________________
दानयाचनार्थमागताभिः सिंहीभिरिव कौलेयककुटुम्बिनीभिरनुगम्यमानम्, कैश्चिद्गृहीतचमरबालगजदन्तभारैः कैश्चिदच्छिद्रपर्णबद्धमधुपुटैः कैश्चिन्मृगपतिभिरिव गजकुम्भमुक्ताफलनिकरसनाथपाणिभिः कैश्चिद्यातुधानेरिव गृहीतपिर्शितभारैः कैश्चित्प्रमथैरिव केसरिकृत्तिधारिभिः कैश्चित्क्षपणकैरिव मयूरपिच्छेधारिभिः कैश्चिच्छिशुभिरिव काकपक्षधरैः कैश्चित्कृष्णचरितमिव दर्शयद्भिः समुत्खातविधृतगजदन्तैः कैश्चिज्जलदागमदिवसैरिव जलधरच्छायामलिनाम्बरैरनेकवृतान्तैः शबरवृन्दैः परिवृतम्, अरण्यमिव सखड्गधेनुकम्, अभिनवजलधरमिव मयूरपिच्छचित्रचापधारिणम्, बकराक्षसमिव गृहीतैकचक्रम्, अरुणानुजमिवोद्धृतानेकमहानागदशनम्, भीष्ममिव शिखण्डिशत्रुम्, निदाघदिवसमिव सतताविभूतमृगतृ -
*********** म्बिनीभिः धानपत्नीभिश्च सहेति भावः । शबरेति । शबरवृन्दैभिल्लसमूहः परिवृतमावेष्टिम् । कीदृशैः । कैश्चिदिति । गृहीताः स्वीकृताश्चमराणां गवयाना बालाः केशाः गजाना दन्ताश्च तेषां भारः समूहो यैस्ते तथा तैः । कैश्चिदिति । अच्छिद्रपर्णेनिबिडपत्रैद्धानि मधुनः पुटानि यैस्ते तथा तैः । कैश्चिदिति । मृगपतिभिरिव सिंहैरिव गजाना हस्तिनां कुम्भाः शिरःपिण्डाः तेषां मुक्ताफलानि मौक्तिकानि तेषां निकरः समूहस्तेन सनाथः सहितः पाणिर्येषां ते तथा तैरित्यभङ्गश्लेषः । कैश्चिदिति । यातुधानैरिव राक्षसैरिव गृहीतः पिशितस्य मासस्य भारो यैस्ते तथा तैः । अत्राप्यभङ्गश्लेषः । कैश्चिदिति । प्रमथैरिव पार्षदैरिव केसरिणां सिंहानां कृत्तयश्चर्माणि धरन्तीत्येवंशीलैस्तद्धारिभिः । कैश्चिदिति । क्षपणकैरिव दिगम्बरैरिव मयूराणां बर्हिणां पिच्छानि छदानि धरन्तीत्येवंशीला धारिणस्तैः । भिल्ला अपि हतमयूरपिच्छधारिणो भवन्तीति श्लेषः । कैश्चिदिति । शिशुभिरिव बालकैरिव काकपक्षः शिखण्डकस्तद्धारिभिः । भिल्लपक्षे काकानां सकृत्प्रजानां पक्षाश्छदास्तद्धारिभिः । कैश्चिदिति । कृष्णचरितं विष्णुविजृम्भितं दर्शयद्भिः प्रकाशयद्भिरिव एवं समुत्खाताः सम्यक्प्रकारेणोत्पाटिताः पश्चाद्विशेषेण धृता गजदन्ता यैस्ते तथा तैः । कृष्णेनापि बाल्ये गजहननक्षण इत्थमेवाचरितमिति साम्यम् : कैश्चिदिति । जलदस्य मेघस्यागमो येष्वेवंविधैर्दिवसैर्वासरैरिव जलधरो मेघस्तस्य छायातपाभावस्तद्वन्मलिनानि कश्मलान्यम्बराणि वस्त्राणि येषां ते तथा तैः । पक्षे जलधरच्छायया मलिनमम्बरं व्योम येष्विति विग्रहः । अनेकेति । अनेके बहवो वृत्तान्ताश्चरित्राणि येषा त तथा तैः । अरण्येति । अरण्यं वन तद्वदिव । उभयो सादृश्यमाह - सखड्गेति । खड्गः कौक्षेयको धेनुका कृपाणिका ताभ्यां सहवर्तमानम् । पक्षे खड्गो वार्धाणसः धेनुका वशा ताभ्यां युक्तमित्यर्थः । अभिति । अभिनवः प्रत्यग्रो यो जलधरो मेघस्तमिव मयूराणा पिच्छानि तद्वच्चित्रं विविधवर्णधारि यच्चापं धनस्तद्धत्त इत्येवंशीलः स तथा तम । पक्षे मयरपिच्छवच्चित्रं चापभिन्द्रधनस्तद्धारिणम् । बकेति । बकाभिधानो राक्षसो यातुधानस्तद्वदिव । उभयोः साम्यमाह - गृहीतेति । गृहीतं कृतमेकमद्वितीयं चक्र येन स तम् । पक्ष गृहीता स्वायत्तीकृतैकचक्राभिधाना पुरी येनेति विग्रहः । अरुणेति । अरुणानुजो गरुडस्तद्वदिव । उभयोरेक्यं प्रदर्शयत्राह - उद्धृतेति । उद्धृता उत्पाटिता अनेकेषां महानागानां बहुमहाहस्तिनां दशना दन्ता येन स तथा तम् । पक्ष उद्धृता मुखानिष्कासिता अनेकमहानागानां महाभोगिनां दशना दन्ता येनेति विग्रहः । भीष्मेति । भीष्मो गाङ्गेयस्तमिव । उभयोः सादृश्यमाह - शिखण्डीति । शिखण्डिनो बर्हिणस्तेषां शत्रुम् । तद्वधकारित्वात् । पक्षे शिखण्डी पाण्डवपक्षीयो वर्षवरस्तस्य शत्रु विपक्षम् । निदाघेति । निदाघो ग्रीष्मकालस्तस्य दिवस - - - - - - - - - - -- - - - - - - - - - - - - - टिप्प० - 1 श्वपत्नीभिरित्यर्थः । 2 वायसानाम् । 3 कुवलयापीडस्य हननोत्तरमित्यर्थः ।
-
-
-
पाठा० - १ कौलेय; कौलटेय. २ आगृहीत. ३ विभिनगजकुम्भ. ४ पिशिताहारैः. ५ बाहिभिः. ६ मलिनैः.
शबरसेनापतिः
पूर्वभागः ।