________________
विशेषकस्य, सुरलोकादेकहुंकारनिपातितनहुषप्रकटप्रभावस्य भगवतो महामुनेरगस्त्यस्य भार्यया लोपामुद्रया स्वयमुपरचितालवालकैः करपुटसलिलसेकसंवर्धितैः सुतनिर्विशेषैरुपशोभितं पादपैः, तत्पुत्रेण च गृहीतव्रतेनाषाढिना पवित्रभस्मविरचितत्रिपुण्ड्रकाभरणेन कुशचीवरवाससा मौजमेखलाकलितमध्येन गृहीतहरितपर्णपुटेन प्रत्युटजमटता भिक्षां दृढदस्युनाम्ना पवित्रीकृतम्, अतिप्रभूतेष्माहरणाच्च यस्येमवाह इति पिता द्वितीयं नाम चकार, दिशि दिशि शुकहरितैश्च कदलीवनैः श्यामलीकृतपरिसरम्, सरिता च कलशयोनिपरिपीतसागरमार्गानुगतयेव बद्धवेणिकया गोदीवर्या परिगतमाश्रमपदमासीत् ।
***********
इति कोशः । सुरेति । सुरलोकादेकहुंकारेणैकहुंकृतिमात्रेण निपातितो भ्रंशितो यो नहुषो राजा तेन प्रकटः स्पष्टः प्रभावो यस्य स तथा तस्य भगवतो माहात्म्यवतः । महाँश्चासौ मुनिश्च महामुनिस्तस्योत्कृष्टमननशीलस्य । पुन कीदृशम् । पादपैर्वृक्षरुपशोभितम् । अथ पादपान्विशिनष्टि - अगस्त्येति । अगस्त्यस्य भार्याया पत्न्या लोपामुद्रया स्वयमात्मनोपरचितमालवालकमावापो येषां ते तथा तैः । करेति । करा एव पुटानि तैर्यः सलिलस्य जलस्य सेकः सिञ्चनं तेन संवर्धितैर्वृद्धि प्रापितैरतएव सुतेभ्यः सूनुभ्यो निर्गतो विशेषो येभ्यस्ते । तथा तैः । तत्पुत्रेण दृढदस्युनाम्ना पवित्रीकृतम् । अथ तत्पुत्रं विशिनष्टि-पालाशो दण्ड आषाढः स विद्यते यस्यासौ स तेन । पवित्रं यद्भस्म तेन विरचितं निर्मितम । त्रयाणां पण्डकाणां समाहारस्त्रिपण्डकं तिलकविशेषस्तदेवाभरणमलंकारो यस्य : स तथा तेन । कुशेति । कुशा एव चीवरं वासो यस्य स तेन मौजेति । मुञ्जः शरस्तत्संबन्धिनी या मेखला तया कलितो व्याप्तो मध्यो मध्यप्रदेशो यस्य स तथा तेन । गृहीतेति । गृहीतमात्तं हरितं नीलं पर्णपुटं पत्रपुटं येन स तथा तेन । किं कुर्वता । उटजमुटजं प्रति प्रत्युटजं भिक्षार्थमटता पर्यटनं कुर्वता । 'पर्णशालोटजः' इति कोशः । 'अकथितम्' इत्यनेन भिक्षामिति द्वितीया । चः पुनरर्थे । यस्य दृढदस्युनाम्नः पितागस्त्य इध्मवाह इत्यन्वर्थं द्वितीयं नाम चकार निर्ममे । कस्मात् । अतीति । अतिप्रभूता य इमानस्तेषामाहरणादानयनात् । दिशीति । दिशि दिशि प्रत्येकदिशि शुकवद्धरितैर्नीलैः कदलीवनै रम्भाकाननैः श्यामलीकृतः कृष्णीकृतः परिसरः पर्यन्तभूर्यस्य तत्तथा तम् । गोदावर्येति । गोदावर्या सरिता परिगतं परिप्राप्तम् । अथ गोदावरी विशेषयन्नाह - कलशेति । कलशयोनिरगस्त्यस्तेन परिपीतश्चलुकीकृतो यः सागरः समुद्रस्तस्य मार्गः पन्थास्तमनुगतयेवानुसृतयेव । वेणीति । वेण्येव वेणिका । बद्धा वेणिका यया सा तथा । 'वेणी धारारयश्च' इति कोशः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 वृत्रवधाद् ब्रह्महत्यामुपगते सुरपतौ स्वर्गराज्यमराजकमालोक्य निर्जरः स्वस्वतेजोभिः संवर्ध्य नहुषः स्वर्गराज्येऽभिषिक्तः । ऐश्वर्यमदाद् भ्रष्टबुद्धिः स इन्द्राणीमकामयत । सा तु ऋषिमन्त्रणया तं संदिदेश - 'यदि महर्षिभिरूढां शिबिकामारुह्य मन्मन्दिरमुपगच्छसि ततस्ते भवामिइति । दुर्बुद्धिप्रेरितो नहुषस्तु प्रभुतया भृगुमुखान्महर्षीन् शिबिकावहने नियोज्य इन्द्राणीमभिसरन् त्वरितगमनाय भृगु शिरसि पदाऽऽजघान - 'सर्प सर्प इति । भृगोर्जटासु निभृतं विलीनो भगवानगस्त्यस्तत्पदाघातात्प्रकुपितः शशाप - 'सर्प एव सन् भुवि निपत' इति महाभारतम् । 2 अगस्त्यपरिपीततया नूनं सागरो लुप्तः । अत एव साध्या गोदावर्या बद्धवेणिकया सत्या (संस्काराकरणात् जटीभूततया बद्धा वेणिः यया) तन्मार्गानुगमनं कर्तव्यमेवेति उत्प्रेक्षाशयः ।
पाठा० - १ निपतित. २ प्रकटन. ३ तद्भार्यया. ४ लोपामुद्रया च. ५ आषाढिबतिना. ६ चीर. ७ वल्कल. ८ मुञ्ज. ९ हरिणकर्णपुटेन. १० शुककुल. ११ श्यामीकृत. १२ कावे.
अगस्त्याश्रमः
। पूर्वभागः ।