________________
वने संत्रासितसकलवनचरः सरभससमुत्पतत्पतत्रिपक्षपुटशब्दसंततः भीतकरिपोतचीत्कारपीवरः प्रचलितलताकुलमत्तालिकुलक्वणितमांसलः परिभ्रमदुरोणवनवराहरवघर्घरो गिरिगुहासुप्तप्रबुद्धसिंहनिनादोपबृंहितः कम्पयन्निव तरून्भगीरथावतार्यमाणगङ्गाप्रवाहकलकलबहलो भीतवनदेवताकर्णितो मृगयाकोलाहलध्वनिरुदचरत् । आकर्ण्य च तमहमश्रुतपूर्वमुपजातवेपथुरर्भकतया जर्जरितकर्णविवरो भयविह्वलः समीपवर्तिनः पितुः प्रतीकारबुद्ध्या जराशिथिलपक्षपुटान्तरमविशम् ।
अनन्तरं च सरभसमितो गजयूथपतिलुलितकमलिनीपरिमलः, इतः क्रोडकुलदश्यमानभद्रमुस्तारसामोदः, इतः, करिकलभभज्यमानसल्लकीकषायगन्धः, इतो निपतितशुष्कपत्रमर्मरध्वनिः, इतो वनमहिषविषाणकोटिकुलिशभिद्यमानवल्मीकघूलिः, इतो मृगकदम्बकम्, इतो -
***********
अथ ध्वनि विशेषयन्नाह - संत्रासितेति । संत्रासिता भयं प्रापिताः सकलवनचराः समग्रारण्यचारिणो येन स तथा । सरभसेति । सरभसेन वेगेन समुत्पतन्तो ये पतत्रिणः पक्षिणस्तेषां पक्षपुटानि छदपुटानि तेषां शब्दो निनादस्तेन सम्यक्प्रकारेण ततो विस्तीर्णः । भीतेति । भीतास्त्रस्ता ये करिपोताः कलभास्तेषां चीत्काराः शब्दविशेषास्तैः पीवरः पुष्टः । प्रचलितेति । प्रचलिताः कम्पिता या लता वल्लयस्तास्वाकुला व्याकुला ये मत्तालयो मत्तभ्रमरास्तेषां कुलानि तेषां क्वणितेन शब्दितेन मांसलः पुष्टः । परीति । परिभ्रमन्त इतस्ततः संचरन्त उद्घोणा उच्चनासा ये वनवराहा अरण्यशूकरास्तेषां रवः शब्दस्तेन घर्घरः कठोरः । गिरीति । गिरिगुहासु शैलकन्दरासु पूर्वं सुप्ता पश्चाप्रबुद्धा उत्थिता ये सिंहाः केसरिणस्तेषां यो निनादः शब्दस्तेनोपबृंहितो वृद्धि प्राप्तः । पुनः किं कुर्वन्निव । तरून्वृक्षान्कम्पयन्निव चालयन्निव । भगीति । भगीरथेन राज्ञावतार्यमाणोऽधस्तादानीयमानो यो गङ्गाप्रवाहः स्वधुनीस्त्रोतस्तस्य यः कलकलस्तद्वद्बहलः प्रभूतः । भीतेति । भीता भयं प्राप्ता या वनदेवतास्ताभिराकर्णितः श्रवणविषयीकृतः । आकर्ण्य चेति । अहमश्रुतपूर्वं तं शब्दमाकर्ण्य श्रुत्वा प्रतीकारबुद्ध्या भयनिवृत्त्युपायधिया समीपवर्तिनो निकटस्तस्य पितुर्जनकस्य जरया विससया यच्छिथिलं श्लथं पक्षपुट तस्यान्तरं मध्ममविशं प्रविष्टोऽभवम् । कीदृशोऽहम् । उपेति । उपजातवेपथुः संजातकम्पोऽर्भकतया बालतया तादृशशब्दश्रवणादेव जर्जरितं प्रतिरुद्धं कर्णयोः श्रवणयोर्विवरं छिंद्र यस्य स तथा ।
अनन्तरं चेति । पितुः पक्षपुटान्तरप्रवेशानन्तरम् । चकारः पूर्वसमुच्चये । कोलाहलमश्रृणवमित्यग्रेतनेन संबन्धः । तदेव दर्शयति - सरभसमित्यादि । इतोऽस्मिन्प्रदेशे सरभसं वेगवत्तरं गजयूथपतिना लुलिता मर्दिता या कमलिनी नलिनी तस्याः परिमल आमोदः । इत इति पूर्ववत् । क्रोडकुलैररण्यशूकरसमुदायैर्दश्यमाना भक्ष्यमाणा या भद्रमुस्ता गुन्द्रास्तासां रसो द्रवस्तस्यामोदः परिमलः । इत इति प्राग्वत् । करिणां कलभास्त्रिंशदब्दकास्तैर्भज्यमाना आमद्यमाना याः सल्लक्यो गजप्रियास्तासां कषायः तुवरो गन्धः । इत इति प्राग्वत् । इतःप्रदेशे निपतितानि प्रर्यस्तानि यानि शुष्कपत्राणि तेषां मर्मरध्वनिमर्मर इति शब्दः । 'मर्मरो वस्त्रपत्रादेः' इति कोशः । इत इति । वनमहिषा गवलास्तेषां विषाणानि श्रृङ्गाणि तेषां कोटिरग्रं तदेव कुलिशं वज्रम् । अमेयत्वात्तदुपमानम् । तेन भिद्यमानं छिद्यमानं यद्वल्मीकं शक्रशिरस्तस्य घूलिः पांसुः । इत इति । मृगाणां हरिणानां कदम्बं समुदायः । इत इति । वनगजानामरण्यहस्तिनां कुलं समुदायः । इत इति । टिप्प० - 1 सरभसं भयवशात्सवेगम् उत्पतन्त इत्युचितम् । 2 सादिगतः, कीटराशीकृतमृत्तिकास्तूपो वा ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ सततम्. २ प्रचलितलताकुलित; प्रचलितमत्तालिकुल. ३ वराहधर्घरकठोरः. ४ नाद. ५ आवार्यमाण. ६ आकर्ण्य तम्. ७ जरातिशिथिल.
शबरमृगया
पूर्वभागः ।
59