________________
वनगजकुलम्, इतो वनवराहयूथम्, इतो वनमहिषवृन्दम्, इतः शिखण्डिमण्डलविरुतम्, इतः कपिञ्जलकुलकलकूजितम्, इतः कुररकुलक्वणितम, इतो मृगपतितनखभिद्यमानकुम्भकुज्जरसितम्, इयमार्द्रपङ्कमलिना वराहपद्धतिः, इयमभिनवशष्पकवलरसश्यामला हरिणरोमन्थफेनसंहतिः, इयमुन्मदगन्धगजगण्डकण्डूयनपरिमलनिलीनमुखमधुकरविरुतिः, एषा निपतितरुधिरबिन्दुसिक्तशुष्कपत्रपाटला रुरुपदवी, एतातिरदचरणमृदितविटपपल्लवपटलम्, एतत्खङ्गिकुलक्रीडितम, एष नखकोटिविकटविलिखितपत्रलेखो रुधिरपाटलः करिमौक्तिकदलदन्तुरोमृगपतिमार्गः, एषा प्रत्यग्रप्रसूतवनमृगीगर्भरुधिरलोहिनी भूमिः, इयमटवी वेणिकानुकारिणी पक्षचरस्य यूथपतेर्मदजलमलिना, संचारवीथीचमरीपङ्क्तिरियमनुगम्यताम्, उच्छुष्कमृगकरीषपांसुला त्वरिततरमध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम्, आलो -
*********** वनवराहा वनक्रोडास्तेषां यूथं वृन्दम् । इत इति । वनमहिषाणां वृन्दं कुलम् । इत इति । शिखण्डिनां मयूराणां मण्डलं समूहस्तस्य विरुतं कूजितम् । इत इति । कपिञ्जलानां गौरितित्तिराणां कुलं समुदायस्तस्य कलं मधुरं कूजितं शब्दितम् । इत इति । कुकरो मत्स्यनाशनस्तस्य कुलं पुत्रपौत्रादि तस्य क्वणितं शब्दितम् । इत इति । मृगपतिः सिंहस्तस्य नखाः पुनर्भवास्तैर्भिद्यमानो विदार्यमाणः कुम्भः शिरःपिण्डो येषामेवंभूताः कुञ्जरा हस्तिनस्तेषां रसितमाक्रन्दितम् । इयमिति । इयं प्रत्यक्षार्दोऽशुष्को यः पङ्कः कर्दमस्तेन मलिना मलीमसा वराहपद्धतिर्वनक्रोडमार्गः । इयमिति । इयमिति पूर्ववत् । अभिनवान्यचिरोत्पन्नानि यानि शष्पाणि बालतृणानि तेषां कवलो गुडस्तस्य रसस्तेन श्यामला मलिनैवंविधा हरिणानां मृगाणां यो रोमन्थश्चर्वितचर्वणं तस्य फेनः कफस्तस्य संहतिः समूहः । इयमिति । उन्मदा मदोन्मत्ता ये गन्धगजी गन्धेभाः । सुरभिमदयुक्ता इत्यर्थः । तेषां गण्डः करंटस्तस्य कण्डूयनेन कण्डूत्या यः परिमल आमोदस्तस्मिन्निलीना आसक्ता मुखरा वाचाला ये मधुकरा भ्रमरास्तेषां विरुतिङ्किारः । एषा दृश्यमानेत्यर्थः । निपतितेति । निपतिता भूमी स्वस्ता ये रुधिरबिन्दवो रक्तपृषतास्तैः सिक्तानि सिञ्चितानि यानि शुष्कपत्राणि तैः पाटला श्वेतरक्ता रुरुपदवी मृगविशेषमार्गः । एतदिति । एतत्समीपतरवर्ति द्विरदा हस्तिनस्तेषां चरणाः पादास्तैर्मुदितं मर्दितं टिपानां वृक्षाणां पल्लवपटलं किसलयसमूहो यस्मिनेतादृशं स्थलमित्यर्थः । एतदिति । एतदृश्यमानं खड्रिगनां वासॊणसानां कुलं पौत्रादि तस्य क्रीडीत चेष्टितम् । एष इति । एष प्रत्यक्षोपलक्ष्यमाणो मृगपतिमार्गोनखरायुधपन्थाः । कीदृक् । नखकोटिभिर्नखरागैर्विकटा विपुला विलिखिता निर्भिन्ना पत्रलेखा पर्णपङ्क्तिर्यस्मिन्स तथा, रुधिरैः रक्तैः पाटलः श्वेतरक्तः करिणां गजानां मौक्तिकानि मुक्ताफलानि तेषां दलानि खण्डानि तेन दन्तुरः स्थपुटः । एषेति । प्रत्यग्रप्रसूता नवप्रसविनी या वनमृग्यरण्यहरिणी तस्या गर्भो भ्रूणस्तस्य रुधिरं रक्तं तेन लोहिनी रक्तैषा भूमिः पृथ्वी । इयमिति । इयमटव्यरण्यभूमिर्वेणिकामलकपङ्क्तिमनुकरोतीत्येवंशीला सा तथा । कीदृशी । पक्षचरस्य समुदायचारिणो यूथपतेयूंथनाथस्य मदजलेन दानवारिणा मलिना श्यामा । अनेन वेण्या साम्यमरण्यस्य सूचितम् । संचारेति । संचारवीथ्यां गोचरमार्गे चमर्या गोविशेषस्य पङ्क्तिः परंपरा सा अनुगम्यतामनुव्रज्यताम् । युष्माभिरिति शेषः । उच्छुष्केति । इयं वनस्थली त्वरिततरं वेगवत्तरमध्यास्यतामधिश्रियताम् । कीदृशी । उत्प्राबल्येन शुष्कं वानं यन्मृगकरीषं हरिणच्छगणं तेन पांसुला निन्दिता । तविति । तरुशिखरं वृक्षाग्रमारुह्यतामारोहविषयीक्रियताम् । इयमभिमुखा दिगालोक्यतामालोकविषयीक्रियताम् । अयं शब्द आकर्ण्यतां श्रूयताम् । धनुश्चापो गृह्यतां स्वीक्रियताम् । अवहितैः साव - टिप्प०-1 समुदाय इत्यप्युचितम् । 2 येषां गन्धेन अनेय गजाः प्रद्रवन्ति । 3 स्त्रवद्रुधिरैर्नखैर्विलिखिताः चित्रिताः पत्रलेखाः पत्राकारचिह्नानि यस्मिन् स इत्यर्थः । 4 उच्चावचः । पाठा० - १ वराहयूवम्. २ वराहकुलपद्धतिः. ३ आलीन. ४ शिखण्डिकुल. ५ कोटिविलिखितविकटपत्रः. मौक्तिकदन्तुरः. ७ अनुसारिणी. ८ एकचरस्य; समीपचरस्य.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
(60
कादम्बरी ।
कथामुखे