________________
पातः, नलिननाभ इव वनमालोपगूढः नवजलधरव्यूह इव नभसि देशितोत्रतिः, अखिलभुवनतलावलोकनप्रासाद इव वनदेवतानाम्, अधिपतिरिव दण्डकारण्यस्य, नायक इव सर्ववनस्पतीनाम्, सखेव विन्ध्यस्य, शाखाबाहुभिरूंपगुह्येव विन्ध्याटवी स्थितो महाञ्जीर्णः शाल्मकी । तत्र च शाखाग्रेषु कोटरोदरेषु पल्लवान्तरेषु स्कन्धसंघिषु जीर्णवल्कविवरेषु महावकाशतया विसब्धविरचितकुलायसहसाणि दुरारोहतया विगंतभयानि नानादेशसमागतानि शुकशकुनिकुलानि प्रतिवसन्ति स्म । यैः परिणामविरलँदलसंहतिरपि स वनस्पतिरविरलदलनिचयश्यामल इवोपलक्ष्यते दिवानिश निलीनैः । ते च तस्मिन्नतिवाह्यातिवाह्य निशामात्मनी -
***********
कृतः शकुनीनां पक्षिणां छदानां पातो यस्मिन्स तथा । पक्षे शकुनौ मातुले पक्षपातोऽङ्गीकारो यस्येति विग्रहः । नलिनेति । नलिननाभः कृष्णस्तद्वदिव । उभयोः सादृश्यमाह-वनेति । वनमालया वनश्रेण्योपगूढ आच्छादितः । पक्षे वनमाला भूषणविशेषस्तेनोपगूढ आलिङ्गितः । नवेति । नवा नूतना ये जलधरा मेघास्तेषां व्यूहः समूहस्तद्वदिव । उभयोः साम्यमाह-नभसीति । नभस्याकाशे दर्शितोन्नतिर्येन स तथा । उभयोः साम्यत्वादभङ्गश्लेषः । अखिलेति । अखिलानि समग्राणि यानि भुवनतलानि तेषामवलोकन निरीक्षणं तदर्थं प्रासादो देवगृहं स इव । कासाम् । वनदेवतानामरण्याधिष्ठात्रीणां सुरीणाम् । दण्डक इति । दण्डकनाम्नोऽरण्यस्य वनस्याधिपतिरिव स्वामीव । नायकेति । नायक इवाध्यक्ष इव । कासाम् । सर्वेति । पुष्पं विना फलं येषां ते वनस्पतयस्तेषां सर्वेषाम् । सखेति । सखेव मित्रमिव । कस्येत्यपेक्षायामाह - विन्ध्यस्येति । विन्ध्यस्य जलबालकस्य । शाखेति । शाखा एव बाहवो भुजास्तैः विन्ध्याटवीं विन्ध्यभूमिमुपगुह्येवालिङ्ग्येव स्थित आश्रितः ।
तत्र चेति । तस्मिन्वृक्षे शुकाः कीराः शकुनयोऽन्ये पतत्त्रिणस्तेषां कुलानि संतानानि प्रतिवसन्ति स्मेत्यन्वयः । अथ निवासस्थानान्याह - शाखाग्रेष्विति । शाखानां शालानामग्राणि प्रान्ताः तेषु कोटराणां निष्कुहाणामुदरेषु मध्येषु पल्लवाः किसलयानि तेषामन्तरेषु मध्येषु स्कन्धः प्रकाण्डस्तस्य ये संधयो बन्धास्तेषु जीर्णानि पुरातनानि यानि वल्कानि चोचानि तेषां विवराणि छिद्राणि तेषु । अथ शकुनिकुलानि विशेषयन्नाह - महेति । महान्महीयोऽवकाशोऽन्तर्विस्तारस्तस्य भावस्तत्ता तया विसब्धं निःशङ्ख विरचितानि निर्मितानि कुलायसहसाणि यैस्तानि । दुरेति । दुःखेनारोहो दुरारोहस्तस्य भावस्तत्ता तया विगतं भयं येभ्यस्तानि । नानेति । नानादेशेभ्यो भिन्नभित्रप्रदेशेभ्यः समागतान्येकीभूतानि । यैरेति । यैः शकुनिकुलैर्दिवानिशमहर्निशं निलीनैः स्थितैः परिणामेन वार्धक्येन विरलानि तुच्छानि दलानि पत्राणि तेषां संहतिः समूहो यस्मिनेवंविधोऽपि स वनस्पतिरविरलानि निबिडानि यानि दलानि पत्राणि तेषां निचयः संदोहस्तेन श्यामल इव कृष्ण इवोपलक्ष्यते दृश्यते । ते चेति । अग्रे विचरन्ति स्मेत्यग्रेतनेनान्वयः । तस्मिशाल्मलीवृक्ष आत्मनीडेषु स्वस्वकुलायेषु निशां रात्रिमतिवाह्यातिवाह्यातिक्रम्य प्रतिदिनं प्रत्यहमुत्थाय । वीप्सया भूया -
- - - - - - - - - - - - - - - - - टिप्प०.1 साम्यादित्याशयः । 2 संताना इति तात्पर्यम् ।
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ पद्मनाभ. २ कृतोत्रतिः. ३ विन्ध्याचलस्य. ४ उपगृह्य; अवगुह्य. ५ अवस्थितः. ६ शाल्मलीवृक्षः. ७ वल्कल. ८ विवरेषु च. ९ विगलितविनाशभयानि, विगतविनाशभयानि. १० संततिः. ११ श्यामः. १२ तस्मिन्वनस्पती. १३ अतिबाह्य. १४ रजनीम्. १५ आत्मनो नीडेषु.
IN
(52
कादम्बरी।
कथामुखे