________________
लितदृष्टयो वीक्ष्य शून्या दश दिशो जराजर्जरितविषाणकोटयो जानकीसंवर्धिता जीर्णमृगाः । यस्मिन्ननवरतमृगयानिहतशेषेवनहरिणप्रोत्साहित इव कृतसीताविप्रलम्भः कनकमृगो राघवमतिदूरं जहार । यत्र च मैथिलीवियोगदुःखदुःखितौ रावणविनाशसूचकौ चन्द्रसूर्याविव कबन्धग्रस्तौ समं रामलक्ष्मणौ त्रिभुवनभयं मेंहच्चक्रतुः । अत्यायतश्च यस्मिन्दशरथसुतंबाणनिपातितो योजनबाहोर्बाहुरगस्त्यप्रसादनागतनाहुषाजगरकायशङ्कामकरोदृषिजनस्य । जैनकतनया च भर्ना विरहविनोदनार्थमुटजोभ्यन्तरलिखिता यत्र रामनिवासदर्शनोत्सुका पुनरिव धेरणीतलादुल्लसन्ती वनचरेरद्याप्योलोक्यते ।
तस्य च संप्रत्यपि प्रकटोपलक्ष्यमाणपूर्ववृत्तान्तस्यागस्त्याश्रमस्य नातिदूरे जलनिधिपान!कुपितवरुणप्रोत्साहितेनागस्त्यमत्सरात्तदाश्रमसमीपवर्त्यपर इव वेधसा जैलनिधिरुत्पादितः, -
***********
जरेति । जरया वार्धक्येन जर्जरिता विशीर्णा विषाणकोटिः श्रृङ्गाग्रभागो येषां ते तथा । जानकीति । जानक्या सीतया संवर्धिता वृद्धि प्रापिताः । यस्मिन्निति । यस्मिन्वने अनवरतं निरन्तरं या मृगयाखेटस्तया निहता व्यापादितास्तेभ्यः शेषा उद्धरिता एव ये वनहरिणास्तैः प्रोत्साहित इवोत्साहं प्रापित इव । कृतेति । कृतः सीताया विप्रलम्भो वियोगो विप्रतारणं वा येनैवंभूतोऽसौ कनकमृगः सुवर्णमृगो रघोरपत्यं राघवमतिदूरं जहार हृतवान् । 'हृञ् हरणे' धातुः । लिटि रूपम् । यत्र सममिति सहचरितौ रामलक्ष्मणौ महदुत्कृष्टं त्रिभुवनस्य विष्टपस्य भयमातङ्कं चक्रतुर्विदधतुः । कीदृशौ । मैथिलीति । मैथिली जानकी तस्या वियोगेन विरहेण यद्दुःखं तेन दुःखितौ । पुनस्तावेव विशेषयन्नाह - कबन्ध इति । कबन्धः राहू राक्षसाधिपतिस्तेन ग्रस्तौ गृहीतौ । काविव । चन्द्रसूर्याविव पुष्पवन्ताविव । रावण इति । रावणस्य दशाननस्य यो विनाशस्तस्य सूचकौ ज्ञापकौ । अत्यायतश्चेति । अथ यस्मिन्दशरथसुतो रामस्तस्य बाणैर्विशिखैः निपातितः छिनो योजनबाहुनाम्नो दैत्यस्य बाहुर्भुजोऽत्यन्तमायतो विस्तृतः सोऽगस्तिमुनेरप्रसादेन कोपेन आगतः प्राप्तो नहुषस्य राज्ञोऽजगरस्य कायस्तस्य शङ्कामृषिगणस्य मुनिसमुदायस्य चकार विदधे । यत्र चेति । यस्मिञ्जनकतनया सीता भ; रामेण विरहस्य वियोगस्य विनोदनं परिहारस्तदर्थमुटजस्य पर्णशालाया अभ्यन्तरे लिखिता लिपीकृता सा रामस्य निवासो वसतिस्तस्य यद्दर्शनं तत्र उत्सुका उत्कण्ठिता । यथा पूर्वं धरणितलादुत्थिता तथैव पुनर्भूमितलादुल्लसन्ती वनचरैर्भिल्लैरद्यापि सांप्रतमप्यालोक्यते दृश्यते ।
तस्य चेति । तस्य चागस्त्याश्रमस्य संप्रत्यपि इदानीमपि प्रकटोपलक्ष्यमाणः स्पष्टं ज्ञायमानः पूर्ववृत्तान्तो यस्य तस्य नातिदूरेऽगस्त्यमत्सरात्पीताब्धिमात्सर्याद्वेधसा तस्यागस्त्याश्रमस्तस्य समीपवर्ती निकटवर्त्यपरोऽन्यो जलनिधिरिव जलाशय इव उत्पादितः । कीदृशेन वेधसा । जलेति । जल -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अवशिष्टा इति यावत् । 2 कबन्धेन तत्रामकेन राक्षसेन ग्रस्तौ रामलक्ष्मणौ । शिरश्छेदात् कबन्धेन राहुणा ग्रस्तौ सूर्यचन्द्रौ । उभयोरपि त्रिभुवनभयकारकत्वं समम् । इत्याशयः । 3 अगस्त्यस्य प्रसादनाय (अगस्त्यं प्रसन्न कर्तुम्) आगतो यो नाहुषः नहुषसंबन्धी अजगरकायः (सर्पशरीरम्) तच्छङ्काम् ऋषिजनस्याऽकरोत् । अगस्त्यस्य शापेन नहुषः सर्पो बभूव । अत एव अगस्त्यं प्रसादयितुं मन्ये दीर्घः अजगरकाय एव पतितो भवेदिति कबन्धबाही ऋषीणा शङ्काऽभवदित्याशयः । टीकापरिगृहीतः पाठो व्याख्या च विचार्येव ।
पाठा० - १ दीनदृष्टयो. २ निःशेष; अशेष. ३ प्रोत्सारित. ४ दशवदनविनाशपिशुनौ. ५ अतिमहत्. ६ शर. ७ प्रसादेन. ८ चकार. ९ ऋषिगणस्य. १० तनयभा. ११ विनोदार्थम्. १२ अभ्यन्तरे. १३ धरणितलात्. १४ उल्लसन्तीव. १५ उपलक्ष्यते. १६ चैवविधस्य. १७ कुपित. १८ उत्साहितेन. १९ महाजलनिधि.
पम्पासरः
पूर्वभागः ।