________________
मपि सोपानैरिवायत्नेनैव पादपमारुह्य ताननुपजातोत्पतनशक्तीन्कांश्चिदल्पदिवसजातान्गर्भच्छविपाटलाञ्छाल्मलीकुसुमशङ्कामुपजनयतः, कांश्चिदुद्भिद्यमानपक्षतया नलिनसंवर्तिकानुकारिणः, कांश्चिदर्कफलसदृशान, कांश्चिल्लोहितायमानचञ्चुकोटीनीषद्विघटितदलपुटपाटलमुखानां कमलमुकुलानां श्रियमुद्वहतः, कांश्चिदनवरतशिरःकम्पव्याजेन निवारयत इव प्रतीकारासमर्थानेकैकता फलानीव तस्य वनस्पतेः शाखान्तरेभ्यश्च शुकशावकानग्रहीत् । अपगतातूंश्च कृत्वा क्षितावपातयत् ।
तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनर्तमालोक्य द्विगुणतरोपजातवेपथुर्मरणभयादुद्भ्रान्ततरलतारको विषादशून्यामश्रुजलप्लुतां दृशमितस्ततो दिक्षु विक्षिपन्, उच्छुष्कतालुरात्मप्रतीकाराक्षमस्वासस्त्रस्तसंधिशिथिलेन पक्षसंपुटेनाच्छाद्य मा तत्कालो -
*********** न्वयः । इतः शुकशिशून्विशेषयन्नाह-अन्विति । अनुपजातानुत्पन्नोत्पतनशक्तिर्नभोगमनसामर्थ्य येषां ते तथा कान् । कांश्चिदिति । अल्पदिवसजातान्स्वल्पदिनप्रभवान् । गर्भेति । प्रत्यग्रोत्पन्नस्य गर्भस्य या छविः कान्तिस्तया पाटलाञ्श्वेतरक्तान् । किं कुर्वतः उपजनयत उत्पादयतः । काम् । शाल्मलीवृक्षस्य यानि कुसुमानि पुष्पाणि तेषां शङ्कामारेकाम् । तत्कुसुमानामपि श्वेतरक्तत्वादेतेषां च तथात्वादुपमानोपमेयभावः । काश्चिदिति । उद्भिद्यमानाः प्रादुर्भूयमाना ये पक्षास्तेषां भावस्तत्ता तया नलिनानां कमलानां संवर्तिका नवदलम् । 'संवर्तिका नवदलम् इति कोशः । अनेनातिनैर्मल्यं द्योत्यते । तदनुकारिणस्तत्सादृश्यभाजः । काश्चिदिति । अर्को मन्दास्स्तस्य फलानि तैः सदृशांस्तत्तुल्यान् कांश्चिदिति । लोहितायमाना रक्तायमानाश्चञ्चुनां त्रोटीनां कोट्यः अग्रभागा येषां ते तथा तान् । कांश्चित्कि कुर्वतः । श्रियं शोभामुदहत उप्राबल्येन धारयन्तः । केषाम् । कमलमुकुलानां नलिनकुङ्मलानाम् । कीदृशानाम् । इषत्किंचिद्विघटित विकसितं यद्दलपुटं तेन पाटलं श्वेतरक्तं मुखं येषां तानि तथा तेषाम् । पुनः शिशून्विशिनष्टि-अनेति । अनवरतं निरन्तरं यः शिरःकम्पस्तस्य व्याजो मिषं तेन निवारयत इव 'वयं बालकाः, अस्मासु दया कर्तव्या, मास्माजहि' इति निवारणां कुर्वत इव । कीदृशान् । प्रतीकारो वधनिवृत्त्युपायस्तत्रासमर्थान्सामर्थ्यवर्जितान् । अपेति । अपगता असवः प्राणा येषामेवंविधांस्तान्कृत्वा विधाय क्षितौ भूमावपातयदचिक्षिपत् ।।
तातस्तु मत्पिता तु मां क्रोडविभागेनोत्सङ्गप्रदेशेनावष्टभ्यालम्बनीकृत्य तस्थौ तस्थिवानित्यन्वयः । तथा महान्तं महीयांसमकाण्ड एवाप्रस्ताव एव प्राणहरं जीवितनाशकृतं अप्रतीकारमचिकित्स्यमुपप्लवमुपद्रवमुपनतं प्राप्तमालोक्य निरीक्ष्य । अथ तत्पितरं विशेषयन्नाह - द्विगुणतरेति । द्विगुणतरः पूर्वस्माद्विगुणित उपजातः समुत्पन्नो वेपथुः कम्पो यस्य स तथा । मरणेति । मरणभयान्मृत्युत्रासादुद्भ्रान्ता अतिशयेन भ्रमितास्तरलाश्चञ्चलास्तारकाः कनीनिका यस्य सः । किं कुर्वन् । दृशं दृष्टिमितस्ततः समन्ततो दिक्षु ककुप्सु विक्षिपन्विस्तारयन् । दृशं विशिनष्टि-विषादेति । विषादेन शोकेन शून्यां निस्तेजसम् । अश्चिति । अश्रुजलेन नेत्राम्बुना प्लुतां प्लाविताम् । उदिति । उत्प्राबल्येन शुष्कमनार्दै तालु काकुदं यस्य स तथा । आत्मनः स्वस्य यः प्रतीकारो दुःखनिवृत्त्युपायस्तत्राक्षमोऽसमर्थः । किं कृत्वा । पक्षपुटेन छदपुटेन मामाच्छाद्यतिरोधाय । किं कुर्वाणः । मन्यमानो जानानः । किं । तत्कालोचितं तत्समययोग्यम् । इममेव प्रतीकारमुपायम् । पक्षसंपुटं विशेषयन्नाह - त्रासेति । टिप्प० - 1 शङ्काम् । भ्रन्तिमानलंकारः 1 2 उपमानधर्मस्य (श्रियः) उपमेये आरोपात्पदार्थनिदर्शना । 3 स्वाभाविककम्पे निवारणस्य संभावनाक्रियावस्तूप्रेक्षा । व्याजेनेत्युक्त्या सापहवा । 4 अनवसरे एवेत्यर्थः । 5 उद्भ्रान्ते तरले, चञ्चले अथवा अधिकविस्फारणेन भास्वरे ('तरलो भास्वरे चले इति हैमः) कनीनिके यस्येत्युचितम् । पाठा० - १ अधिरुह्य. २ शाल्मलि. ३ नलिनी. ४ उद्वहन्ता. ५ निवारयन्तः. ६ प्रतीकारानेकैकशः ७ शाखासंधिभ्यः कोटरान्तरेभ्यश्च; शाखान्तरेभ्य. कोटरान्तरेभ्यश्च. ८ अतिमहान्तमकाण्ड इव. ९ अवलोक्य. १० तरलतर. ११ तारकान्; तारकाम्. १२ पक्षपुटेन. १३ आच्छाद्य तत्कालोचितम्.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
कादम्बरी।
कथामुखे