________________
माकुलाकुलचारिणां च पत्ररथानां कोलाहलेन, रूपानुसारप्रेधावितानां च मृगयूथानां युगपदतिरभसर्पोदपाताभिहताया भुवः कम्पमिव जनयता चरणशब्देन, कर्णान्ताकृष्टज्यानां च मदकलकुरकामिनीकण्ठकूजिर्तकलशबलितेन शरनिकरवर्षिणां धनुषां निनादेन, पवनाहतिक्वणितधाराणामसीनां च कठिनमहिषस्कन्धपीठपातिनां रणितेन, शुनां च सरभसविमुक्तघर्घरध्वनीनां वनान्तरव्यापिना ध्यानेन सर्वतः प्रचलितामिव तंदरण्यमभवत् । अचिराच्च प्रशान्ते तस्मिन्मृगयाकलकले निर्वृष्टमूकजलधरवृन्दानुकारिणि मथनावसानोपशान्तवारिणि सागर इव स्तिमिततामुपगते कानने मन्दीभूतभयोऽहमुपजातकुतूहल: पितुरुत्सङ्गादीषदिव निष्क्रम्य कोटरस्थ एव शिरोधरां प्रसार्य संत्रासँतरलतारकः शैशवात्किर्मिर्दैमित्युपैजातदिदृक्षस्तामेव दिशं चक्षुः प्राहिणवम् ।
***********
1
1
तरुशिखराणि वृक्षप्रान्तानि तेभ्यः समुत्पतितानामुड्डीनानाम् । आकुलेति । आकुलाकुलं यथा स्यात्तथा चारिणां गामिनाम् । पुनः केन । मृगेति । मृगा हरिणास्तेषां यूथानि वृन्दानि तेषां चरणशब्देन क्रमणोत्थरवेण । कीदृशानाम् । रूपेति । रूपं शक्तिस्तदनुसारेण प्रधावितानां प्रचलितानाम् । कीदृशेन चरणशब्देन । युगपदिति । युगपत् एकदैवातिरभसं वेगवत्तरं पादानां चरणानां पातः पतनं तेनाभिहताया भुवः पृथिव्याः । बलवद्द्रव्याधाताभावेन कम्पाभावेऽपि कम्पभ्रम इत्याह- कम्पमिवेति । जनयतोत्पादयता । पुनः केन । धनुषां निनादेन चापशब्देन । धनूंषि विशेषयन्नाह - कर्णेति । कर्णान्तं श्रोत्रपर्यन्तमाकृष्टाकर्षिता ज्या गुणो येषां तानि तथा तेषाम् । शरेति । शराणां बाणानां निकरः समूहस्तं वर्षन्तीत्येवंशीलानि यानि धनूंषि तेषाम् । चापध्वनिं विशेषयन्नाह - मदेति । मदेन कला मनोज्ञा या कुररस्य मत्स्यनाशस्य कामिनी स्त्री तस्याः कण्टकूजितं तस्य कलो मधुरो ध्वनिस्तेन शबलितेन मिश्रितेन । पुनः केन । असीति । असीनां खड्गानां रणितेन शब्दितेन । असीन्विशेषयन्नाह - पवनेति । पवनस्य समीरणस्याहत्याहननेन क्वणिताः शब्दिता धारा ते तथा तेषाम् । कठिनेति । कठिनः कठोरो यो महिषस्कन्धो लुलायभुजशिरः स एव पीठं स्थलं तत्र पातिनां पतनशीलानाम् । पुनः केन । शुनां सारमेयाणां वनान्तरव्यापिनारण्यमध्यप्रसरणशीलेन ध्यानेन शब्देन । शुनो विशिनष्टि - सरभसेति । सरभसं सवेगं विमुक्ता घर्घरध्वनयो यैस्ते तथा तेषाम् । अचिराच्चेति । अचिरौत् बहुकालेन प्रशान्ते शान्तिमुपगते मृगयाकलकलशब्दे सागर एव समुद्र स्तिमिततां निश्चलतामुपगते प्राप्ते काननेऽरण्ये सति । सागरं विशेषयन्नाह - मथनेति । मथनस्य विलोडनस्यावसानं पर्यन्तस्तेनोपशान्तं स्वस्वरूपेणावस्थितं वारि जलं यस्मिन् । निर्वृष्टेति । निर्वृष्टाः कृतवर्षा मूकाः स्तनितशून्या ये जलधरा मेघास्तेषां वृन्दं तदनुकर्तुं शीलं यस्य स तस्मिन् । मन्दीति । मन्दीभूतं मन्दतां प्राप्तं भयं भीतिर्यस्य स तथा । उपेति । उपजातमुत्पन्नं कुतूहलमाश्चर्यं यस्य सोऽहं पितुर्जनकस्योत्सङ्गात्क्रोडादीषदिव निष्क्रम्य किंचिदिवोन्नतो भूत्वा कोटरस्थ एव शिरोधरां ग्रीवां प्रसार्य विस्तार्य संत्रासेन भयेन तरला चञ्चला तारका कनीनिका यस्य स तथा । शैशवाद्वाल्यात्किमिदमिति हेतोः । तामेव दिशं ककुभं प्रति चक्षुर्नेत्रं प्राहिणवमप्रैषम् । किमिदमदृष्टपूर्वमित्युपजाता समुत्पन्ना दिदृक्षा द्रष्टुमिच्छा यस्य सः ।
टिप्प० - 1 केषुचिद् वर्गेषु ‘मृगयूणां' इत्यपि पाठः प्रचलितः । रूपाणां मृगाणामनुसारेण प्रधावितानां मृगयूणां किरातानाम् चरणशब्देन इति तदूव्याख्या । 'रूपं मृगेऽपि विज्ञेयम्' इति हलायुधः । 2 स्वल्पकालेत्यर्थ उचितः । 3 प्रेषयमित्याशयः ।
पाठा० - १ निनादेन. २ प्रस्थितानाम् ३ मृगयूणाम्. ४ पादवातात्. ५ ज्याघोषमद. ६ कलेन; कलशबलेन; कलकलेनेव; कलकलशबलेन. ७ आहत. ८ पाटितानाम्. ९ तदा. १० उपागते. ११ तस्मिन्कानने. १२ मन्दीभूतसाध्वसः १३ तरलतर. १४ किमिति १५ समुपजातविस्मयो दिदृक्षुः समुपजातदिदृक्षः; संजातदिदृक्षः.
62
कादम्बरी |
कथामुखे