________________
डेषु प्रतिदिनमुत्थायोत्थायाहारान्वेषणाय नभसि विरचितपङ्क्तयः, मदकलबलभद्रहलमुखाक्षेपविकीर्णबहुसोतसमम्बरतले कलिन्दकन्यामिव दर्शयन्तः, सुरगजोन्मूलितविगलदाकाशगङ्गाकमलिनीशङ्कामुत्पादयन्तः, दिवसकररथतुरगप्रेभानुलिप्तमिव गगनतलं प्रदर्शयन्तः, संचारिणीमिव मरकतस्थली विडम्बयन्तः, शैवलपल्लवावलीमिवाम्बरसरसि प्रसारयन्तः, गगनावततैः पक्षपुटैः कदलीदलैरिव दिनकरखरकरनिकरपरिखेदितान्याशामुखानि वीजयन्तः, वियति विसारिणी शष्पवीथीमिवारचयन्तः, सेन्द्रायुधमिवान्तरिक्षमादधाना विचरन्ति स्म । कृताहाराश्च पुनः प्रतिनिवृत्त्यात्मकुलायावस्थितेभ्यः शावकेभ्यो विविधान्फलरसान्कलममन्जरीविकारांश्च प्रहतहरिणरुधिरा रक्तशार्दूलनखकोटिपाटलेन चञ्चुपुटेन दत्त्वा दत्त्वाधरीकृत -
***********
कालो द्योत्यते । आहारस्य भक्षणस्यान्वेषणं विलोकनं तस्मै नभस्याकाशे विरचिता विहिता पङ्क्तिः श्रेणी यैस्ते । मदेति । मदेन कलो मनोज्ञो यो बलभद्रो हली तस्य यद्धलं सीरं तस्य यन्मुखमग्रप्रदेशस्तेन य आक्षेप आकर्षणं तेन विकीर्णानि पर्यस्तानि बहूनि सोतासि यस्य एवंभूतामम्बरतलं आकाशतले कलिन्दकन्यामिव यमुनामिव दर्शयन्त आलोकनीयतां प्रापयन्तः । सुरेति । सुराणां देवानां गजो हस्ती तेनोन्मूलितोत्पाटिता विगलन्त्यधःपतन्ती याऽऽकाशगङ्गा स्वधुनी तस्यां कमलिनी नलिनी तस्याः शङ्का भ्रान्तिमुत्पादयन्तः परेषां जनयन्तः । दिवसेति । दिवसकरः सूर्यस्तस्य यो रथः स्यन्दनस्तस्य ये तुरगा अवास्तेषां या प्रभा सैवं नीला । हरितहयरथवत्त्वात्सूर्यस्य । तयानुलिप्तमिव लेपनविषयीकृतमिव गगनतलं नभस्तलं प्रदर्शयन्तो ज्ञापयन्तः । संचारिणीति । संचारिणी भ्रमणशीला मरकतस्याश्मगर्भस्य या स्थली तामिवविडम्बयन्तस्तिरस्कुर्वन्तः । शैवल इति । शैवलस्य शैवालस्य या पल्लवावली किसलयश्रेणी तामिवाम्बरसरसि व्योमतटाके प्रसारयन्तो विस्तारयन्तः । पुनः किं कुर्वन्तः । गगनेति । गगनेऽवततैर्विस्तृतैः पक्षपुटैः पक्षच्छदैः कदलीना रम्भाणां दलैरिव । नीलत्वसाम्यात्तदुपमानम् । दिनकरस्य सूर्यस्य खरास्तीक्ष्णा ये कराः किरणास्तेषां निकरः समूहस्तेन परिखेदितानि संक्लामितानि यान्याशामुखानि दिग्वदनानि वीजयन्तो व्यजनवातकर्म कुर्वन्तः । पुनः किं कुर्वन्तः । वियतीति । वियत्याकाशे विसारिणी विस्तारिणी शष्पवीथीं बालतृणोपयुक्तपद्धतिमिवारचयन्तो विरचयन्तः । सेन्द्रायुधमिति । इन्द्रायुधं शक्रधनुस्तेन सह वर्तमानमिवान्तरिक्ष गगनमादधानाः कुर्वाणाः । अन्वयस्तु प्रागेवोक्तः । कृतेति । कृतो विहित आहारो भोजनं यैस्ते क्षपास्त्रियामाः क्षपयन्ति स्मेत्यनेनान्वयः । 'क्षिप प्रेरणे' णिजन्तस्य रूपम् । किं कृत्वा । पुनरिति । स्वतृप्त्यनन्तरं प्रतिनिवृत्त्य परावृत्त्य । आत्मेति । आत्मीयाः स्वकीया ये कुलाया नीडानि तत्रावस्थितेभ्य उषितेभ्यः शावकेभ्यः पोतेभ्यो विविधान्नानाप्रकारान्फलरसान्सस्यनिर्यासान् । कलमेति । कलमः कैलामकस्तस्य मञ्जर्यो वल्लयस्तासां विकाराः परिपाकविशेषेण परिणताः कणास्तांस्तथापत्येषु संतानेषु यत्प्रेम स्नेहस्तेन । कीदृशेन । अधरीति । अधरीकृतो न्यूनत्वमापादितः सर्ववस्तुसंबन्धी स्नेहो येन स तथा तेन ।
- - - - - - - - - - - - - - टिप्प० - 1 आकाशे उड्डीयमानान् शुकशकुनीन् दृष्टवा सुरगजेन उन्मूलितायाः कमलिन्या हरितानां पत्राणां शङ्का भवतीत्याशयः । भ्रान्तिमानलंकारः । 2 सूर्यरथावानां या (हरिता) प्रभा तया विच्छुरितमिव गगनं दर्शयन्त इत्याशयः (वस्तूोक्षा)। 3 तण्डुलानां या मञ्जयः कणिशाः, 'बाल' इति ख्याताः ।
-
-
-
-
--
पाठा० -१ हलघर. २ मुखोत्क्षेप. ३ विप्रकीर्ण. ४ उपजनयन्तः. ५ अनुलिप्तगगनतलम्. ६ उपपादयन्तः. ७ गगनविततैः. ८ दिनकरकर. ९ परिखेदिताशामुखानि. १० परिवीजयन्तः. ११ विस्तारिणीम्. १२ स्म शुकशकुनयः. १३ फलविकाराम. १४ प्रसक्त.
(शुकानां निवासादि
पूर्वभागः ।
53