SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ येन मे नौशीर्यन्त । यावच्चासौ तस्मात्तरुशिखरान्नावतरति तावदहमवशीर्णपत्रसवर्णत्वादस्फुटोपलक्ष्यमाणमूर्तिः पितरमुपरतमुत्सृज्य नृशंस इव प्राणपरित्यागयोग्येऽपि काले बालतया कालान्तरभुवः स्नेहरसस्यानभिज्ञो जन्मसहभुवा भयेनैव केवलमभिभूयमानः किंचिदुपजाताभ्यां पक्षाभ्यामीषत्कृतावष्टम्भो लुटनितस्ततः कृतान्तमुखकुहरादिव विनिर्गतमात्मानं मन्यमानो नातिदूरवर्तिनः शबरसुन्दरीकर्णपूररचनोपयुक्तपल्लवस्य संकर्षणपटनीलच्छाययोपहसत इव गदाधरदेहच्छविम्, अच्छैः कालिन्दीजलच्छेदैरिव विरचितच्छदस्य, वनकरिमंदोपसिक्तकिसलयस्य, विन्ध्याटवीकेशपाशश्रियमुदहतः, दिवाप्यन्धकारितशाखान्तरस्य, अप्रविष्टसूर्यकिरणमतिगहनमपरस्येव पितुरुत्सङ्गमतिमहतस्तमालविटपिनो मूलदेशमविशम् । *********** स्वमपश्यमद्राक्षम् । येनेति । येन पुण्येन, शुष्कपत्रराश्युपरिपातेन वा मे ममाङ्गानि नाशीर्यन्त न विगलितानि । यावच्चासौ शबरो यावता कालेन तस्मात् तरुशिखरावृक्षाग्रानावतरति नोत्तरति तावदहमवशीर्णानि विगलितानि यानि पत्राणि तैः सवर्णः सदृशस्तस्य भावस्तत्त्वं तस्मादस्फुटमप्रकटमुपलक्ष्यमाणा दृश्यमाना मूर्तिराकृतिर्यस्यैवंभूतोऽहमतिमहतोऽत्युच्चस्य तमालविटपिनस्तापिच्छस्य मूलदेश ब्रुध्नप्रदेशमविशं प्रविष्टवानित्यन्वयः । उपेति । उपरतं व्यापन्नं पितरमुत्सृज्य त्यक्त्वा । क र्वि । नृशंस र्वि क्रूर वि प्राणपरित्यागे योग्य उचितस्तस्मिन्वृद्धपितुर्मरणे मरणमेवोचितमिति योग्यता तस्मिन्नपि काले समये सति बालतयार्भकत्वेन कालान्तरेऽप्रबुद्धवयोऽवस्थाविशेषे शयनासनभोजनादिषु यः स्नेहस्तद्विषयको रसस्तस्यानभिज्ञस्तदज्ञाता । किं क्रियमाणः । जन्मेति । जन्मसहभुवा उत्पत्तिसमयादारभ्य समुत्पन्नेन भयेनैव भियैव केवलं सर्वतोभिभूयमानः पीड्यमानः । पुनः कीदृक् । किंचिदिति । किंचिदीषदुपजाताभ्यां निष्पन्नाभ्यां पक्षाभ्यां छदाभ्यामीषत्कृतोऽवष्टम्भ आधार आश्रयो यस्य स तथा । किं कुर्वन् । लुठनितस्ततो भूमौ पतन् । कृतान्तेति । कृतान्तो यमस्तस्य मुखमिव मुखं यस्यैवंभूतात्कुहरात्सुषिराद्विनिर्गतं निःसृतमात्मानं स्वं मन्यमानो ज्ञायमानः । अथ तमाल विशेषयन्नाह - नातीति । न प्रतिषेधे । अतिदूरवर्ती दविष्ठप्रदेशस्थायी तस्य । शबरेति । शबराणां भिल्लानां सुन्दर्यः स्त्रियस्तासां कर्णपूराणि कर्णाभरणानि तेषां रचना विनिर्मितिस्तत्रोपयुक्ताः सोपयोगिनः पल्लवा यस्य स तथा तस्य । संकर्षणेति । संकर्षणो बलभद्रः । 'संकर्षणः प्रियमधुर्बलरौहिणेयौ' इति कोशः । तस्य पटो वस्त्रं तस्य नीला छाया कान्तिस्तया गदाधरो विष्णुस्तस्य देहच्छविं शरीरदीप्तिमुपहसत इवोपहासं कुर्वत वि । अच्छैरिति । अच्छैर्निर्मलैः कालिन्दी यमुना तस्या जलं पानीयं तस्य छेदाः खण्डानि तैरिव विरचितानि निर्मितानि छदानि पत्राणि यस्य स तथा तस्य । वनेति । वनकरिणामरण्यहस्तिनां मदा दानानि तैरुपसिक्तानि सिञ्चितानि किसलयानि यस्य स तथा तस्य । विन्ध्येति । विन्ध्याटवी दण्डकारण्यं तस्याः केशपाशः केशकलापस्तस्य श्रियं शोभामुत्प्राबल्येन वहतो दधतः । दिवापीति । दिवापि दिवसेऽपि अन्धकारितं जातान्धकारं शाखान्तरं शालान्तरं यस्य स तथा तस्य । कीदृशं मूलदेशम् । अप्रविष्टेति । अप्रविष्टा नान्तर्गताः सूर्यस्य रवेः किरणा यस्मिन्स तम् । अतीति । अतिशयेन गहनमपर्याप्तावकाशम् । कस्येव । अपरस्येव भित्रस्येव पितुरभयदातुरुत्सङ्ग क्रोडम् । - - - - - टिप्प० -1 कालान्तरे शैशवं विहाय अन्यस्मिन् यौवनादिषु भवति तादृशस्य स्नेहरसस्य । स्नेहो हि सुखदुःखानुभवोत्तरं बाल्यात्परमेवोद्भवति, न बाल्ये इत्याशयः । 2 जानन्नित्यर्थः । 3 तद्वत् नीला या छाया तया, इत्यर्थ उचितः । - - - - - - - - - पाठा० - १ मे येन. २ नावाशीर्यन्त. ३ पर्ण. ४ बालकतया. ५ कृतगमनावष्टम्भः. ६ नीलच्छायम्; नीलदलच्छायया; नीलया छायया. ७ गदाधरच्छविम्. ८ मदसलिलैरिवोपसिक्त; मदसलिलैरिव संसिक्त. ९ उदहन्तः. कादम्बरी । कथामुखे
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy