________________
चितं प्रतीकारं मन्यमानः स्नेहपरवशो मेद्रक्षणाकुलः किंकर्तव्यताविमूढः क्रोडविभागेन मामवष्टभ्य तस्थौ । असावपि पोपः शाखान्तरैः संचरमाणः कोटरद्वारमागत्य जीर्णासितभुजंगभोगभीषणं प्रसार्य विविधवनवराहवसाविसंगन्धिकरतलं कोदण्डगुणाकर्षणव्रणाङ्कितप्रकोष्ठमन्तकदण्डानुकारिणं वामबाहुमतिनृशंसो मुहुर्मुहुर्दत्तचञ्चुप्रहारसुत्कूजन्तमाकृष्य तातं गतासुमकरोत् । मां तु स्वल्पत्वाद्भयसंपिण्डिताङ्गत्वात्सावशेषत्वाच्चायुषः कथमपि पक्षसंपुटान्तरगतं नालक्षयत् । उपरतं च तमवनितले शिथिलशिरोधरमधोमुखममुञ्चत् । अहमपि तच्चरणान्तरे निवेशितशिरोधरो निभृतमनिलीनस्तेनैव सहापतम् । अवशिष्टपुण्यतया तु पैवनवश्येन पुञ्जितस्य महतः शुष्कपत्रंराशेरुपरि पैतितमात्मानमपश्यम् । अङ्गानि -
***********
त्रासेन भयेन स्वस्ता विदीर्णा ये संधयोऽस्थिबन्धास्तैः शिथिलेन श्लथेन । स्नेहेन प्रीत्या परवशः परायत्तो मम यद्रक्षणं गुप्तिस्तत्राकुलः संभ्रान्तः । किमिदानी कर्तव्यं विधेयमित्यस्य भावः किंकर्तव्यता तत्र विमूढो भ्रष्टमतिः । असावपीति । असौ जरच्छबरोऽपि पापः पापिष्ठः शाखान्तरैः शालान्तरैः संचरमाणः प्रवर्तमानः कोटरद्वारं निष्कुहद्वारमागत्यैत्य तातं मत्पितरं गतासु विगतप्राणमकरोदसृजदित्यन्वयः । किं कृत्वा । प्रसार्य विस्तार्य । कम् । वामबाहुं सव्यभुजम् । अथैनं विशेषयन्नाह - जीर्णेति । जीर्णो जरीयानसितः कृष्णो यो भुजंगः सर्पस्तस्य भोगः कायस्तद्वद्धीषणं भयजनकम् । विविधेति । विविधा अनेके ये वनवराहा अरण्यक्रोडास्तेषां वसा स्नायुस्तया विसगन्ध्यामगन्धि करतलं हस्ततलं यस्य स तथा तम् । कोदण्डेति । कोदण्डस्य धनुषो ये गुणाः प्रत्यञ्चास्तेषामाकर्षणमाक्षेपस्तेन व्रणं किणं तेनाङ्कितश्चिह्नितः प्रकोष्ठः कलाचिका यस्य स तम् । अन्तकेति । अन्तकस्य यमस्य यो दण्डो लगुडस्तदनुकारिणम् । तत्सादृश्यधारिणमित्यर्थः । कीदृक्सः । अतिनृशंसोऽतिक्रूरः । कीदृशं तातम् । मुहुरिति । मुहुर्मुहुर्वारंवारं दत्तश्चञ्चुप्रहारस्त्रोटीप्रघातो येन स तथा तम् । किं कुर्वन्तम् । उत्प्राबल्येन कूजन्तं शब्दं कुर्वन्तम् । किं कृत्वा । आकृष्य । कोटराद्वहिरानीयेति शेषः । मा तु वैशम्पायनं कथमपि महता कष्टेन पक्षसंपुटान्तरगतं नालक्षयन ज्ञातवान् । अत्र हेतुमाह - स्वल्पत्वादित्यादि । स्वल्पत्वादत्यल्पत्वाद्भयसंपिण्डिताङ्गत्वात्त्राससंकुचिताङ्गत्वादायुषो जीवितव्यस्यावशेषेणोद्वरितभागेन सहवर्तमानत्वात् । उपेति । उपरतं मृतं तं पितरमवनितले पृथ्वीतले शिथिला श्लथा शिरोधरा कन्धरा यस्य स तमधोमुखमवाङ्मुखममुञ्चदचिक्षिपत् । अहमपि तस्य पितुश्चरणान्तरे क्रमणमध्ये निवेशिता स्थापिता शिरोधरा ग्रीवा येन सः । निभृतमत्यर्थमङ्क उत्सङ्गे निलीनो लग्नः । यथा पितुर्देहाद्भिन्नतया नोपलभ्यते तथा स्थित इत्यर्थः । तेनैव जनकेनैव सहापतम् अधःसंयोगफलिकां क्रियामकरवम् । 'पत्तृ पतने' इत्यस्य लुङि रूपम् । अवेति । अवशिष्टमुर्वरित यत्पुण्यं श्रेयस्तस्य भावस्तत्ता तया । पवनेति । पवनः समीरणस्तस्य वश्यस्तदायत्तता तेन पुजितस्य पिण्डितस्य महतो महीयसः शुष्कपत्रराशेः शुष्काणि वानानि यानि पनि पत्राणि तेषां राशिः समदायस्तस्योपरि पतितं सस्तमात्मानं -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 विटपान्तरित्यर्थः । 2 लङि इति बोध्यं लुङि पुमः प्रसङ्गात् । 3 अत्र तु 'पवनवशात्पुजितस्य' इति पाठान्तरोविशेषशोभामावहति ।
पाठा० - १ उचित. २ मद्रक्षाकुलः. ३ मूढः. ४ भागेन. ५ पापः क्रमेण. ६ विमिश्र. ७ अनवरतकोदण्ड. ८ उत्कूजन्तं तमाकृष्य. ९ अपगतासुम्. १० स्वल्पशरीरत्वात्. ११ अवशेषत्वादायुषः. १२ तत्पक्षपुटान्तर. १३ उपरतमेनम्. १४ तातम्. १५ अन्तराले. १६ प्रवेशितः. १७ अङ्कदेश; अङ्कविलीन. १८ आयुषोऽवशिष्टतया. १९ पवनवशसंपुजितस्य; पवनवशात्पुजितस्य. २० पर्णराशेः. २१ निपतितम्.
शुकस्य पतनम्
पूर्वभागः ।
73)