________________
ना चञ्चुपुटेन परनीडेपतिताभ्यः शालिवल्लरीभ्यस्तण्डुलकणानादायादाय वृक्षमूलनिपतितानि च शुककुलावदलितानि फलशकलानि समाहृत्य परिभ्रामितुमशक्तो मैह्यमदात् । प्रतिदिवसमात्मना च मैदुपभुक्तशेषमकरोदशनम् ।
एकदा तु प्रभातसंध्यारागलोहिते गगनतले, कमलिनीमधुरक्तपक्षपुटे वृद्धहंस इव मन्दाकिनीपुलिनादपरजलनिधितटमवतरति चन्द्रमसि, परिणतरङ्कुरोमपाण्डुनि व्रजति विशालतामाशाचक्रवाले, गजरुधिररक्तहरिसटालोमलोहिनीभिः प्रतप्तलाक्षिकतन्तुपाटलाभिरायामिनीभिरंशिशिरकिरणदीधितिभिः पद्मरागशैलाकासंमार्जनीभिरिव समुत्सार्यमाणे
गगनकुट्टिम -
***********
दलनं विदारणं तेन मसृणिता संजातचिक्कणता त एव क्षीणा घृष्टोपान्त्यलेखा प्रान्तसमीपवर्तिनी राजिर्यस्यैवंभूतेन चञ्चुपुटेन त्रोटीसंपुटेन श्रमवशात्स्फुटिता स्फोट प्राप्ता अग्रकोटिरग्रिमतीक्ष्णतरभागो यस्य स तेन । परेति । अशक्तिवशात्परेषां नीडानि तेभ्यः पतिताः संस्ता याः शालिवल्लर्यस्ताभ्यस्तण्डुलकणानादायादाय गृहीत्वा गृहीत्वा । वृक्षेति । वृक्षमूलनिपतितानि शुकानां कुलानि तैरवदलितानि खण्डितानि फलशकलानि तानि समाहृत्य एकीकृत्य परिभ्रमितुमशक्तो दूरे परिभ्रमणाशक्तो मह्यमदाद्ददौ । धुसंज्ञकदाधातोर्लुङि रूपम् । एवं प्रतिदिवसं प्रत्यहमनेन प्रकारेणानीतं भक्ष्यं मह्यं दत्त्वा मयोपभुक्तं ततः शेषमुद्धरितमात्मनाशनमकरोत् । ध्यप्रत्ययानुशासनवशाच्चतुर्थ्यर्थे तृतीया ।
एकदा त्विति । एकदैकस्मिन्समये कोलाहलम श्रृणवमिति दूरेणान्वयः । प्रभेति । प्रभातस्य प्रातः कालस्य या संध्या तत्संबन्धी यो रागस्तेन लोहिते रक्ते । गगनेति । गगनतलमेव कर्मलिनी वियद्गङ्गा, कमलिनी वा । तस्या मधु रसस्तेनानुरक्तं पक्षपुटं छदसंपुट यस्य तस्मिन्वृद्धहंस इव जरत्कलहंस इव मन्दाकिनी गङ्गा तस्याः पुलिनं सैकतं तस्माच्चन्द्रमसि निशानाथेऽपरो यो जलनिधिः पश्चिमसमुद्रस्तस्य तटं तीरं प्रत्यवतरत्युत्तीर्णे सति । परीति । परिणतः पक्वो यो रङ्कुर्मृगविशेषस्तस्य रोमाणि तनूरुहाणि तद्वत्पाण्डुनि शुभ्रे विशालतां विस्तीर्णतामाशाचक्रवाले दिक्समूहे व्रजति गच्छति सति । गजेति । गजानां - हस्तिनां यद्रुधिरं तेन रक्ताः शोणिता या हरिसटाः सिंहस्कन्धकेसरास्तत्संबन्धि यल्लोम तद्वत् लोहिनीभिः आरक्ताभिः प्रतप्ता ये लाक्षिका जतुविकारोद्भवास्तन्तवस्तद्वत्पाटलाभिः श्वेतरक्ताभिरायामिनीभिर्विस्तारवतीभिरशिशिरा उष्णाः किरणा यस्यैवंभूतः सूर्यस्तस्य दीधितिभिर्दीप्तिभिः । काभिरिव । पद्मरागा लोहितकमणयस्तेषां शलाका इषीकास्तासां संमार्जनीभिरिव बहुकरीभिरिव समुत्सार्यमाणे दूरीक्रियमाणे गगनमेव कुट्टिमं बहिर्द्वारं तत्र य कुसुमप्रकरः पुष्पसमूहस्तस्मिन्निव तारागणे नक्षत्रसमूहे । उत्तरेति । उत्तराशोदीची दिक्तामवलम्बत इत्येवंशीलः स तथा तस्मिन्सप्तर्षिमण्डले सप्तर्षिसमुदाये मानससरस्तीरं प्रति संध्यामुपासितुमिव सायंतनविधिं कर्तुमिवावतरति सति । अत्र रूपकम् । अत्र सतीति प्रत्येकमन्वये योजनीयम् । पुनः
टिप्प० - 1 गगने प्रभातसन्ध्यालोहिते सतीति पृथगन्वयः । कमलिन्या अरुणवर्णेन मकरन्दरसेन रक्तपक्षसंपुटो वृद्धहंसो यथा मन्दाकिनी (वियद्गङ्गा) पुलिनात् अपरजलनिधितटमवतीर्णो भवेत्तथा प्रभातसन्ध्यालोहिते चन्द्रमसि अपरजलधितटमवतरति सतीति योजना । पदव्याख्या उपरि दृश्या । उपमालंकारः । 2 कुट्टिमं निबद्धा भूः, भूमितलमित्यर्थः ।
पाठा० - १ निपतिताभ्यः. २ तरु. ३ मह्यमाहारमदात्. ४ मदुपयुक्तम्. ५ गगनतलगगने च; गगनकमलिनी. ६ मध्यनुरक्त. ७ पक्षसंपुटे. ८ आतप्तलाक्षिक; संतप्तलाक्ष; अनन्तलाक्षा ९ आगामिनीभिः १० रत्नशलाका. ११ संमार्जिनीभिः.
(शुकोत्पत्तिः
पूर्वभागः ।
55