________________
वनगजकर्णतालशब्दे, क्रमेण च गगनतलमवतरतो दिवसकरवारणस्यावर्चुलचामरकलाप इवोपलक्ष्यमाणे मञ्जिष्ठारागलोहिते किरणजाले, शनैःशनैरुदिते भगवति सवितरि, पम्पासरःपर्यन्ततरुशिखरसंचौरिण्यध्यासितगिरिशिखरे दिवसकरजन्मनि हृततारे पुनरिव कपीश्वरे वनमभिपतति बालातपे, स्पष्टे जाते प्रत्यूषसि, न चिरादिव दिवसाष्टमभागभाजि स्पष्टभासि भास्वति भूते, प्रयातेषु चे यथाभिमतानि दिगन्तराणि शुककुलेषु, कुलायनीलिननिभृतशुकशावकसनाथेऽपि निःशब्दतया शून्य इव तस्मिन्वनस्पती, स्वनीडावस्थित एव ताते, मयि च शैशवादसंजातबलसमुद्भिद्यमानपक्षपुटे पितुः समीपवर्तिनि कोटरगते, सहसैव तस्मिन्महा -
***********
क्रमणेति । क्रमेण परिपाट्य गगनतलमाकाशमार्गमवतरतोऽधिरोहतो दिवसकरवारणस्य सूर्यगजस्य । अवचूलेति । अवचूलोऽधोमुखकूर्चको यश्चामरकलापस्तस्मिन्निवोपलक्ष्यमाणे दृश्यमाने मज्जिष्ठस्य वस्तुविशेषस्य रागो रक्तिमा तेन लोहिते रक्तीभूते किरणजाले रश्मिसमूहे सति शनैःशनैर्नातिशीधं भगवति माहात्म्यवति सवितारि श्रीसूर्य उदिते उदयं प्राप्ते सति । कीदृशे । पम्पेति । पम्पासरःपर्यन्तानि यानि तरुशिखराणि तेषु संचारो विद्यते यस्य स तथा तस्मिन् । अध्येति । अध्यासितान्याश्रितानि गिरिशिखराणि पर्वतश्रृङ्गानि येन स तस्मिन् । अथ बालातपं विशेषयन्नाह - दिवसेति । दिवसकरात्सूर्याज्जन्म यस्य स तथा तस्मिन् । हृता दूरीकृता तारा येन स तथा तस्मिन् । पुनस्तदनन्तरं कपीश्वरे सुग्रीव इव । तरुशिखरचारित्वात्तद्धृततारत्वाच्च तदुपमानम् । तं वृक्षं पूर्वोक्तमभिपतति व्याप्नुवति बालातपे नवीनालोके सति । तथा प्रत्यूषसि प्रभाते स्पष्टे व्यक्ते जाते सति न चिरादिव स्तोककालेनेव दिवसस्याष्टमो भागश्चतुर्घटिकात्मकस्तं भजतीति भाक् । ण्विप्रत्ययान्तः । तस्मिन्स्पष्टा भा कान्तिर्यस्य स तथा तस्मिन्भास्वति श्रीसूर्ये भूते जाते सति । पुनः केषु । शुककुलेषु कीरव्रजेषु यथाभिमतानि यथेप्सितानि दिगन्तराणि दिग्विभागान् प्रयातेषु गतेषु सत्सु । कुलायेति । कुलाया नीडानि तेषु निलीनाः सुप्ता निभृतमत्यन्तं शुकशावकाः कीरशिशवस्तैः सनाथेऽपि संयुक्तेऽपि बालकानामेकाकित्वेन भयवशानिःशब्दतया तस्मिन्वनस्पतौ शाल्मलीवृक्षे शून्य इव सति । खेति । खस्य नीडंकुलायस्तत्रावस्थित एव ताते पितरि मयि चेति । चः पुनरर्थे । मयि पितुर्जनकस्य समीपवर्तिनि निकटवर्तिनि सति । अथ शिशुं विशेषयन्नाह - कोटरेति । कोटरगते निष्कुहस्थिते । शैशवादिति । शैशवाबाल्यादैसंजातमनुत्पन्नं यद्धलं तेन समुद्भिद्यमानं विलीयमानं पक्षपुटं यस्य स तथा तस्मिन् । विधेयमाह - सहसैवेति । तस्मिन्पूर्वोक्ते महावने सहसैवाकस्मादेव मृगयाखेटकस्तस्याः कोलाहलध्वनिः कलकललक्षणः शब्द उदचरदुदतिष्ठत् ।।
- - - - - - - - - - - - - टिप्प० - 1 मजिष्ठेत्युचितमेव 'मज्जिष्ठा विकसा जिङ्गी'त्यमरः । 'मँजीठ' इति भाषा । 2 न केवलं विशेषणद्वयमेव बालातप-सुग्रीवयोरन्वितम्, अपि तु सर्वाण्येव । सुग्रीवोपि अध्यासितं गिरि (ऋष्यमूक) शिखरं येन तादृक् । वालिभयाच्च अग्रे न गत्वा पम्पासरःपर्यन्ततरुशिखरेषु संचारी । सूर्यात् जन्म
स्मिन्निति उभयत्र समानम् । हृताः लोपिताः ताराः नक्षत्राणि येन (बालातपे), हृता तन्नाम्नी वानरी येन इति सुग्रीवे । सुग्रीवे इव बालातपे पुनः वनमभिपतति सतीति योजना । 3 शैशवात् असंजातबले, समुद्भिद्यमानम् क्रमशः उत्पद्यमानं पक्षपुटं पतत्त्रयुगलं यस्य एतादृशे, मयि पितुः समीपवर्तिनि कोटरगते सतीत्यर्थः । उद्भिद्यमानं विलीयमानम्, असंजातं यद् बलमित्युक्तिभ्रंमः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ गगनतलमार्गः; गगनमार्ग. २ अवधृत. ३ संचारिणां. ४ अष्टभाग. ५ तेषु. ६ कुलायनिभृतशावक. ७ असंजातबले. ८ तातस्य समीप; तातसमीप.
कादम्बरी।
कथामुखे