________________
कुसुमप्रकरे तारागणे, संध्यामुपासितुमुत्तराशावलम्बिनि मानससरस्तीरमिवोवतरति सप्तर्षिमण्डले, तटगतविघट्टितशुक्तिसंपुटविप्रकीर्णमरुणकरप्रेरणाधोगलितमुडुगणमिव मुक्ताफलनिकरमुबहति धवलितपुर्लिंतदन्वति पूर्वेतरे, तुषारबिन्दुवर्षिणि विबुद्धशिखिकुले विजृम्भमाणकेसरिणि करिणी कदम्बकप्रबोध्यमानसमदकरिणि क्षपाजलजडकेसरं कुसुमनिकरमुदयगिरिशिखरस्थितं सवितारमिवोद्दिश्य पल्लवाञ्जलिभिः समुत्सृजति कानने, रासभरोमधूसरासु वनदेवताप्रसादानां तरूणां शिखरेषु पारावतमालायमानासु धर्मपताकास्विव समुन्मिषन्तीषु तपोवनाग्निहोत्रधूमलेखासु, अवश्यायसीकरिणि लुलितकमलवने रतखिन्नशबरसीमन्तिनीस्वे -
***********
कस्मिन्सति । तटेति । तटगतानि तीरप्राप्तानि विघट्टितानि स्फुटितानि यानि शुक्तिसंपुटान्यब्यिमण्डूकीपुटानि तेभ्यो विप्रकीर्णं पर्यस्तम् । कीदृशमिव । अरुणस्य सूर्यस्य ये कराः किरणास्तेषां प्रेरणा नोदना तस्मादधो गलितमधः पतितं उडुगणमिव । धवलितं शुभ्रीकृतं पुलिनं जलोज्ाितं तटं येनैवंभूतं मुक्ताफलानां निकरं समूहमुदहति धारयत्युदन्चति समुद्रे सति । पूर्व इतरो यस्मादिति बहुव्रीहिः । तस्मान्न सर्वादित्वम् । पश्चिमसमुद्रे सतीत्यर्थः । यद्वा पूर्वस्मानीचः पूर्वेतरः । 'इत्यरस्त्वन्यनीचयोः' इत्यमरः । तस्मिन् । अतो नीचार्थवाचित्वान्न सर्वादित्वम् । पुनः कस्मिन्सति । कानने सति । अथ काननं विशेषयन्नाह - तुषारेति । तुषारस्य तुहिनस्य बिन्दूनां पृषतां वर्षो यस्मिस्तत्तथा तस्मिन् । विबुद्धेति । विबुद्धं शिखिकुलं मयूरकुलं यस्मिंस्तत्तथा विजृम्भमाणा जृम्भायुक्ताः केसरिणः सिंहा यस्मिंस्तत्तथा । करिणीति । करिणीनां हस्तिनीनां कदम्बकं समूहस्तेन प्रबोध्यमाना जागरावस्थां प्राप्यमाणाः समदा मदेन सह वर्तमानाः करिणो हस्तिनो यस्मिन् । क्षपेति । क्षपाजलेन रात्रिसंबन्धितुषारेण जडानि स्तम्भितानि केसराणि किञ्जल्कानि यस्यैतादृशं कुसुमनिकरं पुष्पसमूहम् । उदयेति । उदयगिरिरुदयाद्रिस्तस्य शिखरं श्रृङ्गं तत्र स्थितं सवितारं श्रीसूर्यमिवोद्दिश्याश्रित्य । पल्लवेति । पल्लवा एव किसलयान्येवाञ्जलयस्तैः समुत्सृजति प्रयच्छति सति । पुनः कासु सत्सु । रासभेति । रासभस्य बालेयस्य रोमाणि तनूरुहाणि तद्वद्धूसरासु धूम्रवर्णासु । वनेति । वनदेवताः काननाधिष्ठात्र्यस्तासां प्रसादाश्चैत्यानि तेषां तरूणां च शिखरेषु प्रान्तेषु पारावतानां कपोतानां माला श्रेणिस्तद्वदाचन्तीति ण्यन्तत्वाच्छानच् । तासु । धर्मेति । धर्मे यज्ञादौ पताका वैजयन्त्यस्तास्विव समुन्मिषन्तीषु समुत्सर्पन्तीषु । तप इति । तपोधने यदग्निहोत्रमग्न्याधानं तस्य धूमलेखा धूमस्तोमपङ्क्तयस्तासु । पुनः कस्मिन्सति । प्राभातिकेति । प्राभातिके प्रत्यूषसंबन्धिनि मातरिश्वनि वायौ । 'मातरिश्वा जगत्प्राण पृषदश्वो महाबलः' इति कोशः । प्रवाति प्रवहमाने सति । कीदृशे । अवेति । अवश्यायो हिमं तस्य सीकरा यस्मिन् । 'वातास्तं वारि सीकरः इति कोशः । वायुं विशेषयन्नाह-लुलितेति । लुलितं कम्पितं कमलाना नलिनानां वनं खण्डं येन स तस्मिन् । रतेति । रतं मैथुनं तत्र खिन्नाः खेदं प्राप्ता याः शबरसीमन्तिन्यो भिल्लवध्वस्तासां यत्स्वेदजलं प्रस्वेदवारि तस्य कणा बिन्दवस्तेषामपहारिणि हरणशीले । टिप्प० - 1 वनदेवतानां कृते ये प्रसादाः (इव) विहारहाणि तेषां तपोवनतरूणां शिखरेषु पारावतमालायमानासु (राजप्रसादानामुपरि पोता विश्राम्यन्तीति प्रसिद्धम् । एवमेव वनदेवताप्रासादेषु वृक्षेषु अग्निहोत्रधूमलेखास्तथा प्रतीयन्ते यथा कपोतमाला एव स्थिताः स्युरित्याशयः, (क्यङ्गता लुप्तोपमा)) धर्मपताकास्विव रासभरोमधूसरासु तपोवनाग्निधूमलेखासु समुन्मिषन्तीषु सतीष्विति योजना ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० . १ मानससरसः. २ अम्बराववतरति. ३ विघटित. ४ पुलिनतटम्; पुलिनतलम्. ५ मानमवकरिणि स्पष्टे च जाते प्रभाते. ६ स्थित. ७ उत्सृजति. ८ धूसरासु वनराजिषु. ९ पताकासु. १० रति. ११ स्विन्न.
(56
कादम्बरी ।
। कथामुखे