________________
क्यतां दिगियम्, आकर्ण्यतामयं शब्दः, गृह्यतां धनुः, अवहितैः स्थीयताम्, विमुच्यन्तां धान इत्यन्योन्यमभिवदतो मृगयासक्तस्य महतो जनसमूहस्य तरुगहनान्तरितविग्रहस्य क्षोभितकाननं कोलाहलमशृणवम् ।
अथ नातिचिरादेवानुलेपनामृदङ्गनिधीरेण, गिरिविवरविजृम्भितप्रेतिनादगम्भीरेण शबरशरताडितानां केसरिणा निनादेन संत्रस्तयूथमुक्तानामेकाकिनां च संचरतामनवरतकरास्फोटमिश्रेण जलधररसितानुकारिणा गजयूथपतीनां कण्ठगर्जितेन, सरभससारमेयविलुप्यमानावयवानामोलोलतरलतारकाणामेणकानां च करुणकूजितेन, निहतयूथपतीनां वियोगिनीनामनुगतकलभानां च स्थित्वा स्थित्वा समाकर्ण्य कलकलमुत्कर्णपल्लवानामितस्ततः परिभ्रमन्तीनां प्रत्यग्रपतिविनाशशोकदीपेण करिणीनां चीत्कृतेन, कतिपयदिवसप्रसूतानां च खङ्गिधेनुकानां त्रासपरिभ्रष्टपोतकान्वेषिणीनामुन्मुक्तकण्ठमारसन्तीनामाक्रन्दितेन, तरुशिखरसमुत्पतिताना -
*********** धानैः स्थीयतामुपविश्यताम् । धानः कौलेयका विमुच्यन्तां प्रस्थाप्यन्तामित्यन्योन्यमिति पूर्वोक्तप्रकारेणान्योन्य परस्परमभिवदतो जल्पतो मृगयासक्तस्याखेटकासक्तस्य महतो महीयसो जनसमूहस्य जनवृन्दस्य तरूणां वृक्षाणां गहनं निकुञ्जस्तेनान्तरितो व्यवधानीकृतोविग्रहः शरीरं यस्य स तथा तस्य क्षोभितकाननमान्दोलितारण्यं यथा स्यात्तथा कोलाहलं कलकलमश्रृणवमश्रौषम् ।
अथेति । अथेत्यानन्तर्ये । नातिचिरादेव स्वल्पकालेनैव सर्वतोऽभितः प्रचलितमिव कम्पितमिव तदरण्यमभवत् । केन । अन्विति । अनुलेपनं द्रवद्रव्यं तेनाः स्वित्रो यो मृदङ्गो मुरजस्तस्य ध्वनिः शब्दस्तद्वद्धीरेण गम्भीरेण । गिरीति । गिरिविवरेषु पर्वतच्छिद्रेषु विजृम्भितः प्रसृतो यः प्रतिनादः प्रतिच्छन्दस्तेन गम्भीरेण मन्द्रेण । पुनः केन । शबरेति । शबरा भिल्लास्तेषां शरा बाणास्तैस्ताडितानां व्यथितानां केसरिणां सिंहानां निनादेन शब्देन । पुनः केन । संत्रस्तेति । संत्रस्तं चकितं ययूथं तेन मुक्तानामेकाकिनां च संचरतां गच्छातामनवरतं निरन्तरं यः करास्फोटः शण्डाघातस्तेन मिश्रः संवलितो जलधरो मेघस्तस्य रसितं गर्जितं तदनकारिणा गजयथपतीनां हस्तिसमुदायनाथानां कण्ठगर्जितेन निगरणरसितेन । पुनः केन । सरभरसेति । सरभसं वेगवत्तरं सारमेयैः श्वभिर्विलुप्यमाना दूरीक्रियमाणा अवयवा अपघना येषां ते तथा तेषामालोलाश्चञ्चला अत एव तरला स्फुटिता तारका कनीनिका येषामेवंविधानामेणकानां हरिणानां करुणं करुणरसोत्पादक यत्कूजितं शब्दितं तेन । पुनः केन । करिणीनां हस्तिनीनां चीत्कृतेन चीत्कारशब्देन । कीदृशेन । प्रत्यग्रेति । प्रत्यग्रस्तत्कालीनो यः पतिविनाशशोकस्तेन दीर्धेणायतेन । हस्तिनी विशेषयन्नाह - इतस्तत इति । इतस्ततः समन्ततः परिभ्रमन्तीनां परिभ्रमणं कुर्वन्तीनाम् । उत्कर्णेति । उर्ध्वकर्णपल्लवा यासा तास्तासाम् । किं कृत्वा । स्थित्वा स्थित्वा पूर्वोक्तं कलकलं समाकर्ण्य श्रुत्वा । अन्विति । अनुगताः पश्चाल्लग्नाः कलभा यासा तास्तथा तासां वियोगिनीनां विप्रलम्भयुक्तानाम् । निहतेति । निहता व्यापादिता यूथपतयो यासा तास्तथा तासाम् । पुनः केन । आक्रन्दितेन रुदितेन । कासाम् । खङ्गिधेनुकानां गण्डकस्त्रीणाम् । किं कुर्वतीनाम् । उन्मुक्तकण्ठ यथा स्यात्तथातिकरुणशब्दमारसन्तीनामारटन्तीनाम् । पुनः कीदृशीनाम् । त्रासेति । त्रासेन भयेन परिभ्रष्टो नष्टो यः पोतकः स्तनधयस्तदन्वेषिणीनां ताद्विलोकनशीलानाम् । कतिपयेति । कतिपये कियन्तो ये दिवसा वासरास्तत्र प्रसूतं याभिस्तासाम् । पुनः केन । पत्रेति । पत्ररथानां पक्षिणां कोलाहलेन कलकलशब्देन । पक्षिणो विशेषयन्नाह - तर्विति ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- - - - - टिप्प० -1 चञ्चला इत्यर्थः ।
पाठा० - १ अभिददतः. २ मृगयाप्रसक्तस्य. ३ इव. ४ ध्वान. ५ प्रतिनिनाद. ६ गभीरेण. ७ शरताडितानाम्. ८ गर्जितेन. ९ आलोलकातरतरलतर; विलोलकातरतरलतर. १० कलभकानाम्. ११ पोतान्वेषिणीनाम्. १२ कण्ठकरुण; कण्ठं करुण, कण्ठमतिकरुण.
(मृगयाकोलाहलः
। पूर्वभागः ।