________________
मेयं हिमजडम्, अरविन्दकोशरजःकषायमम्भः कमलिनीपत्रपुटेने प्रत्यग्रोद्धृताश्च धौतपङ्कनिर्मला मृणालिकाः समुपाहरत् । आपीतसलिलश्च सेनापतिस्ता मृणालिकाः शशिकला इव सैहिकेयः क्रमेणादशत् । अपगतश्रमश्चोत्थाय परिपीताम्भसा सकलेन तेन शबरसैन्येनानुगम्यमानः शनैःशनैरभिमतं दिगन्तरमयासीत् ।
ऐकतमस्तु जरच्छबरस्तस्मात्पुलिन्दवृन्दादनासादितहरिणपिशितः पिशिताशन इव विकृितदर्शनः पिशितार्थी तस्मिनेव तरुतले मुहूर्तमिव व्यलम्बत । अन्तरिते च शबरसेनापतौ स जीर्णशबरः पिबन्निवास्माकमायूंषि रुधिरबिन्दुपाटलया कपिलधूलतापरिवेषभीषणया दृष्ट्या गणयन्निव शुककुलकुलायस्थानानि श्येन इव विहंगामिषस्वादलालसः सुचिरमारुरुक्षुस्तं वनस्पतिम् मूलादपश्यत् । उत्क्रान्तमिव तस्मिन्क्षणे तैदालोकनभीतानां शुककुलानामसुभिः । किमिव हि दुष्करमकरुणानाम् । यतः स तमनेकतालतुङ्गमभ्रंकषशाखाशिखर -
*********** प्रत्येगेति । प्रत्यग्रं तत्कालमुद्धृता उत्खाताः । आपीतेति । आपीतं पानविषयीकृतं सलिलं येनैवंभूतः सेनापतिः सैन्यनायकः । क्रमेण जलपानानन्तरं ता मृणालिका अदशदभक्षयत् । कः कामिव । सैंहिकेयो राहुः स यथा शशिकलाश्चन्द्रकला अश्नाति । अपेति । अपगतो दूरीभूतः श्रमः खेदो यस्य स उत्थायोत्थानं कृत्वा परिपीताम्भसा कृतजलपानेन सकलेन समग्रेण तेन पूर्वोक्तेन शबरसैन्येन भिल्लबलेनानुगभ्यमानः शनैः शनैः कृताखेटकवृत्तित्वेन त्वराभावादभिमतं समीहितम् । एकस्या दिशः सकाशादन्या दिशो दिगन्तरमयासीदगमत् । ‘या प्रापणे इत्यस्य लुङि रूपम् । . एकतमस्त्विति । तु पुनरर्थे । एकतमः कश्चिज्जरच्छबरः स्थविरभिल्लस्तस्मात्पुलिन्दवृन्दाच्छबरसमुदायादनासादितमप्राप्तं हरिणपिशित मृगमास येनैवंभूतः पिशितार्थी मांसार्थी । पिशितेति । पिशितमश्नातीति पिशिताशनो व्याघ्रस्तद्वदिव विकृतं दर्शनं यस्य स तस्मिन्नेव तरुतले पूर्वोक्तवृक्षाध एकमुहूर्तमिव घटिकाद्वयमिव व्यलम्बत तद्गमनानन्तरं विलम्ब चकार । तथा शबरसेनापतौ भिल्लनायकेऽन्तरिते वृक्षादिना व्यवहिते सति स पूर्वोक्तो जीर्णशबरोऽस्माकं पक्षिणामायूंषि जीवितानि पिबत्रिव पानं कुर्वनिव शुकानां कीराणां यानि कुलानि तेषां कुलाया नीडानि तेषां स्थानानि स्थलविशेषाणि गणयन्निव तत्संख्यां कुर्वन्निव । कया । दृष्ट्या । इतो दृष्टिं विशेषयन्नाह-रुधिरेति । रुधिरस्य रक्तस्य यो बिन्दुः पृषत्तद्वत्पाटलया श्वेतरक्तया । कपिलेति । कपिला पिङ्गला या भ्रूलता तस्यां परिवेषः परिधिस्तेन भीषणया भयकारिण्या । पुनः प्रकारान्तरेण तमेव विशेषयन्नाह-श्येनेति । श्येन इव शशादन इव विहगानां पतत्त्रिणां यदामिषं मांस तस्यास्वादो भक्षणं तत्र लालसो लम्पटस्तं वनस्पति शाल्मलीवृक्षमारुरुक्षुरारोढुमिच्छुः सुचिरं चिरकालं यावत् । आ मूलान्मूलं मर्यादीकृत्यामूलं तस्मात्प्रान्तपर्यन्तमापश्यद्व्यलोकयत् । उत्क्रान्तमिवेति । तस्मिन्क्षणे तस्मिन्प्रस्तावे तस्य यदालोकनं वीक्षणं तेन भीताना भयप्राप्तानां शुककुलानामसुभिः प्राणैरुत्क्रान्तमिव निर्गतमिव । हीति । हि यस्मात्कारणादकरुणानां निर्दयानां किमिव दुष्करम् । न किमपीत्यर्थः । सर्वमेवाकृत्यं कुर्वन्तीति भावः । यतः स भिल्लस्तं पादपमनेके ताला वृक्षविशेषास्तद्वत्तुङ्गमुच्चम् । अभ्रमिति । अभ्रंकषमभ्रलिहं शाखानां शिखरं प्रान्तो यस्यैवभतमप्ययत्नेनैव प्रयासव्यतिरेकेणैव सोपानैरिवारोहणैरिवारुह्यारोहण कत्वा तस्य वनस्पतेः शाखान्तरेभ्यश्च शकशावकानेकैकं प्रत्येक तस्य भावस्तत्ता तया फलानीव सस्यानीव तानग्रहीदादत्तेत्य -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 पिसिताशन इव राक्षस इवेत्यपि व्याख्या उपलभ्यते ।
पाठा० - १ जलशिशिरम्. २ संपुटेन. ३ निर्मल. ४ सलिलः सेनापतिः; सलिलश्च शबरसेनापतिः. ५ एकतरः. ६ अतिविकृतदर्शनस्तस्मिन्नेव. ७ तरुमूले. ८ च तस्मिन्. ९ ध्रुवा परिवेष. १० शुककुलाय. ११ विहङ्गा. १२ सुरुचिर. १३ आलोकभीतानाम् .
(शबरचरित्रालोचनम्
पूर्वभागः ।