SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ मध्ये च तस्य महतः शबरसैन्यस्य प्रथमे वयसि वर्तमानम्, अतिकर्कशत्वोदायसमयमिव निर्मितम्, एकलव्यमिव जन्मान्तरर्गतम्, उद्भिद्यमानश्मश्रुराजितया प्रथममदलेखामण्ड्यमानगण्डभित्तिमिव गजयूथपतिकुमारकम्, असितकुवलयेश्यामलेन देहप्रभाप्रवाहेण कालिन्दीजलेनेव पूरितारण्यम्, आकुटिलाग्रेण स्कन्धावलम्बिना कुन्तलभारेण केसरिणमिव गजमदमलिनीकृतेन केसरकलापेनोपेतम्, आयतललाटम्, अंतितुङ्गघोरघोणम्, उपनीतस्यैककर्णाभरणतां भुजगफणामणेरापाटलैरंशुभिरालोहितीकृतेन पर्णशयनाभ्यासाल्लग्नपल्लवरागेणेव वामपार्थेन विराजमानम्, अचिरप्रहतगजकपोलगृहीतेन सप्तच्छदपरिमलवाहिना कृष्णागरुपङ्कनेव सुरभिणा मदेन कृताङ्गरागम्, उपरि तत्परिमलान्धेन भ्रमता मायूरपिच्छा - *********** मध्ये चेति । तस्य पूर्वव्यावर्णितस्य महतः शबरसैन्यस्य भिल्लबलस्य मध्ये मातङ्गनामानं शबरसेनापतिमपश्यमद्राक्षमित्यन्वयः । तमेव विशेषयन्नाह - प्रथमे इति । अत्र प्राथम्यमापेक्षिकम् । तेन वार्धकापेक्षया प्रथमं वयस्तत्र वर्तमानम् । अतिकर्कशत्वादतिकठिनत्वादायसमयमिव लोहमयमिव निर्मित रचितम् । कमिव । एकेति । एकलव्यो द्रोणाचार्यशिष्यः शबरस्तमिव । कीदृशम् । जन्मेति । एकस्माजन्मनोऽन्यज्जन्मान्तरं तत्र गतं प्राप्तम् । उदिति । उद्भिद्यमानान्युत्पद्यमानानि यानि श्मश्रूणि तेषां राजिः पङ्क्तिस्तस्या भावस्तत्ता तया प्रथमाया या मदलेखा तया मण्ड्यमानालंक्रियमाणा गण्डभित्तिः कपोलिभित्तिर्यस्यैवंभूतो यो गजयूथपतिर्गजनायकस्तस्य कुमारकः कलभस्तमिव । असितेति । पूरितं भृतमरण्यं काननं येन स तथा तम् । केन । देहस्य शरीरस्य या प्रभा कान्तिस्तस्य प्रवाहेणौघेन । तमेव विशेषयन्नाह - असितेति । असितं कृष्णं यत्कुवलयं कुवेलं तद्वत् श्यामलेन श्यामेन । केनेव । कालिन्दीजलेनेव यमुनाम्भसेव । यमुनाजलं नीलम्, शबरदेहप्रभापि तादृशी, अतस्तयोः साम्यम् । किमिव । आकुटिलेति । आ ईषत्कुटिलमग्रं यस्यैवंभूतेन स्कन्धावलम्बिना कुन्तलभारेण केशकलापेनोपेतं सहितं गजानां व्यापादनलक्षणेन तन्मदेन दानवारिणा मलिनीकृतेन केसराणां कलापेन सटानां कलापेनोपेतं सहितं केसरिणमिव सिंहमिव । आयतेति । आयतं विस्तीर्णं ललाटमलिक यस्य स तम् । अतीति । अतितुङ्गात्युच्चा घोरा नासिका यस्य स तम् । वामेति । वामपार्थेन सव्यपार्चेन विराजमान शोभनानम् । तदेव विशेषयन्नाह - पर्णेष्विति । पर्णेषु पत्रेषु यच्छयनं स्वापस्तत्र योऽभ्यासः परिचयस्तेन लग्नः पल्लवानां राग आरुण्यं यस्मिंस्तत्तथा तेन । अत्रोत्प्रेक्षानायं पल्लवैररुणः किंत्वेकस्मिन्कर्णे आभरणतां भूषणतां उपनीतस्य प्राप्तस्य भुजगफणमणेरापाटलैः श्वेतरक्तैः अंशुभिः किरणैः आलोहितीकृतेन अरुणीकृतेनेव । इव भिन्नक्रमः । अचिरेति । अचिरं तत्कालं प्रहतो यो गजस्तस्य कपोलाभ्यां गृहीतेन सप्तच्छदानामयुक्छदानां यः परिमलो गन्धस्तं वहतीत्येवंशीलः स तथा तेन । केनेव । कृष्णागरुः काकतुण्डस्तस्य पङ्केनेव कर्दमेनेव सुरभिणा सुगन्धिना मदेन कृतोऽङ्गरागो विलेपनं येन स तथा तेन । उपरीति । तस्य मदस्य यः परिमलो गन्धस्तेनान्धेन विह्वलेनेति हेतुः । उपर्युपरिष्टाद्ममता भ्रमणं कुर्वता । मायूरेति । - - - - - - - - - - टिप्प० . 1 गजानां मदेन मलिनीकतेन केसरकलापेन सटासमहेनोपेतं सिंहमिवेति स्पष्टोऽर्थः । पाठा० -१ अतिमहतः. २ आयसम्. ३ आगतम्. ४ कुमारम्. ५ श्यामेन. ६ पूरयन्तमरण्यम्. ७ ललाटभासिनम्. ८ तुङ्गघोर. ९ भुजंग. १० फणा. ११ आहत. १२ कृष्णागुरु. १३ उपरिपतत्परिमल. १४ परिभ्रमता. १५ मायूरातपत्र; मयूरपिच्छातपत्र, मयूरपिच्छछत्र. (64 कादम्बरी। कथामुखे
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy