________________
सर्वस्नेहेनासाधारणेन गुरुणापत्यप्रेम्णा तस्मिन्नेव क्रोडान्तर्निहिततनयाः क्षेपाः क्षपयन्ति स्म ।
एकस्मिंश्च जीर्णकोटरे जायया सह निवसतः पश्चिमे वयसि वर्तमानस्य कथमपि पितुरहमको विधिवशात्सूनुरभवम् । अतिबलया चाभिभूता ममैव जायमानस्य प्रसववेदनया जननी मे परैलोकमगमत् । अभिमतजायाविनाशशोकँदुःखितोऽपि खलु तातः सुतस्नेहादभ्यन्तरे निरुध्य पटुप्रसरमपि शोकमेकाकी मत्संवर्धनपर एवाभवत् । अतिपरिणतवयाश्च कुशचीरानुकारिणीमल्पावशिष्टजीर्णपिच्छजालजर्जरामवसस्तांसदेशशिथिलामपगतोत्पतनसंस्कारां पक्षसंततिमुदहन, उपारूढकम्पतया संतापकारिणीमङ्गलग्नां जरामिव विधुन्चनकठोरशेफालिकाकुसुमनालपिञ्जरेण कलममञ्जरीदलनमसृणितक्षीणोपान्त्यलेखेन स्फुटिताग्रकोटि -
***********
पुनः कीदृशेन । असाधारणेन तन्मात्रवृत्तिना गुरुणा परावृत्तेने तथा प्रहतो व्यापादितो यो हरिणो मृगस्तस्य रुधिरं रक्तं तेनानुरक्तारुणीकृता या शार्दूलस्य सिंहस्य नखकोटिर्नखराग्रं तद्वत्पाटलेन घेतरक्तेन चञ्चुपुटेन त्रोटीसंपुटेन दत्त्वा दत्त्वा । वारंवारं तेभ्यो भक्ष्यदान वितीर्येत्यर्थः । ततो दिवसकार्यानन्तरम् । तस्मिनिति । तस्मिन्वृक्षकुहरे क्रोड उत्सङ्गस्तदन्तर्निहितास्तन्मध्यस्थापितास्तनया अपत्यानि यैस्ते तथा । अन्वयस्तु पूर्वमुक्तः ।।
एकस्मिंश्चेति । एकस्मिञ्जीर्णकोटरे चिरकालीननिष्कुहे जायया पन्या सह निवसत आसेदुषः पश्चिमे प्रान्त्ये वयसि दशायां वर्तमानस्य स्थितवतः कथमपि महता कष्टेन पितुर्जनकस्य विधिवशादैववशात् । अहमित्यात्मनिर्देशः । एको नापरः सूनुः सुतोऽभवमजनिषम् । अतिप्रबलेति । मम जायमानस्यैवोत्पद्यमानस्यैव अतिप्रबलया अत्यन्तया प्रसववेदनया प्रसूतिव्यथयाभिभूता पीडिता सती मे मम जननी परलोकं भवान्तरमगमदयासीत् । अभिमतेति । अभिमताया अभीष्टाया जायाया विनाशेन मरणेन रोदनादिरूपः शोकस्तेन दुःखितोऽपि । अपिः स्नेहदायंसूचकः । खलु निश्चितम् । तातः पिता, स्पष्टः प्रसरो विस्तारो यस्यैवंभूतमपि शोकं दुःखं मम सुतस्य पुत्रस्य स्नेहादभ्यन्तर एव मध्य एव निरुध्यावरुध्यैकाकी पत्नीवियुक्तो ममैव यत्संवर्धनं वृद्धिस्तस्यामेव परः तत्परोऽभवत् । अतीति । अतिपरिणतमत्यन्तं पक्वं वयो यस्य स तथा । अतिजरीयानित्यर्थः । किं कुर्वन् । एतादृशी पक्षसंततिं वाजसमूहमुदहन्दधत् । इतः पक्षसंतति विशेषयन्नाह - कुशेति । कुशो दर्भश्चीरं जीर्णवस्त्रखण्डं तदनुकरोति तत्सादृश्यं भजति या सा ताम् । वार्धक्यवशादल्पानि स्तोकान्यवशिष्टान्युर्वरितानि जीर्णानि पुरातनानि पिच्छानि बर्हाणि तेषां जालं तेन जर्जरा विशीर्णाम् । अवेति । अवसस्तो गलितोऽसशो यस्याः सा ताम् । अथवा स्कन्धदेशादवसस्तांसदेशा तामत एव शिथिला श्लथामदृढावयवसंयोगाम् । अपेति । अपगतो दूरीभूत उत्पतने वियद्गमने संस्कारः शक्तिविशेषो यस्यां सा ता ताम् । उपेति । उपारूढः प्राप्तो यः कम्पश्चलनं तस्य भावस्तत्ता तया । चः समुच्चये । संतापकारिणीं दुःखदायिनीमङ्गलग्नां जरां वृद्धावस्थामिव विधुन्चन्परित्यजन्निवाकठोरं यच्छेफालिका निर्गुण्डी तस्याः कुसुमं पुष्पं तस्य यत्रालं तद्वत्पिञ्जरेण । कलमेति । कलमस्य या मञ्जरी तस्या - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 गुरुणा महता अपत्यप्रेम्णा संतानस्नेहेनेत्याशयः । 2 अन्तिमे इत्यर्थः । 3 अजनिषीत्याशयः । 4 वृद्धावस्थया यः शरीरकम्पो भवति तत्रोप्रेक्षाअङ्गलग्नां जरामिव विधुन्चन् कम्पयन् इति । जरा संतापकारिणी, अत एव शरीरं कम्पयित्वा तां निपातयितुमिच्छतीत्याशयः ।
पाठा०.१ स्वस्मिन्नेव. २ सुखं क्षपाः. ३ तत्र निवसतः. ४ अहमेवैकः. ५ प्रबलतया. ६ लोकान्तरम्. ७ अगच्छत्. ८ दुःखदुःखितः. ९ अन्तर्निगृह्य. १० शोकवेगम्. ११ अतिपरिणततया च. १२ जर्जरीम्. १३ देशाम्. १४ सहतिम्. १५ कम्पतया च. १६ कुसुमपिञ्जरेण. १७ क्षीर. १८ उपान्त.
कादम्बरी ।
कथामुखे-)