________________
अपरसागरशङ्किभिः सलिलमादातुमवतीर्णैर्जलधरैरिव बहलपङ्कमलिनैर्वनकरिभिरनवरतमापीयमानसलिलम्, अगाधमनन्तर्मप्रतिममपां निधानं पम्पाभिधानं पद्मसरः । यत्र च विकचकुवलयप्रभाश्यामायमानपक्षपुटान्यद्यापि मूर्तिमद्रामशापग्रस्तानीव मध्यचारिणामालोक्यन्ते चक्रवाकनाम्नां मिथुनानि ।
तस्यैवंविधस्य सरसः पश्चिमे तीरे राघवशरप्रहारजर्जरितबालतरुखण्डस्य च समीपे दिग्गजकरदण्डानुकारिणा जरदजगरेण सततमावेष्टितमूलतया बद्धमहालवाल इव, तुझस्कन्धावलम्बिभिरनिलवेल्लितैरहिनिर्मोकैधृतोत्तरीय इव, दिक्चक्रवालपरिमाणमिव गृह्णता भुवनान्त -
***********
स्वकीयश्वासवातेन वासिताभिरिव भाविताभिरिव । अन्वयस्तु प्रागेवोक्तः । पुनः सरो विशेषयन्नाह - वनेति । वनकरिभिररण्यगजैरनवरतं निरन्तरमासमन्तात्पीयमानं सलिलं यस्य तत्तथा । अथ करिणो विशिनष्टि - बहलेति । बहलो निबिडो यः पङ्कः कर्दमस्तेन मलिनैः श्यामैः । कैरिव । जलधरैरिव मेधैरिव । तान्विशिनष्टि - अपरेति । अपरो भिन्नो यः सागरः समुद्रस्तदाशङ्किभिस्तद्भ्रान्तिकारिभिः सलिलमम्भ आदातुं ग्रहीतुमवतीर्णैराकाशादुत्तरितैः । आगाधमलब्धतलमनन्तमपरिमितपारमप्रतिमं स्वप्रतिनिधिरहितमपां पानीयाना निधान शेवधिभूतम् । अक्षयजलत्वात्तदुपमानम् । अभिधानं तु प्राक् प्रतिपादितमेव न पुनः प्रोच्यते । यत्र चेति । यस्मिन्सरसि चक्रवाकनाम्नां रथाङ्गाह्वानां मिथुनानि द्वन्द्वानि मध्यचारिणा वनान्तभ्रमणकारिणा । 'पथि चारिणा' इति पाठे पथिकनेत्यर्थः । आलोक्यन्त इत्यन्वयः । चक्रवाकमिथुनानि विशेषयन्नाह - विकचेति । विकचानि विकस्वराणि यानि कुवलयानि नीलाम्बुजन्मानि तेषां या प्रभा कान्तिस्तद्वच्छ्यामायमानानि श्यामवदाचरमाणानि पक्षपुटानि येषां तानि । पुनः कीदृशानीव । अद्याप्येतावत्कालपर्यन्तमपि मूर्तिमान्स्फुरद्रूपो यो रामस्य शापः शपनं तेन ग्रस्तानीव गृहीतानीव ।।
तस्येति । तस्य सरस एवंविधस्य पूर्वोक्तप्रकारेण वर्णितस्य पद्मसर इत्यभिधानस्य पश्चिमे पश्चिमदिग्वर्तिनि तीरे तटे महान्महीयाञ्जीचिरकालीनः शाल्मलीवृक्षः रोचनो द्रुमोऽस्तीत्यन्वयः । तस्य स्थानाभिव्यक्त्या आह - राघवेति । राघवस्य रामस्य ये शरा बाणास्तेषा प्रहार उपघातस्तेन जर्जरिता विसंस्थुला ये बालास्तृणराजास्तरवो वृक्षास्तेषां यत्खण्डं वनं तस्य समीपे निकटे दिशां गजाः हस्तिनस्तेषां ये करदण्डाः शुण्डादण्डास्ताननुकुर्वन्तीत्येवंशीलास्तदनुकारिणस्तेन जरञ्जरीयान्योऽजगरश्चक्रमण्डलस्तेन सततं निरन्तरमावेष्टितं यन्मूलं स्थलं तस्य भावस्तत्ता तया बद्धं नद्धं महन्महीय आलवालमावालं यस्मिन्स तथा । पुनः कीदृश इव । धृतमुत्तरीयमुपसव्यानं येन स तथा । कैः । अहीनां सर्पाणां निर्मोकैः कञ्चुकैः । निर्मोक विशिनष्टि - अनिलेति । अनिलो वायुस्तेन वेल्लितैः कम्पितैः । 'वेल्लिते कम्पिताधूत-' इति कोशः । तुङ्ग इति । तुङ्ग उच्चो यः स्कन्धः प्रकाण्डस्तत्रावलम्बिभिरवलम्बमानैः । अतएवोत्तरीयस्योपमानता । पुनः किं कुर्वतेव । दिगिति । दिशां चक्रवालं मण्डलं तस्य परिमाणमायामस्तदिव गृह्णता ग्रहणं कुर्वता । केन । भुवनानामन्तराल मध्यभागस्तत्र विप्रकीर्णेनेतस्ततः पर्यस्तेन शाखानां लतानां संचयेन संदोहेन । 'शिखा - - - - - - - - - - -
- - - - - - - - - - - - - - - - - टिप्प० - 1 वस्तुतस्तु मध्यचारिणामिति पाठः । पम्पासरोमध्यचारिणां चक्रवाकानां मिथुनानि कुवलयप्रभया श्यामायितानि सन्ति । तेषु श्यामतावशात् मूर्तिमतः शापस्य ग्रासोत्प्रेक्षा । पुरा हि सीतावियोगदुःखितं रामं विलोक्य चक्रवाका जहसुः । तदवलोक्य 'भवतामपि ममेव वियोगदुःखदात्री रात्रिभविष्यति' इति रामः शशाप । 2 करदण्डम् अनुकरोति तच्छीलेन जरदजगरेण जीर्णेन महासर्पण । इत्यर्थो बोध्यः ।
पाठा० - १ आपीयमानम्. २ अप्रतिष्ठम्. ३ यत्र. ४ चक्रनाम्नाम्. ५ तस्यैव. ६ पद्मसरसः. ७ जीर्णतालतरु.
(50
कादम्बरी।
कथामुखे