________________
ष्णम्, विद्याधरमिव मानसवेगम्, पाराशरमिव योजनगन्धानुसारिणम्, घटोत्कचमिव भीमरूपधारिणम्, अचलराजकन्यकाकेशपाशमिव नीलकण्ठचन्द्रकाभरणम्, हिरण्याक्षदानवमिव महावराहदंष्ट्राविभिन्नवक्षःस्थलम्, अतिरागिणमिव कृतबहुबैन्दीपरिग्रहम्, पिशिताशनमिव रक्तलुब्धकम्, गीतकैलाविन्यासमिव निषादानुगतम्, अम्बिकात्रिशूलमिव महिषरुधिरार्द्रकायम्, अभिनवयौवनमपि क्षैपितबहुवयसम्, कृतसारमेयसंग्रहमपि फलमूलाशनम्, कृष्णम -
***
मिव दिनमिव । उभयोः साम्यमाह - सततेति । सततं निरन्तरं वनादाविर्भूता प्रकटीभूता ये मृगा हरिणास्तेषु तृष्णा हननेच्छा यस्य तम् । पक्ष आविर्भूता प्रकटिता मृगतृष्णा मरीचिका येष्विति विग्रहः । विद्येति । विद्याधरो व्योमगस्तद्वदिव । उभयोः साम्यार्थमाहमानसेति । मानेनाहंकारेण सवेगः सर्वदा तीव्रगतिः । पक्षे मानसे मानसाभिधाने सरसि गतिर्गमनं यस्येति विग्रहः । पारेति । पाराशरो व्यासस्तमिव । उभयोः सादृश्यमाह - योजनेति । योजनं गन्धो विद्यते यस्मिन्नित्यर्शआदित्वादच्प्रत्ययः । योजनगन्धः कस्तूरीमृगस्तमनुसरतीत्येवंशीलः स तम् । योजनगन्धा शीतं तमनुसारिणमिति वा । पक्षे 'व्यासंमातरि । कस्तूरीशीतयोश्च' इति कोशः । घटे । घटोत्कचो हिडिम्बासुतस्तमिव । उभयोः सादृश्यमाह - भीमेति । भीमं भयकारि यद्रूपं तद्धारिणम् । पक्षे भीमस्य वृकोदरस्य रूपमाकृतिस्तद्धारिणम् । तत्पुत्रत्वात् । अचलेति । अचलराजो हिमाचलस्तस्य कन्यका पार्वती तस्याः केशपाशः । केशकलापस्तमिव । उभयोस्तुल्यतामाह - नीलेति । नीलकण्ठो मयूरस्तस्य चन्द्रका मेचकास्तेषामासमन्ताद्धरणं धारणं यस्मिन्स तथा तम् । पक्षे नीलकण्ठो महादेवस्तस्य यश्चन्द्र एव चन्द्रकस्तदेवाभरणं यस्मिन् । अर्धनारीत्वादिति भावः । हिरण्येति । हिरण्याख्यो हिरण्यकशिपुः दानवः दैत्यस्तमिव । उभयोः साम्यं दर्शयन्नाह - महेति । महावराहा वनसूकरास्तेषां दंष्ट्रा दाढास्ताभिर्विभिन्नं विहितक्षतं वक्षःस्थलं भुजान्तरं यस्य स तथा तम् । द्वितीयपक्षे भगवता कृष्णेन महावराहरूपमाधाय हिरण्याक्षस्य वक्षःस्थलं विदारितमिति प्रसिद्धिः । अतीति । अतिरागिणमतिरागाभिभूतमतियशोभिलाषुकं तमिव । उभयोस्तुल्यतामाह - कृतेति । कृतो विहितो बहुबन्दीनां ग्रहाणां परिसामस्त्येन ग्रहो येन तम् । पक्षे कृतो बहुबन्दिनां वैतालिकानां परिग्रहः स्वीकारो येनेति विग्रहः । ' श्लेषे स्वरो न गण्यते' इति ह्रस्वदीर्घार्थः श्लेषः । पिशितेति । पिशिताशनो मांसभक्षकस्तद्वदिव । उभयोस्तुल्यत्वमाह - रक्तेति । रक्ता अनुरक्ता लुब्धका व्याधा यस्मिन्स तथा तम् । पक्षे रक्ते रुधिरे लुब्ध एव लुब्धकः । सस्पृह इत्यर्थः । गीतेति । गीतकला गेयविज्ञानं तस्या विन्यासो रचना तमिव । उभयोः साम्यमाह - निषादेति । निषादा भिल्लास्तैरनुगतं पश्चाद्गतम् । पक्षे निषादस्तन्त्रीकण्ठोद्भवः स्वरः । 'निषादर्षभगान्धर -' इति कोशः । तेनानुगतं सहितम् । अम्बिकेति । अम्बिका भवानी तस्यास्त्रिशूलं शस्त्रविशेषस्तद्वदिव । उभयोः सादृश्यमाह-महिषेति । महिषो रक्ताक्षस्तस्य रुधिरं रक्तं तेनार्द्रः स्विन्नः कायो देहो यस्य स तम् । तदपि तादृशमित्यभङ्गश्लेषः । अभिनवेति । अभिनवं मनोहारि प्रत्यग्रं वा यौवनं तारुण्यं यस्यैवंभूतमपि क्षपितानि बहूनि वयांसि येनेति विरोधः । परिहारपक्षे क्षपिता बहवो वयसः पक्षिणो येनेति विग्रहः । कृतेति । कृतो विहितः सारस्य धनस्य मेयस्य मातुं योग्यस्यान्त्रादेः संग्रहः स्वीकारो येनैवंभूतमपि फलमूलान्येवानं भक्षणं यस्येति विरोधः । परिहारपक्षे कृतः सारमेयाणां कुक्कुराणां संग्रहो येनैवंभूतम् ।
68
**
टिप्प० - 1 योजनगन्धानाम्नीं दाशकन्यामनुसरति स इत्यर्थः । 2 पिच्छप्रान्तभागे चन्द्राकाराः शिखण्डकाः इत्यर्थः । 3 अतिरागिणम् अत्यन्तविषयाक्तं धनिनमिव कृतो बहूनां बन्दीनां प्रसभापहृतस्त्रीणां संग्रहो येन इत्यर्थः केषुचन वर्गेषु प्रचलितः । 4 सिक्त इत्याशयः ।
पाठा० - १ पराशरम्. २ हिरण्याख्य ३ बन्दि. ४ बहुरक्त. ५ कलाविलास; कलाभिलाष. ६ क्षयितवयस्कम्. ७ पलाशिनम्.
कादम्बरी |
कथामुखे