________________
पाशकुसुमैः सुरभीकृतम्, एकदेशावतीर्णमुनिजनापूर्यमाणकमण्डलुकलजलध्वनिमनोहरम्, उन्मिषदुत्पलवनमध्यचारिभिः सवर्णतया रसितानुमेयैः कादम्बैरासेवितम्, अभिषेकावतीर्णपुलिन्दराजशर्बरीकुचचन्दनधूलिधवलिततरम्, उपान्तकेतकीरजःपटलबद्धकूलपुलिनम्, आसन्नाश्रमागततापसक्षालितार्द्रवल्कलकषायपाटलतटजलम्, उपतटवृक्षपल्लवानिलवीजितम्, अविरलतमालवीयन्धकारिताभिर्वालिनिर्वासितेन संचरता प्रतिदिनमृष्यमूकवासिना सुग्रीवेणावलुप्तफललघुलताभिरुदवासितापसानां देवतार्चनोपयुक्तकुसुमाभिरुत्पतज्जलचरपक्षपुटविगलितजलबिन्दुसेकसुकुमारकिसलयाभिलतामण्डपतलशिखण्डिमण्डलारब्धताण्डवाभिरनेककुसुमपरिमलवाहिनीभिर्वनदेवताभिः स्वश्चासवासिताभिरिव वनराजिभिरुपरुद्धतीरम्, -
*********** विशेषयन्नाह - एकदेशेति । एकदेश एक भागस्तत्रावतीर्णोऽन्तःप्रविष्टो यो मुनिजनस्तेनापूर्यमाणानि जलेन भ्रियमाणानि यानि कमण्डलूनि पात्रविशेषाणि तेषां कलो मधुरो यो जलध्वनिः पानीयशब्दस्तेन मनोहरमभिरामम् । कादम्बेति । कादम्बाः कलहंसास्तैरासपन्तात्सेवितं पर्युपासितम् । अथ कादम्बान्विशिनष्टि - उन्मिषदिति । उन्मिषन्ति विकसन्ति यान्युत्पलानि कुवलयानि तेषां वनं खण्डस्तन्मध्यचारिभिस्तदन्तर्गामिभिः । सवर्णेति । सवर्णतया सादृश्यतया रसितं स्वनितं तेनानुमेयैरनुमातुं योग्यैः । पुनः प्रकारान्तरेण सरो विशिनष्टि - अभीति । अभिषेकार्थं स्नानार्थमवतीर्णा जलान्तःप्रविष्टाः पुलिन्दराजस्य भिल्लस्वामिनो याः शबर्यः स्त्रियस्तासां कुचाः स्तनास्तेषां चन्दनं मलयजं तस्य धलिभिः पांसभिः धवलिततरमतिशयेन शुभ्रीकतम् । उपान्तेति । उपान्ते समीपे याः केतक्यो मालत्यस्तासां रजः परागस्तस्य पटलं समूहस्तेन बद्धमानद्धं कूलं जलयुक्तं पुलिनं तटं च जलोम्भितं यस्मिंस्तँत्तथा । आसनेति । आसन्ना निकटवर्तिनो ये आश्रमा मुनिस्थानानि तेभ्य आगताः प्राप्ता ये तापसा ऋषयस्तैः क्षालितानि धौतान्यामा॑णि जलाविलानि वल्कलानि । 'वल्कलमस्त्रियाम्' इत्यमरः । तैः कषायं तुवरम् । 'तुवरस्तु कषायोऽस्त्री' इत्यमरः । पाटलं च तटजलं यस्मिन् । 'वेतरक्तस्तु पाटलः इत्यमरः । उपेति । तटस्य समीपमुपतटं तत्र ये वृक्षाः पादपास्तेषां पल्लवाः किसलयानि तैर्यः अनिलः वायुस्तेन वीजितं व्यजनवात इवाचरितं यस्मिन् । वनेति । वनराजिभिः काननश्रेणिभिरुपरुद्धमाबद्धं तीरं तटं यस्य तत्तथा । अथ वनराजिं विशिनष्टि - अविरलेति । अविरला निबिडा या तमालानां कालस्कन्धानां वीथी पङ्क्तिस्तयान्धकारिताभिः संजातान्धकाराभिः । वालीति । सुग्रीवेण वानराधिपतिनावलुप्तानि दूरीकृतानि यानि फलानि तैलघुलता यासु ताभिः । कीदृशेन सुग्रीवेण । वालिनेन्द्रसुतेन निर्वासितेन स्थानाद् भ्रंशितेन । किं कुर्वता । प्रतिदिनं प्रत्यहं संचरता व्रजता । तत्रेति शेषः । ऋष्येति । ऋष्यमूकाभिधानो गिरिस्तत्र वासिना निवसनशीलेन । उदवासिनामिति । उदवासिनां तत्र स्थितिजुषां तापसानां देवतार्चने देवपूजायामुपयुक्तानि सोपयोगानि कुसुमानि पुष्पाणि यासु ताभिः । उत्पतदिति । उत्पतन्तो ये जलचरा नक्रचक्राधास्तेषां पक्षपुटानि तेभ्यो विगलिताः सस्ता ये जलबिन्दवः पानीयपृषतास्तेषां सेकेन सिञ्चनेन सुकुमाराणि सुकोमलानि किसलयानि यासु ताभिः । लतेति । लतानां वल्लीनां ये मण्डपा आच्छादितप्रदेशास्तेषां तलेऽधःप्रदेशे शिखण्डिमण्डलैर्मयूरसमूहैरारब्धमुत्पादितं ताण्डवं नृत्यं यासु ताभिः । अनेकेति । अनेकानि विभिन्नजातीयानि कुसुमानि पुष्पाणि तेषां परिमलो गन्धस्तं वहन्तीत्येवंशीलास्तास्तथा ताभिः । वनेति । वनदेवता अरण्याधिष्ठात्र्यस्ताभिः स्वधासेन
टिप्प० - 1 सादृश्येनेत्यर्थः । 2 तेन बद्धं कूले कूलसमीपे पुलिनं सैकतं यस्त तत् । केतकीपुष्पाणामियान परागो राशीभूतो येन कुले सैकतं परागजनितः सिकतामयः प्रदेशो जात इत्यर्थः ।
पाठा० - १ कलध्वनि. २ उन्मिषित. ३ कादम्बकदम्बकैः, कादम्बककदम्बकैः. ४ सुन्दरी. ५ तरङ्गम्. ६ उपान्तजात. ७ विटपि. ८ पुटानिल. ९ वीथिका. १० च संचरता. ११ परिलघुलताभिः. १२ जलचरपतङ्गकुलपक्ष. १३ तलस्थित. १४ देवतानिःश्वास. १५ रुद्ध.
पम्पासरः
पूर्वभागः ।