________________
मालानस्तम्भयुगलमुपहसन्तमिवोरुदण्डद्वयेन, लाक्षालोहितकौशेयपरिधानम्, अकारणेऽपि क्रूरतया बद्धपिताकोदग्रभुकुटिकराले ललाटफैलके प्रबलभक्त्याराधितया मत्परिग्रहोऽयमिति कात्यायन्या त्रिशूलेनेवाकितम्, उपजातपरिचयैरनुगच्छद्भिः श्रमवशा(रविनिर्गताभिः स्वभावपाटलतया शुष्काभिरपि हरिणशोणितमिव क्षरन्तीभिर्जिह्वाभिरावेधमानखेदैर्विवृतमुखतया स्पष्टदृष्टदन्तांशून्दंष्ट्रान्तराललग्नकेसरिसटानिव सृक्कभागानुदहद्भिः स्थूलवराटकमालिकापरिगतकण्ठैर्महावराहदंष्ट्राप्रहारजजरैरल्पकायैरपि महाशक्तित्वादनुपजातकेसरैरिव केसरिकिशोरकैZगवधूवैधव्यदीक्षादानदक्षरनेकवणेः श्वभिरतिप्रमाणाभिश्च केसरिणामभयप्र -
***********
श्रमस्तत्राभ्यासः पुनः पुनः करणं तस्मादुल्लिखितं चिह्नितमुदरं यस्य स तम् । इभेति । ऊर्वोर्यदण्डद्वयं तेनेभो गजस्तस्य मदो दानवारि तेन मलिनं श्याममालानं गजबन्धनस्तम्भस्तयोर्युगलं द्वन्द्वमुपहसन्तमिव तिरस्कुर्वन्तमिव । लाक्षेति । लाक्षया जतुना लोहितं रक्तीकृत यत्कौशेयं कृमिकोशोत्थं तदेव परिधानमधोंशुकं यस्य स तथा तम् । अकारेति । अकारणेऽपि क्रोधाभावेऽपि क्रूरतया दुष्टतया बद्धा त्रिपताका त्रिवलिययैवंभूता या भ्रुकुटि कुटिस्तया कृत्वा कराले विकराले ललाटफलकेऽलिकपट्टे प्रबलभक्त्याराधितयात्युत्कृष्टभक्तिवशीकृतया कात्यायन्या भवान्या मत्परिग्रहोऽयमिति मदीयोऽयमिति त्रिशूलेन शस्त्रविशेषणाङ्कितमिव चिह्नितमिव । श्वभिरिति । श्वभिः श्वानरनुगम्यमानमनुव्रज्यमानम् । शुनो विशेषयन्नाह-उपेति । उपजातः समुत्पन्नः परिचयः सांगत्यं यैस्ते तथा तैः । अन्विति । अनु पश्चात् गच्छद्भिः गामिभिः । आवेधेति । आवेधमानोऽन्येभ्यो ज्ञाप्यमानः खेदो विषण्णता यैः । काभिः । जिह्वाभी रसानाभिः । एता विशिनष्टि - अमेति । श्रमवशाखेदमाहात्म्यान्मुखाद्दूरं विनिर्गताभिर्निःसृताभिः । स्वभावेति । स्वभावो जाति स्वभावस्तेन पाटलतया श्वेतरक्ततया शुष्काभिरपि निर्लेपाभिरपि हरिणशोणितं मृगरुधिरं क्षरन्तीभिरिव स्त्रवन्तीभिरिव । किं कुर्वद्भिस्तैः । विवृतेति । विवृतं विदीर्णं यन्मुखं तस्य भावस्तत्ता तया सृक्कभागानोष्ठप्रान्तदेशान् । ‘दन्तवस्त्रं च तत्प्रान्तौ सृक्कणी' इति कोशः । उद्वहद्भिरुत्पाबल्येन वहमानैः । तान्विशेषयन्नाह - स्पष्टमिति । स्पष्टं प्रकटं दृष्टा अवलोकिता दन्तांशवो दशनत्विषो येषु ते तथा तान् । कामिव । दंष्ट्रान्तराले दाढामध्ये लग्ना या केसरिसटा सिंहस्कन्धकेसरा तामिव । स्थूलेति । स्थूला स्थविष्ठा ये वराटकाः कपर्दकास्तेषां मालिका मालास्ताभिः परिगतः सहितः कण्ठो येषां ते तथा तैः । महेति । महावराहा वनक्रोडास्तेषां दंष्ट्रा दाढास्तासां प्रहारा अभिघातास्तै रैः शिथिलाङ्गैः । अल्पेति । अल्पकायैः स्वल्पशरीरैरपि महाशक्तित्वात्प्रौढपराक्रमत्वादनुपजातकेसरैरनुत्पन्नसटैः केसरिकिशोरकैरिव सिंहशावकैरिव । मृगेति । मृगवधूनां हरिणपत्नीनां यद्वैधव्यदीक्षादानं विगतभर्तृकात्वव्रतदानं तत्र दक्षैनिपुणैः । अनेकेति । अनेके बहवो वर्णा रक्तपीतादयो येषु ते तथा तैः । पुनः काभिः । अतोति । अतिप्रमाणाभिः प्रचण्डाभिः केसरिणां सिंहानामभयप्रदानं जीवरक्षणं तस्य याचना प्रार्थना तदर्थं आगताभिः प्राप्ताभिः सिंहीभिरीव कौलेयककुटु -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -- - - - - -- - - टिप्प० -1 कृशत्वेन उल्लेखयोग्यीकृतं कृशमित्यर्थः । 2 कीदृशान् सृक्कभागान् ? येषु दन्तांशवः स्पष्टं दृश्यामानाः सन्ति । अत एव ते ईदृशाः प्रतीयन्ते यथा एषां दंष्ट्रान्तराले केसरिणः सटैव लग्ना भवेत् । दन्तकिरणेषु लग्नायाः केसरसटाया उत्प्रेक्षेत्याशयः ॥
पाटा० - १ क्रूरजातितया. २ त्रिपताकाग्रभ्रुकुटि. ३ पट्टे. ४ दर. ५ दृष्टदष्टांशून्दन्तान्तराल. ६ सटानिव. ७ किशोरैः. ८ वैधव्यदान.
IIIW
66
। कादम्बरी ।
कथामुखे