________________
दमरपतितनुरिव नेत्रसहससंकुला, क्वचिन्नारायणमूर्तिरिव तमालनीला, क्वचित्पार्थरथपताकेव कप्याक्रान्ता, क्वचिंदवनिपतिद्वारभूमिरिव वेत्रलताशतदुःप्रवेशा, क्वचिद्विराटनगरीव कीचैकशताकुला, क्वचिदम्बरश्रीरिव व्याधानुगम्यमानतरलतारकमृगा, क्वचिद्गृहीतव्रतेव दर्भचीरजटावल्कलधारिणी, अपरिमितबहलपत्रसंचयापि सप्तपर्णोपशोभिता, क्रूरसत्त्वापि मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्याटवी नाम ।
***********
सङ्ग्रामस्तस्य भूमिरिव । उभयोस्तुल्यतामाह-शरेति । शरा मुञ्जदण्डास्तेषां शतं तेन निचिता व्याप्ता । पक्षे शरा बाणास्तेषां शतैर्निचितेति विग्रहः । क्वचिदिति । अमराणां देवानां पतिः प्रभुरिन्द्रस्तस्य तनुरिख शरीरमिव । उभयोः साम्यमाह - नेत्रेति । नेत्राणां वृक्षविशेषाणा सहसं तेन संकुला । यद्वा । नेत्राणां जटानां सहसं ते संकुला । 'जटांशुकयोर्नेत्रम्' इत्यमरः । पक्षे नेत्राणां चक्षुषां सहसं तेन संकुलेति विग्रहः । क्वचिदिति । नारायणस्य कृष्णस्य मूर्तिरिव शरीरमिव । उभयोः साम्यमाह - तमालेति । तमालैर्वृक्षविशेषैर्नीला । पक्षे तमालवन्नीला । क्वचिदिति । पार्थोऽर्जुनस्तस्य रथः स्यन्दनस्तस्य पताका वैजयन्ती सेव । उभयोस्तुल्यतामाह - कपीति । कपिभिर्गोलाङ्ग्लैराक्रान्ता । पक्षे कपिचिह्नोपयुक्तेत्यर्थः । क्वचिदिति । अवनिपति राजा तस्य द्वारभूमिरिव । उभयोः सादृश्यमाह-वेत्रेति । वेत्राणि वृक्षविशेषाः लता वल्लयश्च तासां शतं तेन दुःप्रवेशा दुःखेन प्रवेष्टुं शक्या । पक्षे वेत्रलता वेत्रयष्टयः सरलत्वाल्लतोपमानम् । ताभिर्दुःप्रवेशेत्यर्थः । क्वचिदिति । क्वचितप्रदेशे विराटराजनगरी तद्वदिव । साम्यमाह - कीचकेति । कीचकाः सच्छिद्रवेणवस्तैराकुला । पक्षे कीचकानां स्वप्रियाबान्धवानां शतं तेनाकुला व्याग्रा । क्वचिदिति । अम्बरमाकाशं तस्य श्रीरिख । उभयसादृश्यमाह - व्याधेति । व्याधैरनुगम्यमानास्तरला भयविह्वलास्तारकमृगा विचित्रमृगा यस्यां सा । पक्षे व्याधेनानुगम्यमानस्तरलतारकामृगश्चन्द्रनक्षत्रं यस्मामिति विग्रहः । महादेवेन व्याधरूपधारिणा हतं (?) तस्यार्धं मृगनक्षत्रमिति प्रसिद्धम् । क्वचिदिति । गृहीतेति । गृहीतमात्तं व्रतं नियमो यया सैवंविधेव । उभयतुल्यतामाह - दर्भेति । दर्भाः कुशाः, चीराणि तृणविशेषाणि, जटा शिफा, वल्कलानि चोचानि, एतानि धर्तु शीलमस्याः सा तथा । पक्षे दर्भचीराणि पूर्वोक्तानि, जटाः संहताः कचाः । 'शिफाजटे संहतो कचौ इत्यनेकार्थः । वल्कलानि प्रतीतानि तेषां धारणं विद्यते यस्या इति विग्रहः । अपरीति । अपरिमितान्यगणितानि बहलानि निबिडानि पत्राणि पर्णानि तेषां संचयः समूहो यस्यामेवभूतापि सप्तपर्णोपशोभितेति विरोधः । तत्परिहारपक्षे सप्तपर्णोऽयुक्छदस्तेन शोभायमानेत्यर्थः । क्रूरेति । क्रूरं सत्त्वं मनो यस्याः सैवंविधापि मुनिजनसेवितेति विरोधः । 'सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः' इत्यनेकार्थः । तत्परिहारपक्षे क्रूरा हिंसाः सत्त्वाः प्राणिनो यस्यामिति विग्रहः । मुनिजनतपोमाहात्म्यात्क्रूरा अक्रूरतां गता इत्यत्र व्यङ्ग्यम् । पुष्पवतीति । पुष्पवत्यार्तववत्यपि पवित्रेति विरोधः । तत्परिहारपक्षे पुष्पं सून विद्यते यस्यामिति विग्रहः ।
- - - -- - - - - - - - - - - - - - - - - - - - - - -- - - टिप्प०- 1 'नरगिस' इति उर्दूभाषायामिति कश्चित् । वस्तुतस्तु नेत्राणां वृक्षमूलानां सहसेण संकुला । 'नेत्रं मन्थगुणे वस्त्रभेदे मूले द्रुमस्य च' इति मेदिनी । 2 व्याधैः किरातैः अनुगम्यमानाः, अत एव तरलतारका भयेन चञ्चलनेत्रकनीनिका मृगा यस्यां सा (अटवी) । व्याधरूपिणा महादेवेन अनुगम्यमानम् । अत एव तरलं तारकमृगं मृगशिरोनक्षत्रम् (मृग-तारकम्-तारकमृगम्) यस्यां सा । पुरा हि ब्रह्मा निजकन्यां सुन्दरी सन्ध्यामालोक्य कामातुरस्तामन्वगच्छत् । सन्ध्या मृगीरूपेण शिवं शरणमयासीत् । ब्रह्मापि मृगो भूत्वा तामन्वधावत् । तदवलोक्य शिवो ब्रह्मणः शिरश्छेदाय पिनाकेन शरं प्रजिघाय । भीतलज्जितो ब्रह्मा मृगशिरोनक्षत्रमध्यास्त । शिवशरोपि आर्द्रानक्षत्ररूपेण तमनु स्थित इति शिवपुराणम् ।
पाठा० - १ वानराक्रान्ता. २ अमरपति. ३ कीचकावृत्ता; कीचकशतावृता. ४ बहुल. ५ पर्णभूषिता.
विन्ध्याटवी
पूर्वभागः ।