________________
विषदिग्धमुखा भुजंगा इव सायकाः, गीतमुत्साहकारि मुग्धमृगाणाम्, कलत्राणि बन्दीगृहीताः परयोषितः, क्रूरात्मभिः शार्दूलैः सह संवासः, पशुरुधिरेण देवतार्चनम्, मांसेन बलिकर्म, चौर्येण जीवनम्, भूषणानि भुजंगमणयः, वनकरिमदैरङ्गरागः, यस्मिन्नेव कानने निवसन्ति तदेवोत्खातमूलमशेषतः कुर्वते' इति चिन्तयत्येव मयि शबरसेनापतिरटवीभ्रमणसमुद्भवं श्रममपनिनीषुरागत्य तस्यैव शोल्मलीतरोरधश्छायायामवतारितकोदण्डस्त्वरितपरिजनोपनीतपल्लवासने समुपाविशत् । अन्यतरस्तु शबरयुवा ससंभ्रममवतीर्य तस्मात्करयुगलपरिक्षोभिताम्भसः सरसो वैडूर्यद्रवानुकारि, प्रलयदिवसकरकिरणोपतापादम्बरैकदेशमिव विलीनम्, इन्दुमण्डलादिव प्रस्यन्दितम्, द्रुतमिव मुक्ताफलनिकरम्, अत्यच्छतया स्पर्शानु -
***********
भुजंगाः सर्पा इव । एतेषां विषदिग्धमुखत्वं स्वाभाविकम् । तेषामोपाधिकमिति भावः । गीतमिति । मुग्धा अनभिज्ञा ये मृगा हरिणास्तेषामुत्साहकारि स्तब्धताविधायि गीतं गानम् । कलत्रेति । परयोषितोऽन्यस्त्रिय एव बन्दी ग्रहस्तद्रूपत्वेन गृहीताः स्वीकृताः कलत्राणि स्वपत्नयः । क्रूरेति । क्रूरात्मभिर्दुष्टात्मभिः शार्दूलैचित्रकैः समं संवासः सहावस्थानम् । पश्चिति । पशवो महिषास्तेषां रुधिरेण रक्तेन देवतार्चनं देवपूजनम् । मांसेनेति । मांसेन पिशितेन बलिर्हन्तकारस्तत्कर्म तत्कृत्यम् । चौर्येणेति । चौर्येण परद्रव्यापहारेण जीवन प्राणधारणम् । भूषणानीति । भूषणान्याभरणानि भुजंगमणयः सर्परत्नानि । पर्वतवासित्वात्तेषां ते सुलभा इति भावः । वनेति । वनकरिणामरण्यहस्तिनां मदैर्दानवारिभिरङ्गरागो विलेपनम् । यस्मिन्निति । यस्मिन् अनिर्दिष्टनामनि कानने वने निवसन्ति निवास कुर्वन्ति तदेव काननमशेषतः समग्रत उत्खातमुत्पाटितं मूलं मध्यभागो यस्यैवंभूतं कुर्वते विदधत इति पूर्वोक्तप्रकारेण मयि चिन्तयति ध्यायति सत्येव स शबरसेनापतिस्तस्यैव शाल्मलीतरोरधश्छायायामागत्य । त्वरितेति । त्वरितं शीध्र परिजनेन परिच्छदेनोपनीतमानीत यत्पल्लवासनं किसलयासनं तस्मिन्समुपाविशत्तस्थिवान् । किं कर्तुमिच्छुः । अपनिनीषुः अपनेतुं दूरीकर्तुमिच्छुः । कम् । श्रमं खेदम् । एतदेव विशेषयन्नाह-अटवीति । अटव्यां भ्रमणमितस्ततः पर्यटनं तस्मात्समुद्भवं समुत्पन्नम् । सेनापतिं विशेषयन्नाह-अवेति । अवतारित अनधिज्यं कृतं कोदण्डं धनुर्येन स तथा । तुः पुनरर्थे । अन्यतरः कश्चिदनिर्दिष्टनामा । शबरश्चासौ युवा चेति कर्मधारयः । न तु शवराणा युवेति निर्धारणे षष्ठ्या समासः । 'न निर्धारणे' इति षष्ठ्या सह समासनिषेधात् । ससंभ्रमं सवेगमवतीर्य तदन्तः प्रविश्य तस्मात्पम्पाभिधानात्सरसः कासारात्कमलिनी नलिनी तस्यां पत्रपुटेनाम्भः पानीयं तथा धौतः क्षालितः पङ्कः कर्दमो यासा ता अत एव निर्मला विशदा या मृणालिकाः कमलिन्यस्ताश्च समुपाहरदानीतवानित्यन्वयः । सरो विशिनष्टि - करेति । करयुगलेन हस्तद्वयेन परिक्षोभित विलोडितमम्भः पानीयं यस्य तत्तथा तस्मात् । अथाम्भो विशेषयन्नाह-वैडूर्येति । वैडूर्यं वालवायजं तस्य द्रवः कल्कस्तदनुकारि तत्सदृशम् । अत्युज्ज्वलवर्णत्वात्तदुपमानम् । प्रलयेति । प्रलयस्य कल्पान्तस्य यो दिवसकरः सूर्यस्तस्य किरणा दीधितयस्तेषामुपतापादुष्णाद्विलीनं क्षरितमम्बरस्याकाशस्यैकदेशमिवैकप्रविभागमिव । इन्दुमण्डलाच्चन्द्रबिम्बाव्यस्यन्दितं क्षरितमिव । तथा मुक्ताफलस्य रसोद्भवस्य निकर समूह द्रुतमिव द्रवोपयुक्तमिव । अत्यच्छतया अतिस्वच्छतया तादृशभ्रमेऽपि शीतस्पर्शनानुमेयमनुमातुं योग्यं हिमेन तुहिनेन जड स्तब्धतां प्रापितम् । अरविन्दस्य कमलस्य यः कोशः कर्णिकाधारस्तस्य रजः परागस्तेन कषायं तुवरम् । कमलिनीर्विशेषयन्नाह -
- - टिप्प० - 1 हरितमणिरित्यर्थः । 2 हिमवत् जडं शीतमित्यर्थो बोध्यः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ दग्ध. २ भुजंगमाः. ३ उत्साद. ४ बन्दि. ५ पशुरुधिरेणैव. ६ जीवितम्. ७ फणामयः. ८ गज. ९ यस्मिन्नेव च. १० कुर्वन्ति. ११ मयि सः. १२. शबरसेनापतिश्च. १३ परिभ्रमण. १४ समुद्धव. १५ शाल्मलि. १६ छायाम्. १७ उपनीते. १८ अन्यतमः. १९ हतम्.
70
कादम्बरी।
कथामुखे