________________
सोत्कण्ठेव विविधपल्लवानिलवीजिता समदना च, बालग्रीवेव व्याघ्रनखपङ्क्तिमण्डिता गण्डकाभरणा च, पानभूमिरिव प्रकटितमधुकोशशता प्रकीर्णविविधकुसुमा च, क्वचित्प्रलयवेलेव महावराहदंष्ट्रासमुत्खातधरणिमण्डला, क्वचिद्दशमुखनगरीव चटुलवानरवृन्दभज्यमानतुंङ्गशालाकुला, क्वचिदचिरनिर्वृत्तविवाहभूमिरिव हरितकुशसमित्कुसुमशमीपलाशशोभिता, क्वचिदुट्टत्तमृगपतिनादभीतेव कण्टकिता, क्वचिन्मत्तेव कोकिलकुलपलापिनी, क्वचिन्मत्तेव वायुवेगकृततालशब्दा, क्वचिद्विधवेवोन्मुक्ततालपत्रा, क्वचित्समरभूमिरिव शरशतनिचिता, क्वचि -
__ *********** विविधेति । विविधा अनेकप्रकारा ये पल्लवास्तेषामनिलो वायुस्तेन वीजिता तथा मदनेन मदनद्रुमेण सहवर्तमाना । संयुक्तेत्यर्थः । पक्षे सह मदनेन कन्दर्पण वर्तमाना समदना सा । उत्कण्ठिता स्त्र्यपि तथा । बालेति । बालाः स्तनधयास्तेषां ग्रीवा कन्धरा तद्वदिव । उभयोरेकधर्मतामाह - व्याघेति । व्याघ्राः शार्दूला नखाः सुरभिनखप्राणिनस्तेषां पङ्क्तिः श्रेणी तया मण्डिता शोभिता तथा गण्डका वार्धाणसांस्त एवाभरणं यस्यां सेति । पक्षे व्याघ्रनखपङ्क्त्या मण्डिता । अतएव 'शार्दूलदिव्यनखभूषणभूषिताय नन्दात्मजाय' इति । बालरक्षार्थं व्याघ्रनखा बध्यन्त इति प्रसिद्धिः । गण्डस्थलपर्यन्तवर्ति यत्तादृशं ग्रीवास्थं भूषणं देशविशेषे गण्डकमिति प्रसिद्धं तदाभरणं यस्यां सा । पानेति । मद्यपानार्थं या भूमिः सा पानभूमिस्तद्वदिव । उभयत्र साम्यमाह - प्रकटितेति । प्रकटितमाविष्कृतं यन्मधु माक्षिक कोशा एव कोशकाः पट्टसूत्रस्थानानि तेषां शतं यस्यां सा । पक्षे प्रकटितं मधु मद्य तस्य कोशकानि पानपात्राणि तेषां शतं ययेति विग्रहः । प्रकीर्णानि पर्यस्तानि विविधानि विचित्राणि कुसुमानि यस्यामित्युभयत्र समानम् । क्वचिदिति । क्वचित्प्रदेशे यदा सर्वं जलमयं तदा प्रलयस्तस्य वेलावसरस्तद्वदिव । 'वेला वारादवसरः' इति कोशः । उभयोः सादृश्यमाह - महेति । महावराहाः क्रोडास्तेषां दंष्ट्रा दाढास्ताभिः समुत्खातं सम्यक्प्रकारेण खनितं धरणिमण्डलं पृथ्वीप्रदेशो यस्याः सा तथा । पक्षे महावराहस्य परमेश्वरतृतीयावताररूपस्य दंष्ट्रया समुत्खातमूर्ध्वमानीतं धरणिमण्डलं यस्यामिति विग्रहः । क्वचिदिति । क्वचितप्रदेशे दशमुखस्य रावणस्य नगरी लङ्का तद्वदिव । उभयत्र साम्यमाह - चटुलेति । चटुलाश्चञ्चला ये वानराः कपयस्तेषां वृन्दं समूहस्तेन भज्यमानास्त्रोट्यमानास्तुङ्गा उच्चाः शालाः शालवृक्षास्तैराकुला व्याकुला । पक्षे कपिवृन्देन भज्यमानस्तुङ्गा याः शाला गृहैकदेशास्ताभिराकुला व्यग्रेति विग्रहः । क्वचिदिति । क्वचिप्रदेशेऽचिरं तत्कालं निवृत्तो निष्पन्नो विवाहः पाणिपीडनं यस्यामेवंविधा भूमिस्तद्वदिव । उभयोस्तुल्यतामाह - हरितेति । यथायोग्यमन्वयः । हरिता नीला ये कुशा दर्भाः, समिध एधासि, कुसुमानि पुष्पाणि, शमी शिवा, पलाशा ब्रह्मपादपास्तैः शोभिता विराजमाना । उद्वाहभूमिरप्येतादृशी स्यादित्युभयोः साम्यम् । क्वचिदिति । उद्धृत्तो निर्मर्यादो यो मृगपतिः सिंहस्तस्य नादो गर्जितं तेन भीतेव । कण्टको रोमाञ्चः संजातोऽस्या इति कण्टकिता । द्वितीयपक्षे कण्टकिता कण्टकयुक्ता । क्वचिदिति । क्वेति पूर्ववत् । मधुना मत्तेव कोकिलानां परभृतानां कुलानि तेषां कलशब्दरूपः प्रलापो यस्याम् । अथ च ‘प्रलापोऽनर्थक वचः । क्वचिदिति । उन्मत्तेवोन्मादवातयुक्तेव वायुवेगेन पवनाधिक्येन कृतो विहितस्तालवृक्षैः शब्दो यस्यां सा । उन्मादवातवानपि तालं शब्द करोतीति लोकप्रसिद्धम् । क्वचिदिति । विधवेव मृतभर्तृकेव । उभयोः शब्दसाम्यमाह - उन्मुक्तेति । उन्मुक्तानि त्यक्तानि तालपत्राणि तालदलानि यस्यां सा । पक्षे उन्मुक्तानि तालपत्राणि ताडङ्का ययेति विग्रहः । क्वचिदिति । समरः - - - - - - - - - - -
- - - - - - - - - - - - टिप्प० -1 व्याघ्राणां नखपडिक्तभिः (गमनकालोत्पन्ननखचिह्नश्रेणिभिः) मण्डितेति स्पष्टोऽर्थः । 2 'गण्डा, 'ताबीज' इति भाषाप्रसिद्धम् । 3 प्रकटितम् आविष्कृतं मधु-कोशानां माक्षिकाधाराणाम् ('शहदके छत्ते') शतं यस्याम् (अटवी) । आविष्कृतं मधुकोशानां मद्यपात्राणां शतं यस्याम् (पानभूमिः) । इति स्पष्टोऽर्थः । 4 करतलध्वनिः, भुजास्फालनशब्दो वा ।
पाठा० - १ सोत्कण्ठवनिते. २ पदपङ्क्ति . ३ आपान. ४ कोकशता. ५ शृङ्ग; उत्तुङ्ग. ६ उन्मत्त. ७ कुलकल.
पणI
कादम्बरी ।
ON कथामरवे