________________
यत्र च दशरथवचनमनुपालयन्नुत्सृष्टराज्यो दशवदनलक्ष्मीविभ्रमविरामो रामो महामुनिमगस्त्यमनुचरन्सह सीतया लक्ष्मणोपरचितरुचिरपर्णशालः पञ्चवट्यां कंचित्कालं सुखमुवास । चिरंशून्येऽद्यापि यत्र शाखानिलीननिभृतपाण्डुकपोतपङ्क्तैयोऽमललग्नतापसाग्निहोत्रधूमराजय इव लक्ष्यन्ते तरवः । बलिकर्मकुसुमान्युद्धरन्त्याः सीतायाः करतलादिव संक्रान्तो यत्र रागः स्फुरति लताकिसलयेषु । यत्र च पीतोद्गीर्णजलनिधिजलमिव मुनिना निखिलमा श्रमोपान्तवर्तिषु विभक्तं महाह्नदेषु । र्यैत्र च दशरथसुतनिकरनिशितशरनिपातनिहतरजैनीचरबलैबहलरुधिरसिँक्तमूलमद्यापि तंद्रागाविद्धनिर्गतपलाशमिवाभाति नवकिर्सलयमरण्यम् । अधुनापि यत्र जलधरसमये गंम्भीरमभिनवजलधरनिवहनिनादमाकर्ण्य भगवतो रामस्य त्रिभुवनविवरव्यापिनश्चापघोषस्य स्मरन्तो न गृह्णन्ति शेष्पकवलमजसमश्रुजललु -
यत्र चेति । यत्र यस्मिन्नाश्रमपदे दशरथनन्दनो नाम रामो महामुनिमगस्त्यमनुचरन्ननुगच्छन्कंचित्कालं पञ्चवट्यां जनस्थाने सीतया जानक्या सह सुखं यथा स्यात्तथोवास वसतिं चक्रे । किंकुर्वन् । दशरथस्य राज्ञो वचनमाज्ञामनुपालयन्यथा निर्दिष्टः तथैव समाचरन् । इतो रामं विशेषयन्नाह - उत्सृष्टेति । उत्सृष्टं त्यक्तं राज्यं येन स तथा । दशेति । दशवदनस्य दशाननस्य या लक्ष्मीः श्रीस्तस्या विभ्रमो विलासस्तस्य विरामोऽवसानं यस्मात्स तथा । लक्ष्मण इति । लक्ष्मणेन सौमित्रिणोपरचिता कृता रुचिरा मनोहरा पर्णशालोटजो यस्मै स तथा । अथ च यत्र यस्मिन्त्राश्रमपदे चिरकालशून्येऽद्याप्येतत्कालपर्यन्तं तरवो लक्ष्यन्ते दृश्यन्त इत्यन्वयः । इतः पादपान्विशेषयन्नाह - शाखेति । शाखासु शालासु निलीनाः संलग्ना निभृतमत्यर्थं पाण्डवः श्वेता ये कपोता रक्तलोचनास्तेषां पङ्क्तयः श्रेणयो
१२
***********
ते तथा । कीदृशा इव । अमला निर्मला लग्नास्तापसानां तपस्विनां यदग्निहोत्रं तस्य धूमानां राजिर्येष्वेवंभूता इव लक्ष्यन्ते । यत्र चेत्यस्य सर्वत्रानुषङ्गः । बलीति । बलिकर्मार्थं कुसुमान्युद्धरन्त्याः पुष्पावचयं कुर्वन्त्याः सीताया जानक्याः करतलादिव विनिर्गतः सन् । लताकिसलयेषु संक्रान्तो रागः स्फुरति स्फूर्तिमान्भवति । यत्र चेति । मुनिनागस्त्येन पूर्वं पीतं पश्चादुद्गीर्णं च तन्निखिलं जलनिधिजलमिवाश्रमोपान्तवर्तिषु महाह्मदेषु विभक्तं दृश्यते । यत्र चेति । नवानि प्रत्यग्राणि किसलयानि यस्मिन्नेवंभूतमरण्यं अद्याप भ शोभत इत्यन्वयः । तदेव विशिनष्टि - दशरथेति । दशरथस्य सुतो रामस्तस्य निशिताः तीक्ष्णा ये शरास्तेषां यः निकरः समूहस्तस्य निपातेन निहता ये रजनीचरा राक्षसाः पुण्यजनास्तेषां यद्बलं सैन्यं तत्संबन्धि यद्बहलं विस्तृतं रुधिरं रक्तं तेन सिक्तं मूलं यस्य । अतएवाद्यापि तद्रागेणाविद्धानि युक्तानि निर्गतानि पलाशेपुष्पाणि यस्मिन्नेवंभूतमिव । अधुनापीति । सांप्रतमपि यत्र यस्मिञ्जलधरसमये वर्षाकाले जीर्णमृगा वृद्धहरिणाः शष्पं बालतृणं तस्य कवलं ग्रासं न गृह्णन्ति नाददते । कीदृशाः । अभीति । अभिनवा नूतन ये जलधरा मेघास्तेषां निवहः समूहस्तस्य निनादं शब्दमाकर्ण्य श्रुत्वा रामस्य भगवतः पूज्यस्य चापो धनुष्तस्य घोषं शब्दं स्मरन्तः स्मृतिविषयीकुर्वन्तः । घोषस्येति स्मृतियोगे मातुः स्मरतीतिवत्कर्मणि षष्ठी । अथ घोषं विशेषयन्नाह - त्रिभुवनेति । त्रिभुवनं विष्टपं तस्य विवराणि छिद्राणि तानि व्याप्नोतीत्येवंशीलः स तथा तस्य । कीदृशा मृगाः । अजसं निरन्तरमश्रुजलेन नेत्रजलेन लुलिता व्याकुलीभूता दृष्टयो नेत्राणि येषां ते तथा । किं कृत्वा । दश दिशो दश ककुभो वीक्ष्यावलोक्य । कीदृश्यो दिशः । शून्याः सजातीयप्राणिरहिताः । मृगान्विशेषयन्नाह
टिप्पo - 1 पलाशानि पत्राणि । स्वभावरक्तेषु किसलयेषु रुधिररागाविद्धत्वस्योत्प्रेक्षा ।
-
46
पाठा० - १ रामो २ अतिचिर ३ पङ्क्तयोऽलग्न. ४ यत्र दशरथसुतशर. ५ रजनीचर. ६ बहुल. ७ रक्त. ८ रागानुविद्ध. ९ किसलम्. १० गम्भीररवम्. ११ जलधरनिनाद.
१२ सम्यक्शष्प.
कादम्बरी ।
कथा