________________
दजलंकणापहारिणि वनमहिषरोमन्थफेनबिन्दुवाहिनि चलितपल्लवलतालास्योपदेशव्यसनिनि विघटमानकमलखण्डमधुसीकरासारवर्षिणि कुसुमामोदतर्पितालिजाले निशावसानजातजडिम्नि मन्दमन्दसंचारिणि प्रवाति प्राभातिके मातरिश्वनि, कमलवनप्रबोधमङ्गलपाठकानामिभगण्डडिण्डिमानां मधुलिहां कुमुदोदरेषु घटमानदलपुटनिरुद्धपक्षसंहतीनामुच्चरत्सु हुंकारेषु प्रभातशिशिरवाय्याहँतमुत्तप्तजतुरसाश्लिष्टपक्ष्ममालमिव सशेषनिद्राजिातारं चक्षुरुन्मीलयत्सु शनैःशनैरूषरशय्याधूसरक्रोडरोमराजिषु वनमृगेषु, इतस्ततः संचरत्सु वनचरेषु, विजृम्भमाणे श्रोत्रहारिणि पम्पासरः कलहंसकोलाहले, समुल्लसति नर्तितशिर्खण्डिनि मनोहरे -
***********
वनेति । वनमहिषाः सैरिभास्तेषां रोमन्थश्चर्वितचर्वणं तस्य फेनः कफस्तस्य बिन्दवः पृषन्ति तान्वहतीत्येवंशीलः स तस्मिन् । चलितेति । चलिताः कम्पिताः पल्लवाः किसलयानि यासामेवंविधा या लता वल्लय स्तासां लास्यं नृत्यं तस्योपदेशः शिक्षणं तस्य व्यसनं विद्यते यस्य स तस्मिन् । विघटेति । विघटमानानि विकाशं प्राप्यमाणानि यानि कमलखण्डानि नलिनवनानि तेषां मधु रसस्तस्य सीकरा वाताक्षिप्तकणास्तेषामासारो वेगवान्वर्षो विद्यते यस्मिन्स तथा तस्मिन् । कुसुमामोदेति । कुसुमानामामोदः परागस्तेन तर्पितं प्रीणितमलिजालं भ्रमरसमूहो येन स तस्मिन् । निशेति । निशाया रात्रेर्यदवसानं प्रान्तस्तेन जाता जडिमा जडत्वं यस्मिन्स तथा तस्मिन् । अत एव मन्दं मन्दं संचरत इत्येवंशीलः स तथा तस्मिन् । पुनः केषु । कुमुदोदरेषु कैरवान्तरेषु मधुलिहां हुंकारेष्वव्यक्तशब्देषूच्चरत्सु सत्सु । इतो मधुलिहो विशेषयन्नाह - कमलेति । कमलवनानां प्रबोधपाठका मङ्गलपाठकास्तेषाम् । तथेभगण्ड एव हस्तिकरट एव डिण्डिमः पटहो येषां ते तथा तेषां मधुलिहां भ्रमराणां विघटमानानि संकोचं प्राप्यमाणानि यानि दलानि पत्राणि तेषां पुटानि कोशानि तेषु निरुद्धावरुद्धा पक्षसंहतिश्छदसमूहो येषां ते तथा तेषाम् । पुनः केषु सत्सु । वनमृगेति । वनमृगेष्वरण्यहरिणेषु शनैः शनैश्चक्षुर्नेत्रमुन्मीलयत्सु विकासयत्सु । अथ चक्षुर्विशेषयन्नाह - प्रभातेति । प्रभातं प्रत्यूषस्तस्य यः शिशिरः शीलो वायुः समीरस्तेनाहतं पीडितम् । उत्तप्तेति । उत्तप्त उष्णीकृतो यो जतुरसो लाक्षारसस्तेनाश्लिष्टालिङ्गिता पक्ष्ममाला नेत्ररोमपङ्क्तिर्यस्य तदिव । सशेषेति । सशेषोर्वरिता या निद्रा तया जिहा कुटिला तारा कनीनिका यस्य तत् । कीदृशेषु वनमृगेषु । ऊषरेति । ऊषरा तृणरहिता या शय्या शयनस्थल तेन धूसरा धूम्रवर्णा क्रोडरोमराजिहृदयलोमपङ्क्तिर्येषां तेषु । पुनः कीदृशेषु । इतस्ततः समन्ततो वनचरेष्वरण्यचारिषु संचरत्सु गच्छत्सु । पुनः केषु सत्सु । विजृम्भेति । श्रोत्रहारिणि कर्ममनोहरे पम्पानाम्नः सरसः कलहंसकोलाहले कादम्बकलकले विजृम्भमाणे प्रसृते सति । पुनः केषु सत्सु । समुल्लसतीति । नर्तिताः शिखण्डिनो मयूरा येन तस्मिन्मनोहरे रुचिरे वनगजानामरण्यकरिणां कर्णा एव ताला वाद्य विशेषास्तेषां शब्दो ध्वनिस्तस्मिन्समुल्लसति सति सम्यक्प्रकारेण प्रसरति सति ।
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 इभगण्डेषु डिण्डिमानाम्, डिण्डिमैर्यथा राजीदीनामागमनादेः सगौरवं घोषणा क्रियते, तथा भ्रमरगुञ्जनेन गजराजानामागमन-जागरादेः सूचना दीयत इति डिण्डिमत्वम् (रूपकम्) । न भ्रमरास्तं वादयन्ति येन इभगण्डस्य डिण्डिमत्वं स्यात् । 2 घटमानैः सूर्योदयारम्भात् संकुचद्भिः दलपुटैः निरुद्धा पक्षसंहतिर्येषाम् इत्येवार्थः । विघटनं हि विश्लेषो न संकोचः । 3 कर्णतालशब्द मेघध्वनि ज्ञात्वा हर्षेण ते नृत्यन्तीति भ्रान्तिमान् ।
पाठा० - १ खेदजलकणिका; स्वेदकणिका. २ कमलप्रबोध. ३ मधुलिहां पटलेषु. ४ विघटमान; घनघटमान. ५ निबद्ध. ६ झङ्कारेषु; टङ्कारेषु. ७ मारुताहत. ८ पक्ष्मजालम्. ९ जिहिाततारम्; जिहिाततारम्; जिहिाततारकम्. १० राजिषु च. ११ कलहंसकुल. १२ शिखण्डिमण्डले.
प्रभातवर्णनम्
पूर्वभागः ।