________________
प्यसुदर्शनम्, स्वच्छन्दचारमपि दुर्गेकशरणम्, क्षितिभृत्पादानुवर्तिनमपि राजसेवानभिज्ञम्, अपत्यमिव विन्ध्याचलस्य, अंशकावतारमिव कृतान्तस्य, सहोदरमिव पापस्य, सौरमिव कलिकालस्य, भीषणमपि महासत्त्वतया गम्भीरमिवोपलक्ष्यमाणम्, अभिभवनीयाकृतिं । मातङ्गनामानं शबरसेनापतिमपश्यम् । अभिधानं तु पश्चात्तस्याहमश्रौषम् ।
आसीच्च मे मनसि-'अहो, मोहप्रायमेतेषां जीवितं साधुजनगर्हितं च चरितम् । तथा हि-पुरुषपिशितोपहारे धर्मबुद्धिः, आहारः साधुजनगेर्हितो मधुमासादिः, श्रमो मृगया, शौस्त्रं शिवारुतम्, समुपदेष्टारः सदसतां कौशिकाः, प्रज्ञा शकुनिज्ञानम्, परिचिताः धानः, राज्यं शून्यास्वटवीषु; आपानकमुत्सवः, मित्राणि क्रूरकर्मसाधनानि धनूंषि, सहाया -
*********** कृष्णेति । कृष्णं विष्णुमपि सुदर्शनेन रहितमिति विरोधः । परिहारपक्षे कृष्णं श्यामवर्णमत एवासुदर्शनं भीमदर्शनम् । भयोत्पादकत्वादिति भावः । स्वच्छन्देति । स्वच्छन्देन स्वेच्छतया चारश्चरणं यस्यैवंभूतमपि दुर्ग कोट्टमेकमद्वितीयं शरणमाश्रयो यस्येति विरोधः । परिहारपक्षे दुर्गा भवान्येकं शरणं यस्येति विग्रहः । क्षितिभृदिति । क्षितिभृद्राजा तस्य पादाश्चरणास्तदनुवर्तिनमपि तत्समीपस्थायिनमपि राजसेवा नृपसपर्या तस्या अनभिज्ञमकुशलमिति विरोधः । तत्परिहारपक्षे क्षितिभृत्पर्वतस्तस्य पादाः पर्यन्तपर्वतास्तदनुवर्तिनं तत्र स्थायिनमिति विग्रहः । अपत्येति । विन्ध्याचलस्य जलबालकानेरपत्यमिव प्रसूतिमिव । अशेति । कृतान्तस्य यमस्यांशावतारमिवैकदेशावतारमिव । सहोदरेति । पापस्यैनसः सहोदरमिव सोदरमिव । सारेति । कलिकालस्य कलियुगस्य सारमिव सर्वस्वमिव । भीषणेति । भीषणमपि भयजनकमपि महच्च तत्सत्त्वं च महासत्त्वं तस्य भावस्तत्ता तया गम्भीरमिव गाम्भीर्यगुणयुक्तमिवोपलक्ष्यमाणं परिदृश्यमानम् । परैरिति शेषः । अभीति । अभिभवनीया तिरस्करणीयाकृतिराकारो यस्येति स तम् । अन्वयस्तु प्रागेवोक्तः । अभिधानं तु पश्चात्तस्याहमश्रौष तस्य सेनापतेरभिधानं नामाहं पश्चात्तदर्शनानन्तरमश्रौषमाकर्णयम् । अनुचरमुखादिति शेषः ।
आसीच्चेति । मे मम मनसि चित आसीद्धभूव । खेद इति शेषः । तदेव दर्शयति - अहो इत्यादिना । अहो इत्याश्चर्चे । एतेषां भिल्लानां जीवितं प्राणितं मोहोऽज्ञानं प्रायः प्रचुरं यत्र तादृशम् । चः पुनरर्थे । चरितमाचरणं साधुजनैः सज्जनजनैर्गर्हित निन्दितम् । तदेव विशेषतो दर्शयति - तथाहीति । पुरुषेति । पुरुषस्य पुंसो यत्पिशितं मांसं तस्य य उपहारो भगवत्यै नैवेद्यदर्शनं तस्मिन्धर्मबुद्धिः श्रेयोधीः । आहार इति । आहारः प्रत्यवसानं साधुजनैर्हितो निन्दितो मधुमासादिर्मधु माक्षिकं वा । मांसं प्रतीतम् । ते आदौ यस्येति बहुव्रीहिः । आदिशब्दात्कन्दादिपरिग्रहः । श्रम इति । श्रमः शक्तिसाधनायासः मृगयाऽऽखेटकः । शास्त्रमिति । शिवा श्रृगाली तस्या रुतं शब्दितं शास्त्रमुच्चस्वरवेदपाठः । प्रबोधजनकत्वसाम्यात्तदुपमानम् । सदिति । सदसतां शुभाशुभानां समुपदेष्टारो बोधकाः कौशिका उलूकाः । प्रज्ञेति । शकुनयः पतत्रिणस्तेषां स्थूलमहत्त्वादिना ज्ञानं तदेव प्रज्ञा विवेकबुद्धिः । परीति । श्वानः सारमेयाः परिचिता विश्वासपात्राणि । राज्यमिति । शून्यासु जनरहितासु अटवीषु विन्ध्याटवीषु राज्यं स्वामित्वम् । आपानकेति । उत्सवः संतुष्टिकार्यं तदेवापानमेवापानकम् । स्वार्थे कः । पानगोष्ठिका । मित्राणीति । क्रूरं यत्कर्म तत्साधनानि तद्धेतुभूतानि धनुष्येव चापान्येव मित्राणि सुहृदः । हितचिन्तकानीति यावत् । सहाया इति । विषेण दिग्धं लिप्तं मुखमाननं येषामेवंविधाः सायका बाणास्त एव सहाया इष्टकार्यकर्तृत्वात्साहाय्यकारिणः । क इव ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 अनभिभवनीयाकृतिम् दृढगात्रतया अपराजय्यमूर्तिम् । इत्यपि पाठोव्याख्या चेतरस्यां टीकयां दृष्टिपथमायाति । 2 भोजनमित्यर्थः ।
पाठा० - १ प्रचार. २ विन्ध्यस्य. ३ सारथिम्. ४ अनभिभव. ५ मातङ्गक. ६ सर्वशबर. ७ तस्य पश्चात्. ८ घोर. ९ प्राज्य. १० एषाम्. ११ निर्वाहितम्. १२ निन्दितः; विगर्हितः. १३ शास्त्रे . १४ उपदेष्लरः, १५ शून्याटवीषु. १६ क्रूरकर्माणि. १७ धनं धनूंषि.
(शबरचरित्रालोचनम् ।
पूर्वभागः ।
69