________________
तपत्रानुकारिणा मधुकरकुलेन तमालपल्लवेनेव निवारितातपम्, आलोलपल्लवव्याजेन भुजबलनिर्जितया भयप्रयुक्तसेवया विन्धाटव्येव करतलेनामृज्यमानगण्डस्थलस्वेदैलेखम्, आपाटलयाहरिणकुलकालरात्रिसङ्गध्यायमानया शोणितायेव दृष्ट्या रंजयन्तमिवाशाविभागानाम्, जानुलम्बेन कुंजरकरप्रमाणमिव गृहीत्वा निर्मितेन चण्डिकारुधिरबलिप्रदानायाऽसकृत्रिशितशस्त्रोल्लेखविषमितशिखरेण भुजयुगलेनोपशोभितम्, अन्तराँन्तरालग्नाऽऽश्यानहरिणरुधिरबिन्दुना स्वेदजलकणिकाचितेन गुञ्जाफलमित्रैः करिकुम्भमुक्ताफलैरिव रचिताभरणेन विन्ध्यशिलाँविशालेन वक्षःस्थलेनोद्भासमानम्, अविरतश्रमाभ्यासादुल्लिखितोदरम्, इभमदमलिन -
***********
मायूर् मयूरसंबन्धि यदातपत्रं तदनुकारिणा मधुकरकुलेन भ्रमरसमुदायेन । केनेव । तमालपल्लवेनेव तापिच्छकिसलयेनेव निवारितो दूरीकृत आतपः सूर्यालोको यस्य स तथा तम् । आलोलेति । विन्ध्याटव्या विन्ध्यवनस्थल्या लोलाश्चञ्चला ये पल्लवाः किसलयानि तेषां व्याजेन छलेन करतलेन हस्तेनेवापमृज्यमाना गण्डस्थलस्वेदलेखा यस्य तम् । विन्धाटवीं विशिनष्टि - भुजेति । भुजयोर्यदलं वीर्यं तेन निर्जितया पराजितया । भयेति । भयमातङ्कस्तेन प्रयुक्तारब्धा सेवा यया । दृष्ट्या चक्षुषा । कीदृश्या आपाटलयेषछेतरक्तया । मृगेति । मृगकुलानां हरिणवंशानां या क्षयरात्रिर्विनाशयामिनी तस्या । संध्यायमानया सायंकालवदाचरितया शोणितायेव रक्तलिप्तयेव रञ्जयन्तं शोभयन्तम् । केषाम् । आशाविभागानां दिग्विभागानाम् । अत्र कर्मणि षष्ठी । जान्विति । भुजयोर्युगलं बाहुद्वन्द्वं तेनोपशोभितं विराजमानम् । भुजयुग्मं विशेषयन्नाह - जान्विति । जानुर्नलकीलस्तत्पर्यन्तं चावलम्बनायतेन । महापुरुषलक्षणमिदम् । कुञ्जरेति । कुञ्जरो गजस्तस्य करप्रमाणं शुण्डापरिमाणं गृहीत्वेव निर्मितेन कृतेन । चण्डिकेति । चण्डिका काली तस्या रुधिरबलिप्रदानायासकृन्निरन्तरं निशितानि तेजितानि यानि शस्त्राणि तेषामुल्लेखो घर्षणं तेन विषमितं स्थपुटितं शिखरं भुजाग्रं यस्य स तथा तेन । चक्षुरिति । चक्षुःस्थलेन नेत्रस्थानेनोत्प्राबल्येन भासमानं शोभमानम् । चक्षुःस्थलं विशिनष्टि - लग्नेति । अन्तरा मध्ये लग्नाश्यानाशुष्का हरिणस्य मृगस्य युटुधिरं रक्तं तस्य बिन्दवो यस्मिन् तेन । स्वेदेति । स्वेदजलं प्रस्वेदवारि तस्य कणिकाः क्षुद्ररजःकणिकास्ताभिराचितेन व्याप्तेन । रक्तचेतसादृश्योपमानमाह-गुप्तेति । रचितं विरचितमाभरणं भूषणं यस्य तत्तथा तेन । कैः । करिकुम्भमुक्ताफलैरिव हस्तिशिरःपिण्डरसौद्भवैरिव । कीदृशैः । गुञ्जाफलानि प्रसिद्धानि तैर्मित्रैः । विन्ध्येति । विन्ध्यपर्वतस्य जलबालकाद्रेर्या शिला तद्वद्विशालेन विस्तीर्णेन । अविरतेति । अविरतं निरन्तरं यः शक्त्यतिशयार्थं -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प०.1 मायूरं यत्पिच्छं बहँ तदेव तस्य वा यत् आतपत्रं छत्रं तदनुकारिणेति पाठः केषु वर्गेषु प्रचलितः । 2 आलोलाः पल्लवास्तस्य कपोलस्वेदलेखां प्रोञ्छन्ति, तत्रोटोक्षा-विन्ध्याटवी भुजबलेन निर्जिता, अत एव भयवशात् प्रयुक्तसेवा आरब्यसेवना । तत एव पल्लवानां व्याजेन सा विन्ध्याटव्येव करतलेन तस्य स्वेदान् प्रोञ्छतीत्युत्प्रेक्षाशयः । 3 रक्तीकुर्वन्तमित्यर्थः । 4 कर्मणः शेषत्वविवक्षायां मातुः स्मरतीतिवत् षष्ठीति मार्मिकैर्बोद्ध्यम् । 5 क्षतकिणैरुच्चावचीकृतमित्यर्थः । 6 'रचिताभरणविन्थ्यशिलाविशाले. त्यादिविशेषणानि वक्षःस्थलस्येति अन्यस्यां टीकायां दरीदृश्यते । अत्र तानि चक्षुषः प्रयुक्ता । भयत्र व्याख्या त्वत्रत्या ग्राह्या । वक्षःस्थलं स्वेदजलबिन्दुभिव्याप्तं यस्य हि मध्ये मध्ये ईषच्छुष्का हरिणरुधिरबिन्दवोपि लग्नाः । अत एवोत्प्रेक्षा यत्गुञ्जाफलमित्रैः गजमौक्तिकैरिव रचितभरणमिति ब्याख्याशयः ।
पाठा० -१ आलोलकर्णपल्लव. २ स्वेदसलिल. ३ मृगकुलक्षयरात्रि. ४ रञ्जयन्तमाशा. ५ विभागाम्. ६ आजानुलम्बिना. ७ वनकुञ्जर; दिकुञ्जर. ८ कालिका. ९ प्रदानार्थमसकृत्. १० अन्तरालग्ना. ११ कणचितेन. १२ विमित्रैः. १३ विरचिता. १४ विन्ध्यशिलातल. १५ कक्षस्थलेन, चक्षुःस्थलेन. १६ उल्लिखिताम्बरम्.
(शबरसेनापतिः
पूर्वभागः ।
65