________________
प्रलयकालविघट्टिताष्टदिग्विभागसंधिबन्धं गगनतलमिव भुवि निपतितम्, आदिवराहसमुद्धृतधरामण्डलस्थानमिव जलपूरितम्, अनवरतमज्जदुन्मदशबरकामिनीकुचकलशलुलितजलम्, उत्फुल्लकुमुदकुवलयकह्लारम्, उन्निद्रारविन्दमधुबिन्दुनिष्यन्दबद्धचन्द्रकम्, अलिकुलपटलान्धकारितसौगन्धिकम्, सौरसितसमदसारसम्, अम्बुरुहमधुपानमत्तकलहंसकामिनीकृतकोलाहलम्, अनेकजलचरपतङ्गशतसंचलनचलितवाचालवीचिमालम्, अनिलोल्लासितकल्लोलशिखरसीकरारब्धदुर्दिनम्, अशङ्कितावतीर्णाभिरैम्भःक्रीडारागिणीभिः स्नानसमये वनदेवताभिः केश -
***********
निधिः समुद्रस्तस्य पानं तेन प्रकुपितः क्रोधं प्राप्तो यो वरुणः प्रचेतास्तेन प्रोत्साहितेन प्रगुणितेन । अथचेति । यस्य पद्मसरः पम्पेत्यभिधानमित्यग्रेतनेनान्वयः । इतः सरो विशेषयन्नाह - प्रलयेति । प्रलयकाले कल्पान्ते विघट्टिता नष्टा येऽष्टदिशामष्टककुभा विभागाः प्रदेशास्तत्तत्पर्वतावधिकास्तेषां संधयः संयोगास्तेषां बन्धो मर्यादा यस्मिन्नेवंभूतं भुवि भूमौ निपतितं गगनतलमिव नभस्तलमिव । जलनैर्मल्यसादृश्यात्तदुपमानम् । जलेनेति । जलेन पानीयेन पूरितं पूर्णादिवराहेण तृतीयावतारेण वराहरूपेण सम्यक्प्रकारेणोद्धृतं जलाद्धहिरानीतं यद्धरामण्डलं भूमिमण्डलं तस्य स्थानमिव । अनवरतेति । अनवरतं निरन्तरं मज्जन्त्यः स्नानं कुर्वत्यो या उन्मदा गर्वाधिष्ठिताः शबराणां भिल्लानां कामिन्यस्तासां कुचौ तावेव कलशौ ताभ्यां लुलितमालोडितं जलं पानीयं यस्य तत्तथा । उत्फुल्लेति । उत्फुल्लानि विसितानि कुमुदानि कैरवाणि कुवलयानि कुवेलानि कह्लाराणि सौगन्धिकानि यस्मिंस्तथा । उन्निद्रेति । उन्निद्राणि विकसितानि यान्यरविन्दानि कमलानि तेषां मधुः मधुरसस्तस्य यो द्रवः कल्कस्तेन बद्धा मयूरपिच्छचन्द्राकाराश्चन्द्रका यस्मिंस्तत्तथा । अलीति । अलीनां भ्रमराणां यानि कुलानि तेषां पटलं समूहस्तेनान्धकारितानि संजातान्धकाराणि सौगन्धिकानि कह्लाराणि यस्मिंस्तत्तथा । 'सौगन्धिकं तु कह्लारम्' इति कोशः । सारसितेति । सारसितेन शब्दितेन वर्तमाना अतएव समदा मदोत्कटाः सारसाः पक्षिविशेषा यस्मिन् । अम्बुरुहेति । अम्बुरुहाणि कमलानि तेषां यन्मधु तस्य पानं तेन मत्ताःकलहंसकामिन्यो वरटास्ताभिः कृतः कोलाहलो यस्मिन् । अनेकेति । अनेके सहसशो ये जलचरा नक्रचक्रादयः पतङ्गाः पक्षिणस्तेषां यच्छतमसंख्यातं तस्य संचलनं गमन तेन चलिताः क्षोभं प्राप्ता वाचाला मुखरा वीचयो लहर्यस्तासां मालाः श्रेण्यो यस्मिन् । अनिलेति । अनिलेन वायुनोल्लासिता उल्लास प्रापिता ये कल्लोला लहर्यस्त एवोच्चत्वाच्छिखराणि तेषां सीकरैरम्बुकणैरारब्धं विहितं दुर्दिनं मेघजं तमो यस्मिन् । स्नानेति । स्नानसमय आप्लवक्षणे वनदेवताभिर्वनाधिष्ठात्रिभिः केशपाशः केशकलापस्तस्य कुसुमानि प्रसवानि तैः सुरभीकृतं सौगन्ध्यमापादितम् । कुसुमैरित्यत्र क्रियासिद्ध्युपकारकत्वेन करणे तृतीया । इतो वनदेवता विशेषयन्नाह - अशङ्कित्तेति । शङ्कारहितं यथा स्यात्तथावतीर्णाभिरन्तः प्रविष्टाभिः शङ्काराहित्यं च प्रेक्षकजनाभावात् । अम्भःक्रीडायां जलक्रीडायां रागो यासां ताभिः । पुनस्तदेव - - - - - - - - - - - - - - - - - - - - - - - - - - - -- - - - - - - - - - - - - - - टिप्प० - 1 उनिद्राणि यान्यरबिन्दानि तेषां यो मधुबिन्दूना (मकरन्दबिन्दूनाम्) निष्यन्दः द्रवः, तेन बद्धाः चन्द्रकाः चन्द्राकाराणि मण्डलानि यस्मिन् । जले यदा चिक्कणो द्रवबिन्दुः पतति तदा जलस्तरोपरि मण्डलं प्रसरति । तथात्र स्थाने स्थाने कमलमधुमण्डलानि बद्धानीत्याशयः । उपरिव्याख्याधृतः पाठस्तु मनोहरः । 2 आरसितेन सह वर्तमानाः सारसिताः अर्थात् सशब्दाः समदाः सारसा यस्मिन् । इत्यर्थो बोध्यः ।
पाठा० - १ विघटित. २ दिग्भाग. ३ बन्धनम्. ४ सलिलपरिपूरितम्. ५ मधुद्रवबद्ध; मकरन्दबिन्दुबद्ध. ६ आरसित. ७ पतत्रि. ८ चञ्चलित. ९ उल्लसित. १० शिशिर. ११ आरचित. १२ अन्तः. १३ केशकुसुमैः.
42
N कादम्बरी।
। कथामुखे