________________
अभिमुखमापतच्च तस्माद्वनान्तरादर्जुन भुजदण्डसहस्रविप्रकीर्णमिव नर्मदाप्रवाहम्, अनिलचैलितमिव तमालकाननम्, एकीभूतमिव कालरात्रीणां यामसंघातम्, अञ्जनशिलास्तम्भसंभारमिव क्षितिकम्पविघूर्णितम्, अन्धकारपुञ्जमिव रविकिरणाकुलितम्, अन्तकपरिवारमिव परिभ्रमन्तम्, अवदारितरसातलोद्भूतमिव दानवलोकम् अशुभकर्मसमूहमिवैकत्रसमागतम्, अनेकदण्डकारण्यवासिमुनिजनशापसार्थमिव संचरन्तम्, अनवरतशरनिकरवर्षिरामनिर्हतखरदूषणबैलनिवहमिव तदपध्यानात्पिशाचतामुपगतम्, कलिकालबंन्धुवर्गमिवैकत्र संगतम्, अवगाहप्रस्थितमिव वनमहिषयूथम्, अचलशिखैरस्थितकेसरिकराकृष्टिपैतनविशीर्णमिव कालाभ्रपटलम्, अखिलरूपविनाशाय धूमकेतुजालमिव समुद्गतम्, अन्धकारितैकाननम्, अनेकसहस्रसंख्यम्, अतिभयजनकमुत्पातवेतालव्रातमिव शबरसैन्यमद्राक्षम् ।
***********
अभीति । तस्माद्वनान्तरान्ममाभिमुखं संमुखमापतदागच्छच्छबरसैन्यं भिल्लानीकम् । तदहमद्राक्षमित्यग्रिमेणान्वयः । तत्सैन्यं विशेषयन्नाह - अर्जुनेति । सहसार्जुनस्य राज्ञो भुजदण्डसहस्रं बाहुसहस्रं तेन विप्रकीर्णमितस्ततः पर्यस्तं नर्मदाप्रवाहमिव मेकलाव्रिजास्त्रोत इव | अनिलवशाद्वायुवशाच्चलितमितस्ततः पर्यस्तं तमालानां तापिच्छानां काननं वनमिव । एकीभूतं मिश्रीभूतं कालरात्रीणां तमस्विनीनां यामसंघातमिव । अञ्जनशिलानां श्यामशिलानां ये स्तम्भाः स्थूणास्तेषां संभारमिव व्रातमिव । क्षितीति । क्षितिकम्पेन पृथ्वीप्रचलितेन विघूर्णितं मूर्च्छितम् । अन्धकारपुज्जमिव ध्वान्तपटलमिव । रवीति । रविकिरणैः सूर्यरश्मिभिराकुलितं व्याकुलीभूतम् । अन्तकस्य यस्य परिवारमिव परिच्छदमिव । किं कुर्वन्तम् । परिभ्रमन्तमितस्ततः पर्यटन्तम् । अवेति । अवदारिताद्विदीर्णाद्रसातलाद्भूतलादुद्भूतं प्रकटीभूतं · दानवलोकमिव दैत्यलोकममिव । अशुभेति । एकत्र समागतं मिलितमशुभकर्मणः पापप्रकृतेः समूहमिव संघातमिव । अनेकेति । अनेके च ये दण्डकारण्यवासिमुनिजनास्तेषां शापानां सार्थः समूहस्तमिव । किं कुर्वन्तम् । संचरन्तं व्रजन्तम् । अनवरतेति । अनवरतं निरन्तरं शरनिकरं बाणसमूहं वर्षतीत्येवंशीलो यो रामो दशरथात्मजस्तेन निहतो व्यापादितः खरदूषणस्य पाताललङ्काधिपतेर्बलनिवहः सैन्यसमूहस्तमिव । कीदृशम् । तस्मिन्रामचन्द्रेऽपध्यानं दुश्चिन्तनं तस्मात्पिशाचतां भूततामुपगतं प्राप्तम् । कलीति । कलिकालः कलियुगस्तस्य बन्धुवर्गं सहचरसमुदायमिव । एकत्रेति । एकत्र एकस्मिन्नेव स्थले संगतं मिलितम् । अवेति । अवगाहो मज्जनं तदर्थ प्रस्थितं वनमहिषयूथमिव गवलवृन्दमिव । अचलेति । अचलः पर्वतस्तस्य शिखरं शृङ्गं तत्र स्थितो यः केसरी महानगस्तस्य क हस्तौ ताभ्यामाकृष्टिराकर्षणं तस्माद्यत्पतनं भ्रंशस्तेन विशीर्णं विशरारुतां प्राप्तं कालाभ्रपटलमिव मेघमालामिव । अखिलेति । अखिलाना समग्राणां यद्रूपं तस्य विनाशाय नाशनाय समुद्गतमुदयं प्राप्तं धूमकेतुजालमिव केतुजालमिव केतुसमूहमिव । अन्धेति । अन्धकार संजातान्धकारं काननं येन तादृशम् । अनेकेति । अनेकानि सहस्त्राणि संख्या यस्य तत्तथा । अतीति । अतिभयमुत्कृष्टभीतिस्तस्य जनकमुत्पादकम् । किमिव । उत्पीतोऽजन्यं तस्य वेतालव्रातं देवविशेषसमूहमिव भयोत्पादकमित्यर्थः । अन्वयस्तु प्रागेवोक्तः ।
टिप्पo - 1 प्रहरसमूहमिव । 2 प्रचलनेन, भूकम्पेनेत्यर्थः । 3 खरदूषणयोः तन्त्रामकयोर्दण्डकारण्यसमीपस्थरावणसेनाधिपत्योः बलनिवहमिवेत्यर्थः । 4 सिंह इत्यर्थः । 5 वस्तुतस्तु अखिलानां रूपाणां मृगाणां विनाशाय धूमकेतुसमूहमिवेत्यर्थः । 'रूपं मृगेडपि विज्ञेयम्' इति हलायुधः । 6 उत्पाताय अमङ्गलाय यो तालातः भूताविष्टशवसमूहस्तमिव । इत्यर्थो बोध्यः ।
पाठा० - १ आपतन्तं च; आपतितम्. २ अनिलबल; अनिलवशात्; अनिलवश ३ संचलित. ४पूरम्; बलम्. ५ आकुलम्. ६ उद्गतमिव. ७ अशेष. ८ वासित. ९ नितम्; हत. १० बलमिव. ११ उपगतम्. १२ वर्गमिव समुद्गतम्; वर्गमिव संगतम्. १३ अवगाह्योत्थित. १४ शिखरस्थसिंह. १५ शीर्णम्. १६ कालमेघ. १७ अशेषकाननम्. १८. जननम्.
शबरसैन्यवर्णनम्
पूर्वभागः ।
63