________________
रालविप्रकीर्णेन शाखासंचयेन प्रलयकालताण्डवप्रसारितभुजसहसमुडुपतिशेखरमिव विडम्बयितुमुद्यतः, पुराणतया पतनभयादिव वायुस्कन्धलग्नः, निखिलशरीरव्यापिनीभिरतिदूरोनताभिर्जीर्णतया शिराभिरिव परिगतो व्रततिभिः, जरातिलकबिन्दुभिरिव कैण्टकैराचिततनुः, इतस्ततः परिपीतसागरैसलिलैगगनागतैः पत्ररथैरिव शाखान्तरेषु निलीयमानैः क्षणमम्बुभारालसैराीकृतपल्लवैर्जलधरपटलैरप्यदृष्टशिखरः, तुङ्गतया नन्दनवनश्रियमिवावलोकयितुमभ्युद्यतः स्वसमीपवर्तिनामुपरि संचरता गगनतलगमनखेदायासितानां रविरथतुरङ्गमाणां सृक्कपरिसुतैः फेनपटलैः संदेहिततूलराशिभिर्धवलीकृतशिखरशाखः, वनगजकपोलकण्डूयनलग्नमदनिलीनमत्तमधुकरमालेन लोहश्रृङ्खलाबन्धननिश्चलेनेव कल्पस्थायिना मूलेन समुपेतः, कोटराभ्यन्तरनिविष्टैः स्फुरद्भिः सजीव इव मधुकरपटलैः, दुर्योधन इवोपलक्षितशकुनिपक्ष -
*********** शाखालताः समाः' इत्यमरः । प्रलय इति । प्रलयकाले संहारसमये ताण्डवे नृत्ये प्रसारितमूर्चीकृतं भुजसहसं बाहुसहसं येन स तथा तम् । अथ चोडुपतिश्चन्द्रः शेखरे यस्यैवंविधं महादेवं विडम्बयितुमुद्यत इव कृतप्रयत्न इव बहुशाखावत्त्वेनात्युच्चत्वेन शशिनोऽपि तच्छिरोवर्तित्वेन च तद्विडम्बकत्वमिति भावः । पुराणेति । पुराणतया जीर्णतया पतनभयादिव प्रपातशङ्कयेव वायुः स्कन्धे लग्नो यस्यैवंभूत इव । अनेन शाखासु महावायुप्रवेगेण प्रकम्पः सूचितः । तिरस्कर्तुं च वायोः स्कन्धे लग्न इत्यपि केचिद् व्याख्यानयन्ति । निखिलेति । व्रततिभिलताभिः । 'वल्ली तु व्रततिलता' इति कोशः । परिगतः परिवेष्टितः । अथ व्रततीविशेषयन्नाह - निखिलेति । निखिलं समग्रं यच्छरीरं तद् व्याप्तुं शीलं यासां ताभिः । अतीति । अतिदूरमतिविप्रकृष्टमुन्नताभिः । काभिरिव । जीर्णतया वार्धक्येन शिराभिरिवास्थिबन्धनैरिव । जरेति । कण्टकैराचिता व्याप्ता तनुर्यस्य स तथा । कैरिव । जराया विससाया ये तिलकबिन्दवस्तैरिव । अतिवार्धक्ये शरीरे कृष्णबिन्दवो जायन्त इति लोकप्रसिद्धिः । जलेति । जलधरपटलैर्मेघसमूहैरप्यदृष्टमनवलोकितं शिखरं प्रान्तप्रदेशो यस्य स तथा । मेघपटलं विशेषयन्नाह-इत इति । इतस्ततः समन्तात्परिपीतं सागरसलिलं समुद्रपानीयं यैस्ते तथा तैः । अथ च गगनागतैः । कैरिव । शाखान्तरेषु शालान्तरेषु निलीयमानैर्गुप्ततया तिष्ठद्धिः पत्ररथैरिव पक्षिभिरिव । क्षणमिति । क्षणं क्षणमात्र यावदम्बुभारालसैर्जलभारेण मन्दगामिभिः । आर्टीति । आर्टीकृता जलेन स्विन्नाः पल्लवा यैस्ते तथा तैः । तुङ्गेति । तुङ्गतयोच्चतया नन्दनवनमिन्द्रोद्यानं तस्य या श्रीस्तामिव अवलोकयितुं द्रष्टुं अभ्युद्यत उद्यतः । स्वसमीपेति । धवलीकृताः शुभ्रीकृताः शिखरस्याग्रस्य शाखा यस्य स तथा । कैः । फेनपटलैः कफसमूहैः । कीदृशैः । संदेहितः संदेहविषयीकृतस्तुलराशिराबीजकासकपिण्डो यैस्ते तथा तैः । स्वेति । स्वस्य समीपवर्तिनां निजनिकटवर्तिनामुपर्युर्वं संचरतां गच्छताम् । अथ च गगनतलमाकाशतलं तत्र यद् गमनं संचरणं तेन यः खेदः प्रयासस्तेनायासितानां खिन्नानां रविरथतुरङ्गमाणां सूर्यरथाचानां सृक्कमोष्टप्रान्तस्ततः परिसुतैः पतितैः फेनपटलैः । वनेति । वनगजा अरण्यकरिणस्तेषां कपोलयोः कण्डूयेन खर्जूयनेन लग्नो यो मदो दानं तत्र निलीना लग्ना ये मत्ता मधुकरा भ्रमरास्तेषां माला यस्यैवंभूतेन । 'गोस्त्रियोरुपसर्जनस्य' इति हूस्वः । अतो नैल्यसाम्याल्लोहस्य या श्रृङ्खलान्दुकस्तेन बन्धन नियन्त्रणं तेन निश्चलेनेव स्थिरेणेवात एव कल्पस्थायिना कल्पान्तं तिष्ठता । एतेन स्वस्यातिवृद्धत्वेन शैथिल्यनिवृत्त्यै भ्रमरवेष्टनस्य कटिबन्धनत्वं प्रदर्शितमिति भावः । एतादृशेन मूलेन बुध्नेन समुपेतः संयुक्तः । कोटरेति । कोटरो निष्कुहस्तस्याभ्यन्तरं मध्यभागस्तत्र निविष्टैः प्रविष्टैः स्फुरद्भिर्दीप्यमानैर्मधुकरपटलैर्धमरसमूहैः सजीव इव वासादिप्राणयुक्त इव । भ्रमराणामन्तश्चारित्वेन तदुपमानम् । दुर्योधनेति । दुर्योधनो गान्धारीतनयस्तद्वदिव । उभयोः सादृश्यमाह - उपेति । उपलक्षितोदृग्विषयी - पाठा० - १ उडुपतिशकलशेखर. २ पवन, गगन. ३ निजकण्टकैः. ४ जलैः ५ शाखान्तदेशेषु. ६ शिखरदेशः. ७ उत्तुङ्गतया. ८ आलोकयितुम्. ९ समीप. १० अम्बरतल. ११ मदसलिल. १२ बन्ध. १३ पतद्भिः.
शाल्मलीतरुः
पूर्वभागः ।