________________
तस्यां च दण्डकारण्यान्तःपाति, सकलभुवनविख्यातम्, उत्पत्तिक्षेत्रमिव भगवतो धर्मस्य, सुरपतिप्रार्थनापीतसकलसागरजैलस्य, मेरुँमत्सराद्गगनतलप्रसारितविकटशिरः सहस्रेण दिवसकररथंगमनपथमपनेतुमभ्युद्यतेनावगणितसकलसु॒रवचसा विन्ध्यगिरिणाप्य॑नु॒ल्लङ्घताज्ञस्य जठरानलजीर्णवातीपिदानवस्य, सुरासुरमुकुटमँकरपत्रैकोटिचुम्बितचरणरजसो दक्षिणामुख -
तस्यां चेति । तस्यां विन्ध्याटव्यमागस्त्यस्य मुनेर्वातापिद्विष आश्रमपदं मुनिस्थानमासीदित्यन्वयः । इत आश्रमविशेषणानि । दण्डकेति । दण्डकारण्यं सह्याद्रिसंबन्धि काननं तदन्तः पाति । तदन्तर्वर्तीत्यर्थः । सकलेति । सकलानि समग्राणि यानि भुवनानि विष्टपानि तेषु विख्यातं प्रसिद्धम् । उदिति । भगवतो माहात्म्यवतो धर्मस्य श्रेयस उत्पत्तिक्षेत्रमिव प्रभवस्थानमिव । इतो मुनिं विशिनष्टि - सुरेति । सुरपतिरिन्द्रस्तस्य प्रार्थना याचना तया पीतं चुलुकीकृतं सकलसागरस्य समग्रसमुद्रस्य जलं पानीयं येन स तथा तस्य । विन्ध्येति । विन्ध्यगिरिणापि जलबालकाद्रिणाप्यनुल्लङ्घितानतिक्रान्ताऽऽज्ञा शिष्टिर्यस्य स तथा तस्य । अथ विन्ध्यगिरं विशिनष्टि - मेरुमत्सरादिति । मेरोः सुवर्णाद्रिर्मत्सरान्मात्सर्याद्गगनतल आकाशतले प्रसारितानि विस्तारितानि विकटानि विपुलानि यानि शिरांसि तेषां सहस्रं येन स तथा तेन । दिवसेति । दिवसकरः सूर्यस्तस्य रथः स्यन्दनस्तस्य या गतिर्गमनं तस्याः पन्थाः । 'ऋक्पूरब्धूः -' इत्यच् । तं अपनेतुं दूरीकर्तुमभ्युद्यतेन प्रयतमानेन । अवेति । अवगणितान्यनादृतानि सकलानि समग्राणि सुराणां देवानां वचांसि वाक्यानि येन स तथा तेन । अथ मुनिं विशेषयन्नाह - जठरेति । जठरानलेनोदराग्निना जीर्णोऽन्तस्तिरोहितो बातापिदानवो येन स तथा तस्य । सुरा देवा असुरा दानवास्तेषां मुकुटाः किरीटानि तेषु मकरपत्रं मकराकारः पक्षः । ' पत्रं वाहनपक्षयोः' इत्यमरः । तस्य कोटिरग्रं तया चुम्बितं गृहीतं चरणरजोऽङ्घ्रिरेणुर्यस्य स तथा तस्य । दक्षिणेति । दक्षिणा अवाची तस्या मुखमाननं तस्मिन्विशेषकस्तिलकस्तस्य । 'चित्रपुण्ड्रविशेषकाः' -
टिप्प० - 1 सुमेरुं प्रदक्षिणीकृत्य यथा प्रत्यहमादित्यो भ्रमति तथा मामपीति मनसि सुमेरुमीर्ष्यन् विन्ध्यगिरिस्तथा कर्तुमादित्यमनुरुरोध । तत्प्रत्याख्यानात्कुपितः स तन्मार्गमवरोद्धुं भृशं प्रवर्धमानो देवैर्निषिद्धोऽपि नात्यजद्दुराग्रहम् । ततस्त्रस्तानां देवानामनुरोधेन सपत्नीके गुरावगस्त्यमहर्षी तत्रोपस्थितेऽवनतशिरस्को विन्ध्याचलस्तं प्रणनाम् । महर्षिस्तु - 'यावदहं न परावर्ते तावदेवमेव त्वमवनतस्तिष्ठेः' इत्यादिश्य दक्षिणां दिशमुपगतो नाद्यापि प्रत्यागच्छति । विन्ध्योप्यद्यावधि तथैव तिष्ठतीति पुराणम् । 2 पुरा किल भ्रात्रोरिल्वल -वातापिनोर्देत्ययोर्मध्ये ज्येष्ठ इल्वलो ब्राह्मणरूपभृत् मेषरूपवाहिनो वातापेर्मांसेन निमन्त्रितान् ब्राह्मणान् भोजयामास । भुक्तेषु तेषु 'एहि वातापे !' इत्थमिल्वलेनाहूतो वातापिर्देववरप्रभावात्तेषामुदरं भित्त्वा निरक्रमीत् । ब्राह्मणानामित्थमकाण्डसंहारमालोक्य दयमानैरमरैः प्रार्थितो भगवानगस्त्यो दुरभिसन्धिमिमं वातापिं भुक्त्वा जरयामासेति भारतम् । 3 दण्डको नाम कश्चित्सूर्यवंशीयो नृपः शुक्राचार्यस्य कन्यामरजा नाम बलादुपजग्राह । शुक्राचार्यस्तदवगम्य राजानमशपत् 'तवाचिरान्मृत्युर्भवेत् । सप्ताहान्तस्तदिदं ते राज्यं महारण्यतया परिणमेत् ।' तदेव राज्यं दण्डकारण्यमिदमिति रामायणम् ।
पाठा० - १ तलख्यातम्. २ निपीत. ३ सलिलस्य. ४ मेरुशिखर. ५ अम्बरतल. ६ शिखर. ७ गतिपथ. ८ सुरसमूह ९ असङ्घितः १० तटघटितमरकतमय. ११ भङ्गकोटि; पत्रकोटि १२ दक्षिणाशावधू.
44
कादम्बरी |
कथामुखे