दविष्ठतरप्रदेशपतनात् । तद्वृक्षादिति शेषः । आयासितं परिश्रमितं शरीरं यस्य स तम् । तृषं विशेषयन्नाह - संत्रासेति । संत्रासेन भयेन जाता समुत्पन्ना । सर्वेति । सर्वाणि समग्राण्यङ्गानि हस्तप्रभृतीन्युपतापयति पीडयतीत्येवंशीला बलवती बलोपयुक्ता । अनयेति । अनया कालकलया घटिकया स पापकृद्भिल्लःसुदूरं दूरदेशमतिक्रान्तो गत इति परिकलय्य चेतसि परिकलनां कृत्वा । किंचिदिति । किंचिदीषदुन्नमितोर्श्वीकृता कन्धरा ग्रीवा येन स तथा । भयेति । भयेन भीत्या चकिता त्रस्ता यादृक्तया दिशोऽवलोक्य निरीक्ष्य तृणेऽपि यवसेऽपि चलति कम्पैति सति पुनः प्रतिनिवृत्तः प्रत्यागत इति तमेव शबरमेव पदे पदे पापकारिणं कल्मषकारिणमुत्प्रेक्षमाण उत्पश्यमानो निष्क्रम्य बहिर्निर्गत्य । कस्मात् । तस्मात्तमालतरुतलमूलात्तापिच्छवृक्षाधः स्थलात्सलिलसमीपं जलोपान्तं सर्तुं गन्तुं प्रयत्नं प्रयासमकरवमकार्षम् ।
अथ च मम मनस्येवमभूदित्यन्वयः । तं विशेषयन्नाह - अजातेति । अजातावनुत्पन्नौ यौ पक्षौ छदौ तयोर्भावस्तत्ता तया न विद्यतेऽतिस्थिरतरश्चरणयोः क्रमयोः संचारः स्थापनयोग्यता यस्य स तथा । तस्य किं कुर्वतः । मुहुर्मुहुर्वारंवारं मुखेनाननेन पततः पतनं कुर्वतः । मुहुर्वारंवारं तिर्यक्तिरश्चीनं निपतन्तं भ्रश्यन्तमात्मानमेकया केवलया पक्षपाल्या छदसंहत्या संधारयतः पतनाद्रक्षां विदधतः । क्षितीति । क्षितितले संसर्पणं गमनं तस्माद्यो भ्रमो भ्रान्तिस्तेनातुरस्य पीडितस्य । अभ्यासेति । अभ्यासः पुनः पुनः करणं
टिप्पo - 1 कम्पमाने इत्यर्थः । 2 आशङ्कावशात्पश्यन्नित्यर्थः । 3 संसर्पणश्रमातुरस्येत्यपि पाठ उचितः ।
-
पाटा० - १ अवतीर्य सः. २ विकीर्णान्. ३ ताञ्शुक. ४ आविध्य. ५ अन्वगच्छत्. ६ पातायासित ७ जातवेपथुम्; जातसर्वाङ्ग. ८ आक्रान्तः ९ विलोक्य १० तरुतलमूलात्. ११ उपसर्तुम्. १२ अजातपक्षतया च; अनुपजातपक्षतया १३ स्थिरचरण. १४ अधोमुखेनापततः १५ श्रमा.
शुकस्य स्वदशावर्णनम्
पूर्वभागः ।
75